नाट्यशास्त्रम्/अध्यायः ३०
॥ नाट्यशास्त्रम् अध्याय ३० ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
त्रिंशोऽध्यायः
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः ।
वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ १ ॥
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च ॥ २ ॥
तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे ।
प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥ ३ ॥
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः ।
अनीरणात्तु शेषाणां स्वराणामपि सम्भवः ।
अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ ४ ॥
व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः ।
कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः ।
द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ५ ॥
एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः ।
व्यक्तमुक्ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः ॥ ६ ॥
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ ।
अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ॥ ७ ॥
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया ।
निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ ८ ॥
विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः ।
वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ ९ ॥
यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् ।
शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ १० ॥
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् ।
ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ ११ ॥
एवमेतत् स्वरगतं विज्ञेयङ्गानयोक्तृभिः ।
अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ १२ ॥
इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं
नामाध्यायस्त्रिंशः ॥