नाट्यशास्त्रम्/अध्यायः ८
॥ नाट्यशास्त्रम् अध्याय ८ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अष्टमोऽध्यायः
ऋषयः ऊचुः ।
भावानां च रसां च समुत्थानं यथाक्रमम् ।
त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥१॥
नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः ।
कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ २॥
सर्वमेतद्यथातत्त्वं कथयस्व महामुने ।
यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ ३॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥ ४॥
अहं वः कथयिष्यामि निखिलेन तपोधनाः ।
यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥ ५॥
यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति ।
अत्र श्लोकौ --
अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये ।
यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ ६॥
विभावयति यस्माच्च नानार्थान् हि प्रयोगतः ।
शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ ७॥
चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः ।
अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ ८॥
आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा ।
ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ ९॥
सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया ।
अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १०॥
त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा ।
तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ११॥
शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः ।
अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसङ्ग्रहः ॥ १२॥
तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि ।
नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ १३॥
अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च ।
वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् ।
अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ १५॥
मुखजेऽभिनये विप्रा! नानाभावरसाश्रये ।
शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ १६॥
आकम्पितं कम्पितं च धूतं विधुतमेव च ।
परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥ १७॥
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् ।
लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ १८॥
शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् ।
द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ १९॥
ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् ।
बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ २०॥
सन्ज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा ।
निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २१॥
रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने ।
प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ २२॥
शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते ।
द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः॥२३॥
अनीप्सिते विषादे च विस्मये प्रत्ययं तथा ।
पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २४॥
शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा ।
पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ २५॥
पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् ।
आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥ २६॥
साधने विस्मये हर्षे स्मिते चामर्षिते तथा ।
विचारे विहृते चैव लीलायां परिवाहितम् ॥ २७॥
गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे
आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ २८॥
यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः ।
सन्देशावाहनालापसन्ज्ञादिषु नदिष्यते ॥ २९॥
किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् ।
व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ ३०॥
उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः ।
निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥ ३१॥
गर्वे माने विलासे च बिव्वोके किलकिञ्चिते ।
मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ३२॥
परावृत्तानुकरणात् परावृत्तमिहोच्यते ।
तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ ३३॥
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः ।
प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ३४॥
अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् ।
लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ ३५॥
सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् ।
मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥३६॥
ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् ।
मङ्गल्याध्ययनध्यानस्वभावजयकर्मसु ॥ ३७॥
एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः ।
ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ३८॥
त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् ।
अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ३९॥
कान्ता भयानका हास्या करुणा चाद्भुता तथा ।
रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ ४०॥
स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता ।
जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा ।
ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४२॥
कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा ।
वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥
आकेकरा विकोशा च त्रस्ता च मदिरा तथा ।
षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ४४॥
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् ।
लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥
हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा ।
सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ ४६॥
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका ।
दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ ४७॥
क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका ।
हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ ४८॥
पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका ।
नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ४९॥
या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका ।
सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते॥ ५०
क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका ।
भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ५१॥
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका ।
उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ ५२॥
निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका ।
संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ५३॥
नासाग्रसक्ता निमिषा तथाधोभागचारिणी ।
आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ ५४॥
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता ।
अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ ५५॥
व्याकोशमध्या मधुरा स्थितताराभिलाषिणी ।
सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ ५६॥
चला हसितगर्भा च विशत्तारानिमेषिणी ।
किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ५७॥
अवस्रस्तोत्तरपुटा किञ्चित्सरम्ब्धतारका ।
मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ ५८॥
रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका ।
कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ५९॥
संस्थिते तार्के यस्याः स्थिता विकसिता तथा ।
सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसम्भवा ॥ ६०॥
विस्फारितोभयपुटा भयकम्पिततारका ।
निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ६१॥
सङ्कोचितपुटाध्यामा दृष्टिर्मीलिततारका ।
पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ ६२॥
भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता ।
समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ६३॥
स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः ।
सञ्चारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ ६४॥
समतारा समपुटा निष्कम्पा शून्यदर्शना ।
बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६५॥
प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः ।
मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ ६६॥
श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना ।
सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ६७॥
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया ।
त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ६८॥
म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी ।
क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता॥६९॥
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता ।
गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥७०॥
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी ।
किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ ७१॥
स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता ।
सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते॥७२॥
आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा ।
संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ ७३॥
मन्दायमानतारा या पुटैः प्रचलितैस्तथा ।
सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ ७४॥
लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी ।
निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ७५॥
मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता ।
सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ ७६॥
वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका ।
अधोगतविचारा च दृष्टिरेषा वितर्किता॥७७॥
अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः ।
स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ ७८॥
अनवस्थिततारा च विभ्रान्ताकुलदर्शना ।
विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ ७९॥
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः ।
विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ ८०॥
आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी ।
मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ८१॥
विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी ।
अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ ८२॥
त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका ।
सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ ८३॥
आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना ।
दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ ८४॥
किञ्चिदाकुऽचितपुटा ह्यनवस्थिततारका ।
तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ ८५॥
सनिमेषानिमेषा च किञ्चिद् दर्शिततारका ।
अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ ८६॥
इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया ।
रसजा सहजाश्चासां विनियोगं निबोधत ॥ ८७॥
रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः ।
शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८८॥
शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता ।
निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ ८९॥
श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा ।
अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ ९०॥
