नाट्यशास्त्रम्/अध्यायः १०
॥ नाट्यशास्त्रम् अध्याय १० ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ दशमोऽध्यायः ।
एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च ।
समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १॥
विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् ।
यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ २॥
एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता ।
द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ ३॥
करणानां समायोगः खण्डमित्यभिधीयते ।
खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ ४॥
चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा ।
चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ ५॥
यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् ।
नहि चार्या विना किञ्चिन्नाट्येऽङ्गं सम्प्रवर्तते ॥ ६॥
तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् ।
या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ ७॥
समपादा स्थितावर्ता शकटास्या तथैव च ।
अध्यर्धिका चाषगतिर्विच्यवा च तथापरा ॥ ८॥
एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता ।
उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ ९॥
समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश ।
एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः ॥ १०॥
अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च ।
ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ ११॥
डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते ।
विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १२॥
मृगप्लुता च दण्डा च भ्रमरी चेति षोडश ।
आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३॥
पादैर्निरन्तरकृतैस्तथा समनखैरपि ।
समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १४॥
भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम्।
पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १५॥
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्।
उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥
सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् ।
तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥
पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः ।
वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १८॥
विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् ।
निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्॥ १९॥
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् ।
पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ २०॥
अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः ।
ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता ॥ २१॥
तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा ।
जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ २२॥
अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः ।
द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा॥ २३॥
शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च ।
यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ २४॥
मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तितः ।
तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ २५॥
पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् ।
द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ २६॥
तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः ।
समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ २७॥
उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः ।
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ २८॥
एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः ।
आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ २९॥
कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् ।
उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ ३०॥
ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् ।
पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ ३१॥
कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् ।
उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ ३२॥
कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ।
द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ ३३॥
कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् ।
पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ ३४॥
पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु ।
द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ ३५॥
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् ।
पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ ३६॥
कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् ।
जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ ३७॥
स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः ।
निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ ३८॥
पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् ।
परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ ३९॥
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ।
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ ४०॥
पृष्ठः प्रसारितः पादो वलितोऽभ्यन्तरीकृतः ।
पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ ४१॥
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ।
कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ ४२॥
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ।
जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता ॥ ४३॥
नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् ।
क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ ४४॥
अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् ।
द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ ४५॥
आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः ।
धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ ४६॥
अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः ।
पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ ४७॥
यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् ।
पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ ४८॥
पादचार्यां यथा पादो धरणीमेव गच्छति ।
एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ ४९॥
एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः ।
स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ ५०॥
वैष्णवं समपादं च वैशाखं मण्डलं तथा ।
प्रत्यालीढं तथालीढं स्थानान्येतानि षण् नृणां ॥ ५१॥
द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ।
तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ॥ ५२॥
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् ।
वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ ५३॥
स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः ।
नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ ५४॥
चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा ।
धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ ५५॥
इदमेव विपर्यस्तं प्रणयक्रोध इष्यते ।
उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ ५६॥
शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि ।
दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ ५७॥
शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् ।
समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५८॥
स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् ।
अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ ५९॥
रूपणे पक्षिणां चैव वरं कौतुकमेव च ।
स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ ६०॥
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् ।
तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ ६१॥
तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् ।
त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ ६२॥
वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् ।
स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ ६३॥
व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् ।
शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ ६४॥
रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः ।
ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ ६५॥
त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा ।
धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ ६६॥
वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् ।
अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ ६७॥
आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् ।
अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ ६८॥
उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः ।
मल्लानाञ्चैव सम्फेटः शत्रूणां च निरूपणम् ॥ ६९॥
तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् ।
कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ ७०॥
आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् ।
आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत् ॥ ७१॥
नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः ।
न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ ७२॥
भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः ।
भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ ७३॥
वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके ।
एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ ७४॥
प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे ।
न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ ७५॥
यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः ।
वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ ७६॥
शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् ।
प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि ॥ ७७॥
खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च ।
शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ ७८॥
कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा ।
पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ ७९॥
खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः ।
एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ ८०॥
सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः ।
स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ ८१॥
केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते ।
गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु ॥ ८२॥
शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते ।
शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ ८३॥
उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशेऽथवा पुनः ।
भारते प्रविचारोऽयं कर्तव्यः स तु कैशिके ॥ ८४॥
विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् ।
प्रविचारा प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया ॥ ८५॥
धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे ।
न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ ८६॥
रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् ।
संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ ८७॥
अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः ।
अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ ८८॥
व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् ।
सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ ८९॥
सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् ।
शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ ९०॥
अचञ्चलमकुब्जं चासन्नगात्रमथापि च ।
नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ ९१॥
कटी कर्णसमा यत्र कूर्परांसशिरस्तथा ।
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ ९२॥
नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः ।
अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ ९३॥
नाट्यं नृत्तं च सर्वं हि सौष्ठवे सम्प्रतिष्ठितम् ।
कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ ९४॥
वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् ।
परिमार्जनमादानं सन्धानं मोक्षणम् तथा ॥ ९५॥
धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् ।
संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ ९६॥
सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् ।
तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ ९७॥
व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा ।
योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ ९८॥
भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् ।
बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ ९९॥
स्निग्धान्यन्यानि च तथा रसकं पानकं तथा ।
आहारेऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १००॥
तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् ।
अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ १०१॥
अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् ।
अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ १०२॥
व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् ।
एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ १०३॥
अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् ।
इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः ।