रामायणम्/उत्तरकाण्डम्/सर्गः ४६
← सर्गः ४५ | रामायणम् सर्गः ४६ वाल्मीकिः |
सर्गः ४७ → |
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। ७.४६.१ ।।
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। ७.४६.२ ।।
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। ७.४६.३ ।।
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। ७.४६.४ ।।
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।
रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। ७.४६.५ ।।
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। ७.४६.६ ।।
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। ७.४६.७ ।।
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।
अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। ७.४६.८ ।।
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। ७.४६.९ ।।
वासांसि च महार्हाणि रत्नानि विविधानि च ।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। ७.४६.१० ।।
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।
वस्त्राणि च महार्हाणि धनानि विविधानि च ।। ७.४६.११ ।।
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.१२ ।।
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।
अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.१३ ।।
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.१४ ।।
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.१५ ।।
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.१६ ।।
पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.१७ ।।
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.१८ ।।
ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.१९ ।।
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.२० ।।
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.२१ ।।
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। ७.४६.२२ ।।
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। ७.४६.२३ ।।
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। ७.४६.२४ ।।
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। ७.४६.२५ ।।
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। ७.४६.२६ ।।
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। ७.४६.२७ ।।
ममापि दयितो रामो जीवितादपि लक्ष्मण ।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। ७.४६.२८ ।।
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।
ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। ७.४६.२९ ।।
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। ७.४६.३० ।।
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।
त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। ७.४६.३१ ।।
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।
नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.३२ ।।
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। ७.४६.३३ ।।
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।
गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः ।। ४६ ।।