रामायणम्/उत्तरकाण्डम्/सर्गः ६९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६८ रामायणम्
सर्गः ६९
वाल्मीकिः
सर्गः ७० →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११


तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। ७.६९.१ ।।

पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। ७.६९.२ ।।

तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। ७.६९.३ ।।

न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। ७.६९.४ ।।

ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। ७.६९.५ ।।

त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ।। ७.६९.६ ।।

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। ७.६९.७ ।।

एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। ७.६९.८ ।।

तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। ७.६९.९ ।।

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। ७.६९.१० ।।

ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। ७.६९.११ ।।

ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। ७.६९.१२ ।।

तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। ७.६९.१३ ।।

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। ७.६९.१४ ।।

नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। ७.६९.१५ ।।

मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। ७.६९.१६ ।।

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। ७.६९.१७ ।।

वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। ७.६९.१८ ।।

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। ७.६९.१९ ।।

तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.२० ।।

सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.२१ ।।

उवाच देवदेवेशं वरदं प्रपितामहम् ।
देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२२ ।।

नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२३ ।।

तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट लोकानामभयङ्करः ।
उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.२४ ।।

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।
तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.२५ ।।

एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।
शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.२६ ।।

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.२७ ।।

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.२८ ।।

इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.२९ ।।

तस्य ते देवदेवस्य निशम्य वचनं सुराः ।
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। ७.६९.३० ।।

तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। ७.६९.३१ ।।

अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।
सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। ७.६९.३२ ।।

आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। ७.६९.३३ ।।

आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।
तं मुमोच महाबाणं लवणस्य महोरसि ।। ७.६९.३४ ।।

उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। ७.६९.३५ ।।

गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। ७.६९.३६ ।।

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ।। ७.६९.३७ ।।

तच्च शूलं महत्तेन हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। ७.६९.३८ ।।

एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। ७.६९.३९ ।।

ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। ७.६९.४० ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।।