रामायणम्/उत्तरकाण्डम्/सर्गः १११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११० रामायणम्
सर्गः १११
वाल्मीकिः
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११


एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।
रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। ७.१११.१ ।।

ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।
येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ७.१११.२ ।।

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। ७.१११.३ ।।

इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। ७.१११.४ ।।

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.५ ।।

पापान्यपि च यः कुर्यादहन्यहनि मानवः ।
पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। ७.१११.६ ।।

वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। ७.१११.७ ।।

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। ७.१११.८ ।।

अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।
ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। ७.१११.९ ।।

एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।
कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। ७.१११.१० ।।

अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।
लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। ७.१११.११ ।।

प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।
गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। ७.१११.१२ ।।

हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।
यश्च रामायणं लोके शृणोति सदृशावुभौ ।। ७.१११.१३ ।।

सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।
सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। ७.१११.१४ ।।

आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। ७.१११.१५ ।।

पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।
सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। ७.१११.१६ ।।

गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। ७.१११.१७ ।।

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.१८ ।।

यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। ७.१११.१९ ।।

चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। ७.१११.२० ।।

यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।
सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। ७.१११.२१ ।।

पिता पितामहस्तस्य तथैव प्रपितामहः ।
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। ७.१११.२२ ।।

चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। ७.१११.२३ ।।

शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। ७.१११.२४ ।।

एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। ७.१११.२५ ।।

इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ।। १११ ।।

।। इत्युत्तरकाण्डः समाप्तः ।।

।। इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ।।

।। श्रीसीतारामचन्द्रार्पणमस्तु ।।