रामायणम्/उत्तरकाण्डम्/सर्गः ७
← सर्गः ६ | रामायणम् सर्गः ७ वाल्मीकिः |
सर्गः ८ → |
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.१ ।।
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।
वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.२ ।।
शलभा इव केदारं मशका इव पर्वतम् ।
यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.३ ।।
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।
हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.४ ।।
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।
अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.५ ।।
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।
निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.६ ।।
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।
शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.७ ।।
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।
चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.८ ।।
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.९ ।।
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।
ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.१० ।।
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।
मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.११ ।।
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।
स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.१२ ।।
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.१३ ।।
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।
निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.१४ ।।
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।
असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.१५ ।।
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। ७.७.१६ ।।
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।
रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ।। ७.७.१७ ।।
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।
पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। ७.७.१८ ।।
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।
निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। ७.७.१९ ।।
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। ७.७.२० ।।
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।
मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। ७.७.२१ ।।
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।
द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। ७.७.२२ ।।
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।
वारिजं पूरयामास तोयदं सुरराडिव ।। ७.७.२३ ।।
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। ७.७.२४ ।।
प्रभग्ने राक्षसबले नारायणशराहते ।
सुमाली शरवर्षेण निववार रणे हरिम् ।। ७.७.२५ ।।
स तु तं छादयामास नीहार इव भास्करम् ।
राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। ७.७.२६ ।।
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।
महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। ७.७.२७ ।।
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।
ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। ७.७.२८ ।।
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।
चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। ७.७.२९ ।।
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।
इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। ७.७.३० ।।
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।
हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। ७.७.३१ ।।
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। ७.७.३२ ।।
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। ७.७.३३ ।।
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।
मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। ७.७.३४ ।।
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। ७.७.३५ ।।
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ७.७.३६ ।।
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ।। ७.७.३७ ।।
गदया गरुडेशानमीशानमिव चान्तकः ।
ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। ७.७.३८ ।।
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। ७.७.३९ ।।
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।
उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। ७.७.४० ।।
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।। ७.७.४१ ।।
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।
पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। ७.७.४२ ।।
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। ७.७.४३ ।।
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।
पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। ७.७.४४ ।।
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।
सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। ७.७.४५ ।।
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।
सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। ७.७.४६ ।।
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।
राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। ७.७.४७ ।।
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। ७.७.४८ ।।
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। ७.७.४९ ।।
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।
नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। ७.७.५० ।।
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।
विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। ७.७.५१ ।।
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।
रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। ७.७.५२ ।।
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।
धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। ७.७.५३ ।।
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।
अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। ७.७.५४ ।।
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।
निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। ७.७.५५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तमः सर्गः ।। ७ ।।