स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३५
वेदव्यासः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
वनं गते महादेवे गिरिजा विरहातुरा॥
सुखं न लेभे तन्वंगी हर्म्येष्वायतनेषु वा॥ ३५.१ ॥

चिंतयंती शिवंतन्वी सर्वभावेन शोभना॥
चिंतमानां शिवां ज्ञात्वा ह्युवाच विजया सखी॥ ३५.२ ॥

॥विजयोवाच॥
तपसा महता चैव शिवं प्राप्तासि शोभने॥
मृषशा द्यूतं कृतं तेन शंकरेण तपस्विना॥ ३५.३ ॥

द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे॥
क्षमा पय शिवं तन्वि त्वरेणैव विचक्षणे॥ ३५.४ ॥

अस्माभिः सहिता देवि गच्छगच्छ वरानने॥ ३५.५ ॥

यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व॥
नो चेतन्वि क्षामयेथाः शिवं त्वं दुःखं पश्चात्ते भविष्यत्यवश्यम्॥ ३५.६ ॥

निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः॥
उवाच वाक्यं विजयां सखीं च आश्चर्यभूतं परमार्थयुक्तम्॥ ३५.७ ॥

मया जितोऽसौ निरपत्रपश्च पुरा वृतो वै परया विभूत्या॥
किंचिच्च कृत्यं मम नास्ति सद्यो मया विनासौ च विरूप आस्थितः॥ ३५.८ ॥

रूपीकृतो मया देवो महेशो नान्यथा वद॥
मया तेन वियोगश्च संयोगो नैव जायते॥ ३५.९ ॥

साकारो हि निराकारो महेशो हि मया कृतः॥ ३५.१० ॥

कृतं मया विश्वमिदं समग्रं चराचरं देववरैः समेतम्॥
क्रीडार्थमस्योद्भववृत्तिहेतुभिश्चिक्रीडितं मे विजये प्रपश्य॥ ३५.११ ॥

एवमुक्त्वा तदा देवी गिरिजा सर्वमंगला॥
शबरीरूपमास्थाय गंतुकामा महेश्वरम्॥ ३५.१२ ॥

श्यामा तन्वी शिखरदशना बिंबबिंबाधरोष्ठी सुग्रीवाढ्या कुचभरनता गिरिजा स्निग्धकेशी॥
मध्ये क्षामा पृथुकटितटा हेमरंभोरुगौरी पल्लीयुक्ता वरवलयिनी बर्हिबर्हावतंसा॥ ३५.१३ ॥

पाणौ मृणालसदृशं दधती च चापं पृष्ठे लसत्कृतककेतकिबाणकोशम्॥
सा तं निरीशमलोकयति स्म तत्र संसेविता सुवदना बहुभिः सखीभिः॥ ३५.१४ ॥

भृंगीनादेन महता नादयंती जगत्त्रयम्॥
गिरिजा मन्मथं सद्यो जीवयंती पुनःपुनः॥ ३५.१५ ॥

सकामना राजहंसा बभूवुस्तत्क्षणादपि॥
द्विरेफा बर्हिणश्चैव सर्वे ते हृच्छयान्विताः॥ ३५ १६ ॥

एकाकी संस्थितो यत्र यमाधिस्थो महेश्वरः॥
दृष्टस्ततस्तया देव्या भृंगीनादेन मोहितः॥ ३५.१७ ॥

प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा॥
समाधेरुत्थितः सद्यो महेशो मदनान्वितः॥ ३५.१८ ॥

यावत्करे गृह्यमाणो गिरिजां स समीपगः॥
तावत्तस्य पुरः सद्यस्तिरोधानं गता सती॥ ३५.१९ ॥

तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः॥
भ्रममाणस्तदा शंभुर्नापश्यदसितेक्षणाम्॥ ३५.२० ॥

विरहेण समायुक्तो हृच्छयेन समन्वितः॥
मदनारिस्तदा शंभुर्ज्ञानरूपो निरंतरम्॥ ३५.२१ ॥

निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः॥
उवाच वाक्यं शबरीं प्रस्ताव सदृशं महत्॥ ३५.२२ ॥

॥शिव उवाच॥
वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि॥
कासि कस्यासि तन्वंगि किमर्थमटनं वने॥
तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे॥ ३५.२३ ॥

