नाट्यशास्त्रम्/अध्यायः २७
॥ नाट्यशास्त्रम् अध्याय २७ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ सप्तविंशोऽध्यायः
सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् ।
यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं सम्प्रदर्शितः ॥ १॥
सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा ।
दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ २॥
दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता ।
नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ ३॥
स्मितापहासिनी हासा साध्वहो कष्टमेव च ।
प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ ४॥
पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च ।
चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ ५॥
किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते ।
स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ ६॥
किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च ।
अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ७॥
विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् ।
अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ ८॥
अहोकारस्तथा कार्यो नृणां प्रकृतिसम्भवः ।
यद्धर्मपदसंयुक्तं यथातिशयसम्भवम् ॥ ९॥
तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः ।
विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ १०॥
करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु ।
प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ ११॥
साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः ।
कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ १२॥
दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् ।
सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ १३॥
प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च ।
तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ १४॥
एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी ।
दैविकीञ्च पुनः सिद्धिं सम्प्रवक्ष्यामि तत्त्वतः ॥ १५॥
या भावातिशयोपेता सत्त्वयुक्ता तथैव च ।
सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६॥
न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् ।
सम्पूर्णता च रङ्गस्य दैवी सिद्धिस्तु सा स्मृता ॥ १७॥
दैवी च मानुषी चैव सिद्धिरेषा मयोदिता ।
अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ १८॥
दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया ।
औत्पातिकश्चतुर्थः कदाचिदथ सम्भवत्येषु ॥ १९॥
वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः ।
कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ २०॥
घातनतः परमहं परयुक्तान् सम्प्रवक्ष्यामि ।
[वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ २१॥
अन्यवचनं च काव्यं तथाङ्गदोषो विहस्तत्वम् ।
एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः ॥ २२॥]
मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् ।
एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ २३॥
अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः ।
गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसम्भूताः ॥ २४॥
औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः ।
पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ २५॥
वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च ।
अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ २६॥
अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च ।
मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ २७॥
अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः ।
कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ २८॥
विवस्वरमजाततालं वर्णस्वरसम्पदा च परिहीणम् ।
अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ २९॥
मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति ।
पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ ३०॥
विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च ।
अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ ३१॥
पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः ।
त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ ३२॥
छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः ।
एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ ३३॥
ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् ।
प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ ३४॥
अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य ।
अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ ३५॥
वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् ।
आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ ३६॥
प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि ।
अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ॥ ३७॥
एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः ।
यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ ३८॥
सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि ।
नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ ३९॥
नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः ।
यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् ॥ ४०॥
जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु ।
कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ ४१॥
दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः ।
ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ ४२॥
योऽन्यस्य महे मूर्धो नान्दीश्लोकं पठेद्धि देवस्य ।
स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥४३॥
यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या ।
तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ ४४॥
कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य ।
कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ ४५॥
तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः ।
सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ ४६॥
न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् ।
तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ ४७॥
न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये ।
रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ ४८॥
एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः ।
अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ ४९॥
चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः ।
यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ ५०॥
षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः ।
चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ ५१॥
देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः ॥
चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ ५२॥
शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः ।
एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ ५३॥
अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः ।
त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ५४॥
न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः ।
विज्ञेयस्याप्रमेयत्वात्सङ्कीर्णानां च पार्षदि ॥ ५५॥
यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा ।
तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ ५६॥
नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् ।
उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ ५७॥
तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते ।
अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ ५८॥
शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च ।
धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ ५९॥
न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् ।
तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ ६०॥
बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा ।
यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ ६१॥
क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः ।
एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ ६२॥
स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः ।
एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ ६३॥
सङ्घर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत ।
यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ ६४॥
अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः ।
यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ॥ ६५॥
छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे ।
इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ ६६॥
कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि ।
सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ ६७॥
एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः ।
अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ ६८॥
अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः ।
शास्त्रज्ञानाद्यदा तु स्यात्सङ्घर्षः शास्त्रसंश्रयः ॥ ६९॥
शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा ।
भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ ७०॥
अर्थपताका हेतोस्सङ्घर्षो नाम सम्भवति ।
तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ ७१॥
कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु ।
सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ ७२॥
यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः ।
नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ ७३॥
तेषामासनयोगो द्वादशहस्तस्थितः कार्यः ।
यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ ७४॥
घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु ।
दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ ७५॥
घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः ।
घाता यस्य त्वल्पाः सङ्ख्याताः सिद्धयश्च बहुलाः स्युः ॥ ७६॥
विदितं कृत्वा राज्ञस्तस्मै देया पताका हि ।
सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ ७७॥
अथ नरपतिः समः स्यादुभयोरपि सा तदा देया ।
एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ ७८॥
स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः ।
विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ ७९॥
साधन दूषणाभासः प्रयोगसमयाश्रितैः ।
समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ ८०॥
वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः ।
गीतवादित्रतालेन कलान्तरकलासु च ॥ ८१॥
उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते ।
अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ ८२॥
गानवाद्यसमत्वं च तद्बुधैः सममुच्यते ।
सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ ८३॥
ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च ।
पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकै ह्॥ ८४॥
वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत ।
वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ ८५॥
यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् ।
हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ ८६॥
वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः ।
दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत ॥ ८७॥
पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च ।
दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ ८८॥
प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः ।
नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ ८९॥
एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् ।
तदहं सम्प्रवक्ष्यामि वारकालसमाश्रयम् ॥ ९०॥
यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् ।
पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ ९१॥
सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च ।
पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ ९२॥
कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् ।
नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ॥ ९३॥
यन्नर्महास्यबहुलं करुणप्रायमेव च ।
प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ ९४॥
अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च ।
सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ ९५॥
एवं कालं च देशं च समीक्ष्य च बलाबलम् ।
नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ ९६॥
अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः
यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्। । ९७॥
तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः ।
पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ ९८॥
बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा ।
रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ ९९॥
ग्रहणं धारणं चैव गात्रावैकल्यमेव च ।
निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ १००॥
सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च ।
शास्त्रकर्मसमायोगः प्रयोग इति सन्ज्ञितः ॥ १०१॥
शुचिभूषणतायां तु माल्याभरणवाससाम् ।
विचित्ररचना चैव समृद्धिरिति सन्ज्ञिता ॥ १०२॥
यदा समुदिताः सर्वे एकीभूता भवन्ति हि ।
अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ १०३॥
एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया ।
अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ १०४॥
इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको
नाम सप्तविंशोऽध्यायः ॥