सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः/2.2.1 प्रथमोऽर्द्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
अभि विश्वानि काव्या ।। ७७५[१] ।।
त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
पवस्व विश्वचर्षणे ।। ७७६ ।।
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
तुभ्यं धावन्ति धेनवः ।। ७७७ ।।


पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ।। ७७८[२] ।।
यस्य ते सख्ये वयं सासह्याम पृतन्यतः ।
तवेन्दो द्युम्न उत्तमे ।। ७७९ ।।
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
रक्षा समस्य नो निदः ।। ७८० ।।


वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दध्रिषे ।। ७८१ ।।
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः ।
स त्वं वृषन्वृषेदसि ।। ७८२ ।।
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
वि नो राये दुरो वृधि ।। ७८३ ।।



वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वर्दृशं ।। ७८४ ।।
यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः ।
द्रोणे सधस्थमश्नुषे ।। ७८५ ।।
आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
इहो ष्विन्दवा गहि ।। ७८६ ।।


पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
सखित्वमा वृणीमहे ।। ७८७ ।।
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
तेभिर्नः सोम मृडय ।। ७८८ ।।
स नः पुनान आ भर रयिं वीरवतीमिषम्
ईशानः सोम विश्वतः ।। ७८९ ।।


अग्निं दूतं वृणीमहे होतारं विश्ववेदसं ।
अस्य यज्ञस्य सुक्रतुं ।। ७९० [३]।।
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिं ।
हव्यवाहं पुरुप्रियं ।। ७९१ ।।
अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ।। ७९२ ।।


मित्रं वयं हवामहे वरुणं सोमपीतये ।
य जाता पूतदक्षसा ।। ७९३ ।।
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ।। ७९४ ।।
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ।। ७९५ ।।


इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ।। ७९६ ।।
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ।। ७९७ ।।
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ।। ७९८ ।।
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत्।।७९९।।


इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
धिया धेना अवस्यवः ।। ८०० ।।
ता हि शश्वन्त ईडत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ।। ८०१ ।।
ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ।। ८०२ ।।

१०
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ।। ८०३[४] ।।
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनं ।। ८०४ ।।
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ।। ८०५ ।।
यौक्ताश्वाद्यम्
ऋषभः पवमानः
हरिश्रीनिधनम्
सन्तनि
सौपर्णम्
रोहितकूलीयम्

११
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां ।
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां ।। ८०६ ।।
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं ।
पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ।। ८०७ ।।
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं ।
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ।। ८०८ ।।
वासिष्ठम्

१२
त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ।। ८०९ ।।
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ।। ८१० ।।
बृहत्साम


१३
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ।। ८११ ।।
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ।। ८१२ ।।
श्यैतम्
वृषा

१४
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ।। ८१३ ।।
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः ।
तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ।। ८१४ ।।
माधुश्छन्दसम्

१५
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ।। ८१५ ।।
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ।। ८१६ ।।
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ।। ८१७ ।।
हाविष्मतम्
दक्षणिधनमौक्षम्
अग्नेरर्कः
अध्यर्द्धेडं सोमसाम

१६
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ।। ८१८ ।।
समु प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ।। ८१९ ।।
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।
यः पञ्च चर्षणीरभि रयिं येन वनामहे ।। ८२० ।।
तृतीयं क्रौञ्चम्
गौरीवितम्
गौरीवितम्
भर्गः

१७
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ।। ८२१ ।।
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ।।८२२ ।।
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ।। ८२३ ।।
यामम्

१८
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
एवा ते राध्यं मनः ।। ८२४ ।।
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
अधा चिदिन्द्र नः सचा ।। ८२५ ।।
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते ।
मत्स्वा सुतस्य गोमतः ।। ८२६ ।।
उक्थ्यामहीयवम्

१९
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिं ।। ८२७ ।।
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
त्वामभि प्र नोनुमो जेतारमपराजितं ।। ८२८ ।।
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं ।। ८२९ ।।
आष्टादंष्ट्रम्
नार्मेधम्

  1. जै.ब्रा. ३.२०
  2. जै.ब्रा. ३.२१
  3. जै.ब्रा. ३.२२
  4. जैब्रा ३.२३