रामायणम्/उत्तरकाण्डम्/सर्गः ९१
← सर्गः ९० | रामायणम् सर्गः ९१ वाल्मीकिः |
सर्गः ९२ → |
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। ७.९१.१ ।।
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। ७.९१.२ ।।
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। ७.९१.३ ।।
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। ७.९१.४ ।।
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। ७.९१.५ ।।
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। ७.९१.६ ।।
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। ७.९१.७ ।।
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। ७.९१.८ ।।
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। ७.९१.९ ।।
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। ७.९१.१० ।।
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। ७.९१.११ ।।
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। ७.९१.१२ ।।
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। ७.९१.१३ ।।
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।
तथैव तालावचरास्तथैव नटनर्तकाः ।। ७.९१.१४ ।।
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। ७.९१.१५ ।।
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। ७.९१.१६ ।।
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। ७.९१.१७ ।।
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। ७.९१.१८ ।।
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। ७.९१.१९ ।।
चणकानां कुलित्थानां माषाणां लवणस्य च ।
अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। ७.९१.२० ।।
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। ७.९१.२१ ।।
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। ७.९१.२२ ।।
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। ७.९१.२३ ।।
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। ७.९१.२४ ।।
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। ७.९१.२५ ।।
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। ७.९१.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ।। ९१ ।।