नाट्यशास्त्रम्/अध्यायः २६
॥ नाट्यशास्त्रम् अध्याय २६ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
षड्विंशोऽध्यायः
अनुरूपा विरूपा च तथा रूपानुरूपिणी ।
त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १॥
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा ।
भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २॥
बहुबाहूबहुमुखास्तथा च विकृताननाः ।
पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ ३॥
एते चान्ये च बहवो नानारूपा भवन्ति ये ।
आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४॥
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् ।
आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ ५॥
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ॥
वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६॥
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् ।
परभावं प्रकुरुते परभावं समाश्रितः ॥ ७॥
एवं बुधः परम्भावं सोऽस्मीति मनसा स्मरन् ।
येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८॥
सुकुमारप्रयोगो यो राज्ञामामोदसम्भवः ।
शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९॥
युद्धोद्धताविद्धकृता संरम्भारभटाश्च ये ।
न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥
अनुद्भटमसम्भ्रान्तमनाविद्धाङ्गचेष्टितम् ।
लयतालकलापातप्रमाणनियताक्षरम् ॥ ११॥
सुविभक्तपदालापमनिष्ठुरमकाहलम् ।
ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ १२॥
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् ।
स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ १३॥
यथा वयो यथावस्थमनुरूपेति सा स्मृता ।
पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ १४॥
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः ।
छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५॥
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ ।
पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६॥
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः ।
यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७॥
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् ।
यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८॥
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ ।
प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९॥
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन ।
रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २०॥
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह ।
उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१॥
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके ।
स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२॥
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते ।
तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २३॥
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः ।
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४॥
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः ।
नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५॥
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु ।
सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६॥
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् ।
युद्धोद्धताविद्धकृतासंरम्भारभटाश्च ये ॥ २७॥
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते ।
यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २८॥
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् ।
पुरुषप्रायसञ्चारमल्पस्त्रीकमथोद्धतम् ॥ २९॥
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसन्ज्ञितम् ।
डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३०॥
एतान्याविद्धसन्ज्ञानि विज्ञेयानि प्रयोक्तृभिः ।
एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१॥
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः ।
योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ ३२॥
न हि योग्यया विना भवति च भावरससौष्ठवं किञ्चित् ।
सङ्गीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३॥
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण ।
प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् ।
कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥३४॥
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया ।
शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ ३५॥
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः ।
ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ ३६॥
मेधास्मृतिर्गुणश्लाघारागः सङ्घर्ष एव च ।
उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ ३७॥
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् ।
अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ ३८॥
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो
नाम षड्विंशोऽध्यायः ॥