नाट्यशास्त्रम्/अध्यायः ११
॥ नाट्यशास्त्रम् अध्याय ११ ॥
॥ श्रीरस्तु ॥
एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे ।
चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् ।
सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥
वामबन्धं सललितं क्रान्तञ्चाकाशगामि च ।
मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥
भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् ।
समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥
अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च ।
पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥
एतान्यपि दशोक्तानि भूमिगानीह नामतः ।
आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥
अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् ।
सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥
सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् ।
सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥
तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् ।
परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥
अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् ।
विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ।
आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥
वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् ।
भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥
उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् ।
पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥
विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् ।
बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् ।
कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥
अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् ।
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् ।
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् ।
परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥
एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः ।
सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥
पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ।
सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥
पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले ।
आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ।
उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा ।
अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥
वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले ।
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥
आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च ।
अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥
पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ।
समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥
सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् ।
भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥
एष चारीप्रयोगस्तु विहृते मण्डले भवेत् ।
सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥
पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः ।
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥
षट्सङ्ख्यं सप्तसङ्ख्यं च ललितैः पादविक्रमैः ।
अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥
अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च ।
पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः ।
आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥
उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु ।
सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः ।
अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥
अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा ।
अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥
अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः ।
सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥
अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः ।
एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ।
पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥
स्वभावगमने ह्येतन्मण्डलं संविधीयते ।
क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥
एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु ।
अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् ।
शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥
आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् ।
आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥
वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा ।
स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् ।
कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥
उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः ।
कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥
शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् ।
एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥
आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् ।
शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥
पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् ।
आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥
आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् ।
पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥
समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् ।
निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥
कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् ।
यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥
चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् ।
समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥
पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च ।
एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥
सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् ।
एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥
सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् ।
तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥
आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् ।
अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् ।
तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ।
स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥
विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् ।
पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् ।
अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ।
अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् ।
भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥
भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् ।
पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥
सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् ।
एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥
नानाचारीसमुत्थानि मण्डलानि समासतः ।
उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥
समचारीप्रयोगो यस्तत्समं नाम मण्डलम् ।
आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च ।
लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥
इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।