रामायणम्/उत्तरकाण्डम्/सर्गः १६
← सर्गः १५ | रामायणम् सर्गः १६ वाल्मीकिः |
सर्गः १७ → |
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।
महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.१ ।।
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् ।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.२ ।।
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् ।
अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.३ ।।
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् ।
अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.४ ।।
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।
पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.५ ।।
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।
नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.६ ।।
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।
अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.७ ।।
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।
वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.८ ।।
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् ।
नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.९ ।।
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।
सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.१० ।।
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।
इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.११ ।।
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।
को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.१२ ।।
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.१३ ।।
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।
प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.१४ ।।
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः ।
अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.१५ ।।
यस्माद्वानररूपं मामवज्ञाय दशानन ।
अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.१६ ।।
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः ।
उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.१७ ।।
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः ।
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.१८ ।।
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।
व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.१९ ।।
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.२० ।।
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.२१ ।।
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।
पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.२२ ।।
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।
तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.२३ ।।
केन प्रभावेण भवो नित्यं क्रीडति राजवत् ।
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.२४ ।।
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।
तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.२५ ।।
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।
चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.२६ ।।
ततो राम महादवो देवानां प्रवरो हरः ।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.२७ ।।
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.२८ ।।
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।
मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.२९ ।।
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.३० ।।
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.३१ ।।
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।
तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.३२ ।।
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन ।
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.३३ ।।
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ।
एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।। ७.१६.३४ ।।
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ।। ७.१६.३५ ।।
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।
मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ।। ७.१६.३६ ।।
प्रीतो ऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन ।
शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।। ७.१६.३७ ।।
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ।। ७.१६.३८ ।।
देवता मानुषा यक्षा ये चान्ये जगतीतले ।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ।। ७.१६.३९ ।।
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।
मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ।। ७.१६.४० ।।
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।
प्रीतो यदि महादेव वरं मे देहि याचतः ।। ७.१६.४१ ।।
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ।। ७.१६.४२ ।।
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः ।
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।। ७.१६.४३ ।।
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।
एवमुक्तस्ततस्तेन रावणेन स शङ्करः ।। ७.१६.४४ ।।
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।
आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ७.१६.४५ ।।
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ७.१६.४६ ।।
एवं महेश्वरेणैव कृतनामा स रावणः ।
अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ७.१६.४७ ।।
ततो महीतले राम पर्यक्रामत रावणः ।
क्षत्ऺित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ।। ७.१६.४८ ।।
केचित्तेजस्विनः शूराः क्षत्ऺित्रया युद्धदुर्मदाः ।
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ७.१६.४९ ।।
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ७.१६.५० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षोडशः सर्गः ।। १६ ।।