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी ।
निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ ९१॥
कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च ।
अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ ९२॥
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा ।
धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ९३॥
आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु ।
विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ ९४॥
विलुप्ता चपलोन्माददुःखार्तिमरणादिषु ।
आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ ९५॥
विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता ।
त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥ ९६॥
षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः ।
रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ ९७॥
तारापुटभ्रुवां कर्म गदतो मे निबोधत ।
भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ ९८॥
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा ।
पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ ९९॥
वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा ।
चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥ १००॥
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः ।
निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ १०१॥
अथैषां रसभावेषु विनियोगं निबोधत ।
भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ १०२॥
निष्क्रामणं संवलनं कर्तव्यं तु भयानके ।
हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ १०३॥
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते ।
प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ १०४॥
स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् ।
एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ १०५॥
अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु ।
समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ १०६॥
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च ।
समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥ १०७॥
पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् ।
रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ १०८॥
सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते ।
विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ १०९॥
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः ।
इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ ११०॥
ताराकृतोऽस्यानुगतं पुटकर्म निबोधत ।
उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ १११॥
विवर्तितं स स्फुरितं पिहितं सविताडितम् ।
विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ ११२॥
समागमो निमेषः स्यादायामः प्रसृतं भवेत् ।
आकुऽचितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥ ११३॥
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा ।
स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥ ११४॥
अथैषं रसभावेषु विनियोगं निबोधत ।
क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ ११५॥
विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् ।
अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ११६॥
शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा ।
सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ ११७॥
नेत्ररोगे च पिहितमभिघाते विताडितम् ।
इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ ११८॥
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत ।
उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥११९॥
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा ।
भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा॥१२०॥
अनेनैव क्रमेणैव पातनं स्यादधोमुखम् ।
भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ १२१॥
चतुरं किऽचिदुच्छ्वासान्मधुरायतया भ्रुवोः ।
एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ १२२॥
एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः ।
सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ १२३॥
अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् ।
कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ १२४॥
श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् ।
उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥ १२५॥
आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् ।
क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥ १२६॥
शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने ।
एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ १२७॥
स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके ।
मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ १२८॥
निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् ।
अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥
इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत ।
नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ १३०॥
स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता ।
नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ १३१॥
विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता ।
विकूणिता सङ्कुचिता समा स्वाभाविका स्मृता ॥ १३२॥
नासिकालक्षणं ह्येतत् विनियोगं निबोधत ।
मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ १३३॥
निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः ।
विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ १३४॥
निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् ।
तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ १३५॥
इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् ।
विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ १३६॥
कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा ।
क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ १३७॥
षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते ।
क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ १३८॥
विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् ।
स्यात् कुञ्चितं सङ्कुञ्चितं समं प्राकृतमुच्यते ॥ १३९॥
गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत ।
क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ १४०॥
पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् ।
कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे॥ १४१॥
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति ।
विवर्तनं कम्पनं च विसर्गो विनिगूहनम्॥१४२॥
सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु ।
विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ १४३॥
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् ।
सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥ १४४॥
इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत ।
असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ १४५॥
कम्पनं वेपनं शीतभयरोषजवादिषु ।
स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ १४६॥
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु ।
समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥१४७॥
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत ।
कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ १४८॥
दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते ।
कुट्टनं दन्तसङ्घर्षः संस्फोटः खण्डनं मुहुः ॥ १४९॥
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः ।
लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥१५०॥
दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् ।
भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ १५१॥ जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् ।
छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ १५२॥
जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् ।
समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ १५३॥
इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया ।
विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ १५४॥
विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु ।
व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्॥ १५५॥
अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् ।
विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ १५६॥
विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च ।
अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ १५७॥
विधुतं वारणे चैव नैवमित्येवमादिषु ।
निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ १५८॥
भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् ।
निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ १५९॥
विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु ।
स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥१६०॥
एव नामेति कार्यं च कोपवाक्ये विचक्षणैः ।
समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ १६१॥
तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् ।
अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ १६२॥
स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः ।
स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ १६३॥
मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः ।
प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ १६४॥
वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा ।
भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ १६५५॥
एवं भावरसार्थेषु मुखरागं प्रयोजयेत् ।
शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥ १६६॥
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् ।
शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः ॥ १६७॥
द्विगुणां लभते शोभां रात्राविव निशाकरः ।
नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥ १६८॥
मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् ।
यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ १६९॥
तथा भावरसोपेतं मुखरागं प्रयोजयेत् ।
इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ १७०॥
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः ! ।
समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ १७१॥
वलिता च निवृत्ता च ग्रीवा नवविधार्थतः ।
समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ १७२॥
नता नतास्यालङ्कारबन्धे कण्ठावलम्बने ,
उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ १७३॥
त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते ।
रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ १७४॥
कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे ।
अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ १७५॥
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे ।
निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ १७६॥
इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा ।
ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥१७७॥
शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते ।
इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् ।
अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ १७९॥
इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः ।