रामायणम्/उत्तरकाण्डम्/सर्गः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७० रामायणम्
सर्गः ७१
वाल्मीकिः
सर्गः ७२ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। ७.७१.१ ।।

ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्यैश्च रथानां च शतेन सः ।। ७.७१.२ ।।

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। ७.७१.३ ।।

सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। ७.७१.४ ।।

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। ७.७१.५ ।।

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ।। ७.७१.६ ।।

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ।। ७.७१.७ ।।

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। ७.७१.८ ।।

रावणस्य वधो घोरो यत्नेन महता कृतः ।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ।। ७.७१.९ ।।

प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ।। ७.७१.१० ।।

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ।। ७.७१.११ ।।

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ।। ७.७१.१२ ।।

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ।। ७.७१.१३ ।।

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ।। ७.७१.१४ ।।

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।। ७.७१.१५ ।।

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।। ७.७१.१६ ।।

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।। ७.७१.१७ ।।

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।। ७.७१.१८ ।।

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ।। ७.७१.१९ ।।

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।
शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ।। ७.७१.२० ।।

विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।। ७.७१.२१ ।।

शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।
सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ।। ७.७१.२२ ।।

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ।। ७.७१.२३ ।।

एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ।। ७.७१.२४ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकसप्ततिमः सर्गः ।। ७१ ।।