नाट्यशास्त्रम्/अध्यायः १७
॥ नाट्यशास्त्रम् अध्याय १७ काकुस्वरव्यञ्जनः ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ सप्तदशोऽध्यायः ।
एवं तु संस्कृतं पाठ्यं मया प्रोक्तं द्विजोत्तमाः ।
प्राकृतस्यापि पाठ्यस्य सम्प्रवक्ष्यामि लक्षणम् ॥ १॥
एतदेव विपर्यस्तं संस्कारगुणवर्जितम् ।
विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २॥
त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः ।
समानशब्दं विभ्रष्टं देशीगतमथापि च ॥ ३॥
कमलामलरेणुतरङ्गलोलसलिलादिवाक्यसम्पन्नम् ।
प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति ॥ ४॥
ये वर्णाः संयोगात् स्वरवर्णान्यत्वं न्यूनतां चापि ।
गच्छन्ति पदन्यस्तास्ते विभ्रष्टा इति ज्ञेयाः ॥ ५॥
ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः ।
तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि ॥ ६॥
यथा -
एओआरपराणिअ अं आरपरं अ पाअए णत्थि ।
बसआरमज्झिमाइ अ कच वग्गतवाणिहणाइं ॥ ७॥
वच्चन्ति कगतदयवा लोपं अत्थं च से वहन्ति सरा ।
खधथधभा उण हत्तं उर्वेति अत्थं अ मुञ्चन्ता ॥ ८॥
उप्परहुत्तरआरो हेटाहुत्तो अ पाअए णत्थि ।
मोत्तूण भद्रचोद्रह पद्रह्वदचन्द्रजाई स ॥ ९॥
खधथधभाण हआरो मुहमेहकहावहूपह्वएसु ।
कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होई ॥ १०॥
छ इति षकारो नित्यं बोद्धव्यः षटपदादियोगेषु ।
किल शब्दान्त्यो रेफो भवति तथा खु त्ति खलुशब्दः ॥ ११॥
ड इति च भवति टकारो भटकटककुटीतटाद्येषु ।
सत्वं च भवति शषयोः सर्वत्र तथा हि स स आदेशः ॥ १२॥
अष्टस्पश्च दकारो भवत्यनादौ तकार इतराद्यः ।
बडवातडागतुल्यो भवति डकारोऽपि च ककारः ॥ १३॥
वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति ।
सर्वत्र च प्रयोगे भवति नकारोऽपि च णकारः ॥ १४॥
आपानम् आवानं भवति पकारेन वत्वयुक्तेन ।
अयथातथादिकेषु तु भकारवर्णो व्रजीत हत्वम् ॥ १५॥
परुषं फरुसं विद्यात्पकारवर्णोऽपि फत्वमुपयाति ।
यस्तु मृतः सोऽपि मओ यश्च मृगः सोऽपि हि तथैव ॥ १६॥
ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः ।
प्रचलाचिराचलादिषु भवति चकारोऽपि तु यकारः ॥ १७॥
अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः ।
संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ १८॥
श्चप्सत्सध्याः छ इति तथाभ्यह्यध्या
भवन्ति तु झकाराः ।
ष्टः ट्ठः स्तः स्थः ष्मौ म्हः
क्ष्णो ह्णः ष्णो ण्हः क्षः खकाररूपोऽपि ॥ १९॥
आश्चर्यं अच्छरियं निश्चयमिच्छन्ति णिच्छयं च यथा ।
वत्सं वच्छं च यथा अप्सरसं तद्वदच्छरअम् ॥ २०॥
उत्साहो उच्छाहो पथ्यं च पच्छं विज्ञेयम् ।
तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विञ्ज्झोत्ति ॥ २१॥
दष्टो वट्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति ।
ग्रीष्मो गिम्होत्ति तथा श्लक्ष्णं सह्णं सदा तु विज्ञेयम् ॥ २२॥
उष्णं उह्णं यक्षो जक्खो पर्यङ्को भवति पल्लङ्कु ।
विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम् ॥ २३॥
यज्ञो भवति न जन्नो भीष्मो भिम्होत्ति विज्ञेयः ।
उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ॥ २४॥
स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् ।
एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ॥ २५॥
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम् ।
भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः ॥ २६॥
संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते ।
अतिभाषार्यभाषा च जातिभाषा तथैव च ॥ २७॥
तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता ।
अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् ॥ २८॥
संस्कारपाठ्यसंयुक्ता सम्यङ् न्याय्यप्रतिष्ठिता ।
विविधा जातिभाषा च प्रयोगे समुदाहृता ॥ २९॥
म्लेच्छशब्दोपचारा च भारतं वर्षमाश्रिता ।
अथ योन्यन्तरी भाषा ग्राम्यारण्यपशूद्भवा ॥ ३०॥
नानाविहङ्गजा चैव नाट्यधर्मी प्रतिष्ठिता ॥ ३१॥
जातिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम् ।
प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् ।
धीरोद्धते सललिते धीरोदात्ते तथैव च ॥ ३२॥
धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् ।
एषामेव तु सर्वेषां नायकानां प्रयोगतः ॥ ३३॥
कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् ।
दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च ॥ ३४॥
