रामायणम्/उत्तरकाण्डम्/सर्गः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४९ रामायणम्
सर्गः ५०
वाल्मीकिः
सर्गः ५१ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।
सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ।।

अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।
सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ।।

ततो दुःखतरं किं नु राघवस्य भविष्यति ।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ।।

व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ।।

यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ।।

पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ।।

ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ।।

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ।।

एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ।।

न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ।।

भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ।।

त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।
सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ।।

इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ।।

महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ।।

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ।।

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ।।

सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ।।

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ।।

येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ।।

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ।। ५० ।।