॥शिवोवाच॥
पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम्॥
स्वतंत्रं निर्विकारं च जगतामीश्वरं वरम्॥ ३५.२४ ॥

इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः॥
अहं तवोचितो भद्रे पतिर्नान्यो हि भामिनि॥ ३५.२५ ॥

विमृश्यतां वरारोहे तत्त्वतो हि वरानने॥
वचो निशम्य रुद्रस्य स्मितपूर्वमभाषत॥ ३५.२६ ॥

मयार्थितो महाभाग पतिस्त्वं नान्यथा वद॥
किं तु वक्ष्यामि भद्रं ते निर्गुणोऽसि परंतपः॥ ३५.२७ ॥

यया पुरा वृतोऽसि त्वं तपसा च परेण हि॥
परित्यक्ता त्वयारण्ये क्षणमात्रेण भामिनी॥ ३५.२८ ॥

दुराराध्योऽसि सततं सर्वेषां प्राणिनामपि॥
तस्मान्न वाच्यं हि पुनर्यदुक्तं ते ममाग्रतः॥ ३५.२९ ॥

शबर्या वचनं श्रुत्वा प्रत्युवाच वृषध्वजः॥
मैवं वद विशालाक्षि न त्यक्ता सा तपस्विनी॥
यदि त्यक्ता मया तन्वि किं वक्तुमिह पार्यते॥ ३५.३० ॥

एवं ज्ञात्वा विशालाक्षि कृपणं कृपणप्रियम्॥
तस्मात्त्वया हि कर्तव्यं वचनं मे सुमध्यमे॥ ३५.३१ ॥

एवमभ्यर्थिता तेन बहुधा शूलपाणिना॥
प्रहस्य गिरिजा प्राह उपहासपरं वच॥ ३५.३२ ॥

तपोधनोऽसि योगीश विरक्तोऽसि निरंजनः॥
आत्मारामो हि निर्द्वंद्वो मदनो येन घातितः॥ ३५.३३ ॥

स त्वं साक्षाद्विरूपाक्षो मया दृष्टोसि चाद्य वै॥
अशक्यो हि मया प्राप्तुं सर्वेषां दुरतिक्रमः॥
तस्मात्त्वया न वक्तव्यं यदुक्तं च पुरा मम॥ ३५.३४ ॥

तस्यास्तद्वचनं श्रुत्वा प्रोवाच मदनांतकः॥
मम भार्या भव त्वं हि नान्यथा कर्तुमर्हसि॥ ३५.३५ ॥

इत्युक्त्वा तां करेऽगृह्णाच्छबरीं मदनातुरः॥
उवाच तं स्मयंती सा मुंचमुंचेति सादरम्॥ ३५.३६ ॥

नोचितं भगवान्कर्तुं तापसेन बलादिदम्॥
याचयस्व पितुर्मे त्वं नान्यथाभिभविष्यसि॥ ३५.३७ ॥

॥महादेव उवाच॥
पितरं कथयाशु त्वं स्थितः कुत्र शुभानने॥
द्रक्ष्यामि तं विशालाक्षि प्रणिपातपुरःसरम्॥ ३५.३८ ॥

एतदुक्तं तदा तेन निशम्यासितनेत्रया॥
आनीतो हि तया तन्व्या पितरं वृषभध्वजः॥ ३५.३९ ॥

स्थितं कैलासशिखरे हिमवंतं नगोत्तमम्॥
अहिभिर्बहुभिश्चैव संवृतं च महाप्रभम्॥ ३५.४० ॥

द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च॥
असौ मम पिता देव याचस्व विगतत्रपः॥
ददाति मां न संदेहस्तपस्विन्मा विलंबितम्॥ ३५.४१ ॥

तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे॥
प्रयच्छ तां चाद्य गिरीशवर्य ह्यार्ताय कन्यां सुभगां महामते॥ ३५.४२ ॥

कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः॥
महेशं च समादाय ह्युवाच गिरिराट् स्वयम्॥ ३५.४३ ॥

किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम्॥
त्वं दाता त्रिषु लोकेषु त्वं स्वामी जगतां विभो॥ ३५.४४ ॥

त्वया ततमिदं विश्वं जगदेतच्चराचरम्॥
एवं स्तुतिपरोऽभूच्च हिमालयागिरिर्महान्॥
आगतो नारदस्तत्र ऋषिभिः परिवारितः॥ ३५.४५ ॥

उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो॥
हे शंभो श्रृणु मे वाक्यं तत्त्वसारमयं परम्॥ ३५.४६ ॥

योषिद्भिः संगति पुंसां विडंबायोपकल्पते॥
त्वं स्वामी जगतां नाथः पराणां परमः परः॥
विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि॥ ३५.४७ ॥

एवं प्रबोधितस्तेन नारदेन महात्मना॥
प्रबोधमगमच्छंभुर्जहास परमेश्वरः॥ ३५.४८ ॥

॥शिव उवाच॥
सत्यमुक्तं त्वया चात्र नान्यथा नारदक्वचित्॥
योषित्संगतिमात्रेण नृणां पतनमेव च॥ ३५.४९ ॥

भविष्यति न संदेहो नान्यथा वचनं तव॥
अनया मोहितोऽद्याहमानीतो गंधमादनम्॥ ३५.५० ॥

पिशाचवत्कृतमिदं चरितं परमाद्भुतम्॥ ३५.५१ ॥

तस्मान्न तिष्ठामि गिरेः समीपे व्रजामि चाद्यैव वनांतरं पुनः॥
इत्येवमुक्त्वा स जगाम मार्गं दुरत्ययं योगेनामप्यगम्यम्॥ ३५.५२ ॥

निरालंबं स विज्ञाय नारदो वाक्यमब्रवीत्॥
गिरिजां च गिरींद्रं च पार्षदान्प्रति सत्वरम्॥ ३५.५३ ॥

वंदनीयश्च स्तुत्यश्च क्षाम्यतां परमार्थतः॥
महेशोऽयं जगन्नाथस्त्रिपुरारिर्महायशाः॥ ३५.५४ ॥

एतच्छ्रुत्वा तु वचनं नारदस्य मुखोद्गतम्॥
गिरिजां पुरतः कृत्वा गिरयो हि महाप्रभाः॥ ३५.५५ ॥

दण्डवत्पतिताः सर्वे शंकरं लोकशंकरम्॥
तुष्टुवुः प्रणताः सर्वे प्रमथा गुह्यकादयः॥ ३५.५६ ॥

स्तूयमानो हि भगवानागतो गंधमादनम्॥
अंगिरसा हि सर्वेशो ह्यभिषिक्तो महात्मभिः॥ ३५.५७ ॥

तदा दुन्दुभयो नेदुर्वादित्राणि बहूनि च॥
इन्द्रादयः सुराः सर्वे पुष्पवर्षं ववर्षिरे॥ ३५.५८ ॥

ब्रह्मादिभिः सुरगणैर्बहुभिः परीतो योगीश्वरो गिरिजया सह विश्ववंद्यः॥
अभ्यर्थितः परममंगल मंगलैश्च दिव्यासनोपरि रराज महाविभूत्या॥ ३५.५९ ॥

एवंविधान्यनेकानि चरितानि महात्मनः॥
महेशस्य च भो विप्राः पापहारीणि श्रृण्वताम्॥ ३५.६० ॥

यानियानीह रुद्रस्य चरितानि महांत्यपि॥
श्रुतानि परमाण्येव भूयः किं कथयामि वः॥ ३५.६१ ॥

॥ऋषय ऊचुः॥
एव मुक्तं त्वया सूत चरितं शंकरस्य च॥
अनेन चरितेनैव संतृप्ताः स्मो न संशयः॥ ३५.६२ ॥

॥सूत उवाच॥
व्यासप्रसादाच्छ्रुतमस्ति सर्वं मया ततं शंकररूपमद्भुतम्॥
सुविस्तृतं चाद्भुतवेदगर्भं ज्ञानात्मकं परमं चेदमुक्तम्॥ ३५.६३ ॥

श्रद्धया परयोपेताः श्रावयंति शिवप्रियम्॥
श्रृण्वंति चैव ये भक्त्या शंभेर्माहात्म्यमद्भुतम्॥
शिवशास्त्रमिदं प्रीत्या ते यांति मरमां गतिम्॥ ३५.६४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे पार्वत्या शबरीरूपेण शिवस्य गन्धमादनपर्वतं प्रत्यानयनपूर्वकं बृहस्पतिकृतशिवराज्याभिषेकवर्णनं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥ छ ॥

॥ इति श्रीस्कान्दमहापुराणे प्रथमे माहेश्वरखण्डे प्रथमः केदारखण्डः समाप्तः॥ १ ॥