ऐश्वर्येण प्रमत्तानां दारिद्र्येण प्लुतात्मनाम् ।
अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ ३५॥
व्याजलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम् ।
भिक्षुचक्रचराणां च प्राकृतं सम्प्रयोजयेत् ॥ ३६॥
भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु ।
स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ ३७॥
परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च ।
शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ ३८॥
राज्ञाश्च गणिकायाश्च शिल्पकार्यास्तथैव च ।
कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् ॥ ३९॥
सन्धिविग्रहसम्बन्धं तथा च प्राप्तवाग्गतिम् ।
ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ ४०॥
सर्वमेतत्तु विज्ञेयं काव्यबन्धे शुभाशुभम् ॥ ४१॥
क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् ।
कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ ४२॥
कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च ।
निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः ॥ ४३॥
आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः ।
संसर्गाद्देवतानां च तद्धि लोकोऽनुवर्तते ॥ ४४॥
छन्दतः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि ।
मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ॥ ४५॥
सर्वास्वेह हि शुद्धासु जातिषु द्विजसत्तमाः ।
शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् ॥ ४६॥
अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः ।
नानादेशसमुत्थं हि काव्यं भवति नाटके ॥ ४७॥
मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी ।
बाह्लीका दक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८॥
शकाराभीरचण्डालशवरद्रमिलोद्रजाः ।
हीना वनेचराणां च विभाषा नाटके स्मृता ॥ ४९॥
मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया ।
चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ ५०॥
प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा ।
नायिकानां सखीनां च शूरसेन्यविरोधिनी ॥ ५१॥
यौधनागरकादीनां दक्षिणात्याथ दीव्यताम् ।
बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ ५२॥
शकारघोषकादीनां तत्स्वभावश्च यो गणः ।
शकारभाषा योक्तव्या चाण्डाली पुल्कसादिषु ॥ ५३॥
अङ्गारकारकव्याधकाष्ठयन्त्रोपजीविनाम् ।
योज्या शकारभाषा तु किञ्चिद्वानौकसी तथा ॥ ५४॥
गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् ।
आभीरोक्तिः शावरी वा द्रामिडी वनचारिषु ॥ ५५॥
सुरङ्गाखनकादीनां सन्धिकाराश्वरक्षताम् ।
व्यसने नायकानां चाप्यात्मरक्षासु मागधी ॥ ५६॥
न बर्बरकिरातान्ध्रद्रमिलाद्यासु जातिषु ।
नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् ॥ ५७॥
गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः ।
एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५८॥
विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः ।
नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥
सुराष्ट्रावन्तिदेषेषु वेत्रवत्युत्तरेषु च ।
ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् ॥ ६०॥
हिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः ।
उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६१॥
चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रिताः ।
तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥
एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् ।
अत्र नोक्तं मया यत्तु लोकाद् ग्राह्यं बुधैस्तु तत् ॥ ६३॥
एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः ।
पुनर्वाक्यविधानं तु लौकिकं सन्निबोधत ॥ ६४॥
उत्तमैर्मध्यमैर्नीचैर्ये सम्भाष्या यथा नराः ।
समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ॥ ६५॥
देवानामपि ये देवा महात्मानो महर्षयः ।
भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥ ६६॥
देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये ।
भगवन्निति ये वाच्याः पुरुषैः स्त्रीभिरेव च ॥ ६७॥
आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम् ।
उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ॥ ६८॥
नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः ।
तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः ॥ ६९॥
ब्राह्मणैः सचिवो वाच्यो ह्यमात्यः सचिवेति वा ।
शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ॥ ७०॥
समैः सम्भाषणं कार्यं येन नाम्ना स संज्ञितः ।
हीनैः सपरिवारं तु नाम्ना सम्भाष्य उत्तमः ॥ ७१॥
नियोगाधिकृताश्चैव पुरुषा योषितस्तथा ।
कारुकाः शिल्पिनश्चैव सम्भाष्यास्ते तथैव हि ॥ ७२॥
मार्षो भावेति वक्तव्यः किञ्चिदूनस्तु मार्षकः ।
समानोऽथ वयस्येति हं ह्वो हण्डेति वाधमः ॥ ७३॥
आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा ।
तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते ॥ ७४॥
स्वामीति युवराजस्तु कुमारो भर्तृदारकः ।
सौम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् ॥ ७५॥
यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा ।
स तेन नाम्ना भाष्यो हि नाटकादौ प्रयोक्तृभिः ॥ ७६॥
वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः ।
वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा ॥ ७७॥
सम्भाष्या शाक्यनिर्ग्रन्था भदन्तेति प्रयोक्तृभिः ।
आमन्त्रणैस्तु पाषण्डाः शेषाः स्वसमयाश्रितैः ॥ ७८॥
देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा ।
भट्टेति सार्वभौमस्तु नित्यं परिजनेन हि ॥ ७९॥
राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा ।
वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ॥ ८०॥
विदूषकेण राज्ञी च चेटी च भवतीत्यपि ।
नाम्ना वयस्येत्यपि वा राज्ञा वाच्यो विदूषकः ॥ ८१॥
सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने ।
अन्यदा पुनरार्येति महाराजेति भूपतिः ॥ ८२॥
आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः ।
योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ॥ ८३॥
पुरुषाभाषणं ह्येव कार्यं नाट्ये प्रयोक्तृभिः ।
पुनः स्त्रीणां प्रवक्ष्यामि यथाभाष्यास्तु नाटके ॥ ८४॥
तपस्विन्यो देवताश्च वाच्या भगवतीति च ।
गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ॥ ८५॥
गम्या भद्रेति वाच्या वै वृद्धाम्बेति च नाटके ।
राजपत्न्यस्तु सम्भाष्याः सर्वाः परिजनेन वै ॥ ८६॥
भट्टिनी स्वामिनी देवीत्येवं वै नाटके बुधैः ।
देवीति महिषी वाच्या राज्ञा परिजनेन वा ॥ ८७॥
भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः ।
कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः ॥ ८८॥
स्वसेति भगिनी वाच्या वत्सेति च यवीयसी ।
ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ॥ ८९॥
पत्नी चार्येति सम्भाष्या पितृनाम्ना सुतस्य सा ।
समानाभिस्तथा सख्यो हलेति स्यात्परस्परम् ॥ ९०॥
प्रेष्या हज्जेति वक्तव्या स्त्रियो या तूत्तमा भवेत् ।
अज्जुकेति च वक्तव्या वेश्या परिजनेन च ॥ ९१॥
अत्तेति गणिका माता वाच्या परिजनेन हि ।
प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा ॥ ९२॥
पुरोधः सार्थवाहानां भार्यास्त्वार्येति सर्वदा ।
तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा ॥ ९३॥
औत्पत्तिकानि यानि स्युर्न प्रख्यातानि नाटके ।
ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः ॥ ९४॥
काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि ।
दत्तप्रायाणि नामानि वणिजां सम्प्रयोजयेत् ॥ ९५॥
कापालिकास्तु घण्टान्तनामानः समुदाहृता ।
शौर्योदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९६॥
विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः ।
दत्ता मित्रा सेनेति वेश्यानामानि योजयेत् ॥ ९७॥
नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके ।
मङ्गलार्थानि नामानि चेटानामपि योजयेत् ॥ ९८॥
गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत् ।
यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ॥ ९९॥
जातिचेष्टानुरूपाणि शेषाणामपि कारयेत् ।
नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ॥ १००॥
एवं नामविधानं तु कर्तव्यं कविभिः सदा ।
एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः ॥ १०१॥
पाठ्यगुणानिदानीं वक्ष्यामः । तद्यथा सप्तस्वराः, त्रीणि
स्थानानि, चत्वारो वर्णाः, द्विविधा काकुः, षडलङ्काराः,
षडङ्गानीति । एषामिदानीं लक्षणमभिव्याख्यास्यामः ।
तत्र सप्तस्वरा नाम -
षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः त एते
