सामग्री पर जाएँ

रामायणम्/उत्तरकाण्डम्/सर्गः ८०

विकिस्रोतः तः
← सर्गः ७९ रामायणम्
सर्गः ८०
वाल्मीकिः
सर्गः ८१ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ।। ७.८०.१ ।।

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ।। ७.८०.२ ।।

अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ।। ७.८०.३ ।।

तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ।। ७.८०.४ ।।

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ।। ७.८०.५ ।।
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।
पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ।। ७.८०.६ ।।

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ।। ७.८०.७ ।।

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ।। ७.८०.८ ।।

मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ।। ७.८०.९ ।।

यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।। ७.८०.१० ।।

अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।
क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ।। ७.८०.११ ।।

दास्यते चानवद्याङ्ग तव मा याचितः पिता ।। ७.८०.१२ ।।

एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ।। ७.८०.१३ ।।

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ।। ७.८०.१४ ।।

त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। ७.८०.१५ ।।

एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। ७.८०.१६ ।।

एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ।। ७.८०.१७ ।।

अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ।। ७.८०.१८ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽशीतितमः सर्गः ।। ८० ।।