रामायणम्/उत्तरकाण्डम्/सर्गः ७८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७७ रामायणम्
सर्गः ७८
वाल्मीकिः
सर्गः ७९ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। ७.७८.१ ।।

शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। ७.७८.२ ।।

पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.७८.३ ।।

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। ७.७८.४ ।।

ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। ७.७८.५ ।।

एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। ७.७८.६ ।।

सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। ७.७८.७ ।।

सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। ७.७८.८ ।।

भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। ७.७८.९ ।।

सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। ७.७८.१० ।।

तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।। ७.७८.११ ।।

भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। ७.७८.१२ ।।

आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।। ७.७८.१३ ।।

पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ।। ७.७८.१४ ।।

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ।। ७.७८.१५ ।।

तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।
न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ।। ७.७८.१६ ।।
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ।। ७.७८.१७ ।।

स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ।। ७.७८.१८ ।।

यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ।। ७.७८.१९ ।।

स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७.७८.२० ।।

सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं स्वशरीरं द्विजोत्तम ।। ७.७८.२१ ।।

बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७.७८.२२ ।।

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ।। ७.७८.२३ ।।

इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ।। ७.७८.२४ ।।

इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ।। ७.७८.२५ ।।

सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ।। ७.७८.२६ ।।

तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ।। ७.७८.२७ ।।

मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ।। ७.७८.२८ ।।

प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ।। ७.७८.२९ ।।

तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। ७.७८.३० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टसप्ततितमः सर्गः ।। ७८ ।।