रामायणम्/उत्तरकाण्डम्/सर्गः ७४
← सर्गः ७३ | रामायणम् सर्गः ७४ वाल्मीकिः |
सर्गः ७५ → |
तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.१ ।।
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.२ ।।
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.३ ।।
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। ७.७४.४ ।।
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।
मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। ७.७४.५ ।।
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।
राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। ७.७४.६ ।।
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७.७४.७ ।।
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।
श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। ७.७४.८ ।।
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।
अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। ७.७४.९ ।।
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। ७.७४.१० ।।
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।
क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। ७.७४.११ ।।
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। ७.७४.१२ ।।
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। ७.७४.१३ ।।
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। ७.७४.१४ ।।
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। ७.७४.१५ ।।
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। ७.७४.१६ ।।
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। ७.७४.१७ ।।
अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। ७.७४.१८ ।।
पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।
शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। ७.७४.१९ ।।
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। ७.७४.२० ।।
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। ७.७४.२१ ।।
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। ७.७४.२२ ।।
ततः पादमधर्मस्स द्वितीयमवतारयत् ।
ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। ७.७४.२३ ।।
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। ७.७४.२४ ।।
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ७.७४.२५ ।।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।
न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।
हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। ७.७४.२६ ।।
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।
अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। ७.७४.२७ ।।
स वै विषयपर्यन्ते तव राजन्महातपाः ।
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। ७.७४.२८ ।।
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ।। ७.७४.२९ ।।
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। ७.७४.३० ।।
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। ७.७४.३१ ।।
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। ७.७४.३२ ।।
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। ७.७४.३३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ।। ७४ ।।