रसेषूपपाद्याः ॥ १०२॥
यथा -
ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम् ।
हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ १०३॥
षड्जर्षभौ तथा चैव वीररौद्राद्भुतेष्वथ ।
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ १०४॥
धैवतश्चैव कर्तव्यो बीभत्से सभयानके ।
त्रीणि स्थानानि - उरः कण्ठः शिर इति । भवत्यपि च
शारीर्यामथ वीणायां त्रिभ्यः स्थानिभ्य एव तु ।
उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ १०५॥
आभाषणं च दूरस्थे शिरसा सम्प्रयोजयेत् ।
नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः ॥ १०६॥
उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः ।
कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा ॥ १०७॥
उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा ।
वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ १०८॥
तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यं,
वीररौद्राद्भुतेषूदात्तकम्पितैः
करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा
काकुः साकाङ्क्षा निराकाङ्क्षा चेति वाक्यस्य
साकाङ्क्षनिराकाङ्क्षकत्वात् ॥ १०९॥
अनियुक्तार्थकं वाक्यं साकाङ्क्षमिति संज्ञितम् ।
नियुक्तार्थं तु यद्वाक्यं निराकाङ्क्षं तदुच्यते ॥ ११०॥
तत्र साकाङ्क्षं नाम
तारादिमन्द्रान्तमनियुक्तार्थमनिर्यातितवर्णालङ्कारं
कण्ठोरःस्थानगतम् । निराकाङ्क्षं नाम नियुक्तार्थं
निर्यातितवर्णालङ्कारं शिरःस्थानगतं मान्द्रादितारान्तमिति ।
अथ षडलङ्कारा नाम -
उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ ।
पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत ॥ ११२॥
उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च
दूरस्थाभाषणविस्मयोत्तरोत्तरसञ्जल्पदूराह्वानत्रासनाबाधाद्येषु ।
दीप्तो नाम शिरःस्थानगतस्तारतरः, स
चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती-
क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु ।
मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा-
गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु ।
नीचो नाम उरःस्थानगतो मन्द्रतरः, स च
स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु ।
द्रुतो नाम कण्ठगतः स च त्वरितः,
लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु ।
विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च
शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा-
चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु
अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥
उत्तरोत्तरसञ्जल्पपरुषाक्षेपणेषु च ।
तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा ॥ ११५॥
परोक्षस्य समाह्वाने तर्जने त्रासने तथा ।
दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ॥ ११६॥
भावेष्वेतेषु नित्यं हि नानारससमाश्रया ।
उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ॥ ११७॥
व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते ।
नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च ॥ ११८॥
गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते ।
मन्द्रा नीचा च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ ११९॥
लल्ले च मन्मने चैव भयार्ते शीतविप्लुते ।
मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ १२०॥
दृष्टनष्टानुसरणे इष्टानिष्टश्रुते तथा ।
इष्टार्थख्यापने चैव चिन्ताध्याने तथैव च ॥ १२१॥
उन्मादेऽसूयिते चैव उपालम्भे तथैव हि ।
अव्यक्तार्थप्रवादे च कथायोगे तथैव च ॥ १२२॥
उत्तरोत्तरसञ्जल्पे कार्येऽतिशयसंयुते ।
विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ॥ १२३॥
विस्मयामर्षयोश्चैव प्रहर्षे परिदेविते ।
विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् ॥ १२४॥
लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा ।
उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ॥ १२५॥
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च ।
मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ॥ १२६॥
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि ।
एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ १२७॥
हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता ।
वीररौद्राद्भुतेषूच्चा दीप्ता वापि प्रशस्यते ॥ १२८॥
भयानके सबीभत्से द्रुता नीचा च कीर्तिता ।
एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ १२९॥
अथाङ्गानि षट् - विच्छेदोऽर्पण विसर्गोऽनुबन्धो दीपनं
प्रशमनमिति । तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम
लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्गं यत्पठ्यते
तदर्पणम् । विसर्गो नाम वाक्यन्यासः । अनुबन्धो नाम
पदान्तरेष्वपि विच्छेदः, अनुच्छ्वसनं वा । दीपनं नाम
त्रिस्थानशोभि वर्धमानस्वरं चेति । प्रशमनं नाम
तारगतानां स्वराणां प्रशाम्यतामवैस्वर्येणावतारणमिति ।
एषां च रसगतः प्रयोगः - तत्र
हास्यशृङ्गारयोराकाङ्क्षायामर्पणविच्छेददीपनप्रशमनयुक्तं
पाठ्यं कार्यम् । दीपनप्रशमनयुक्तं करुणे ।
विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु
विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति । सर्वेषामप्येषां
मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानगतः । तत्र
दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन,
पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति । मन्द्रात्तारं न
गच्छेत्, ताराद्वा मन्द्रमिति ॥ १३०॥
एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः । तत्र
हास्यशृङ्गारयोर्मध्यलयः, करुणे विलम्बितो,
वीररौद्राद्भुतबीभत्सभयानकेषु द्रुत इति ।
अथ विरामः अर्धसमाप्तो कार्यवशान्न छन्दोवशात् । कस्मात्,
दृश्यन्ते ह्येकद्वित्रिचतुरक्षरा विरामाः । यथा -
किं ! गच्छ, मा विश सुदुर्जन ! वारितोऽऽसि
कार्यं त्वया न मम सर्वजनोपयुक्तम् ।
सूचासु चाङ्कुरगते च तथोपचारे -
ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥
एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः
सः ।
अत्र श्लोकौ -
विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः ।
कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः ॥ १३३॥
यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः ।
वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः ॥ १३४॥
प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ ।
बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ॥ १३५॥
हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ ।
अद्भुते विस्मयात्स्तब्धौ भयाच्चैव भयानके ॥ १३६॥
एवमादिषु चान्येषु प्रविचारेऽपि हस्तयोः ।
अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः ॥ १३७॥
ये विरामाः स्मृता वृत्ते तेष्वलङ्कार इष्यते ।
समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा ॥ १३८॥
पदवर्णसमासे च द्रुते बह्वर्थसङ्कटे ।
कार्यो विरामः पादान्ते तथा प्राणवशेन वा ॥ १३९॥
शेषमर्थवशेनैव विरामं सम्प्रयोजयेत् ।
अत्र च भावगतानि च कृष्याक्षराणि बोद्धव्यानि, तद्यथा -
आकारैकारसंयुक्तमैकारौकारसंयुतम् ।
व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते ॥ १४०॥
विषादे च वितर्के च प्रश्नेऽथामर्ष एव च ।
कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः ॥ १४१॥
शेषाणामर्थयोगेन विरामे विरमेदिह ।
एकद्वित्रिचतुःपञ्चषट्कलं च विलम्बितम् ॥ १४२॥
विलम्बिते विरामे हि सदा गुर्वक्षरं भवेत् ।
षण्णां कलानां परतो विलम्बो च विधीयते ॥ १४३॥
अथवा कारणोपेतं प्रयोगं कार्यमेव च ।
समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः ॥ १४४॥
ये विरामाः स्मृताः पाठ्ये वृत्तपादसमुद्भवाः ।
उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः ॥ १४५॥
नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं तथैव हि ।
विश्रमेन्नाविरामेषु दैन्ये काकुं न दीपयेत् ॥ १४६॥
वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् ।
स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं यथाविधि ॥ १४७॥
अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः ।
त एव सर्वे कर्तव्या स्त्रीणां पाठ्ये त्वसंस्कृते ॥ १४८॥
एवमेतत्स्वरकृतं कलाताललयान्वितम् ।
दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ॥ १४९॥
उक्तं काकुविधानं तु यथावदनुपूर्वशः ।
अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ॥ १५०॥
॥ इति भरतीये नाट्यशास्त्रे वागभिनये काकुस्वरव्यञ्जनो नाम
सप्तदशोऽध्यायः ॥