रामायणम्/उत्तरकाण्डम्/सर्गः ७०
← सर्गः ६९ | रामायणम् सर्गः ७० वाल्मीकिः |
सर्गः ७१ → |
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। ७.७०.१ ।।
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ।। ७.७०.२ ।।
वरदास्तु महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। ७.७०.३ ।।
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ७.७०.४ ।।
इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। ७.७०.५ ।।
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ।। ७.७०.६ ।।
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। ७.७०.७ ।।
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। ७.७०.८ ।।
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ।। ७.७०.९ ।।
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ।। ७.७०.१० ।।
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ।। ७.७०.११ ।।
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ।। ७.७०.१२ ।।
आरामैश्च विहारैश्च शोभमानं समन्ततः ।
शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ।। ७.७०.१३ ।।
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। ७.७०.१४ ।।
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। ७.७०.१५ ।।
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ।। ७.७०.१६ ।।
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। ७.७०.१७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ।। ७० ।।