नाट्यशास्त्रम्/अध्यायः ३६
॥ नाट्यशास्त्रम् अध्याय ३६ नाट्यशापः ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ षट्त्रिंशोऽध्यायः
अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः ।
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥
दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः ।
भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥
स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः ।
नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥
नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः ।
जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥
एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः ।
पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ६॥
यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः ।
एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ ७॥
एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि ।
को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ८॥
न वयं परिहासेन न विरोधेन न चेर्ष्यया ।
पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ ९॥
अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति ।
इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ १०॥
लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् ।
तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११॥
देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ ।
किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ १२॥
कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् ।
कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ १३॥
कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः ।
सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४॥
तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १५॥
ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः ।
पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ १६॥
प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् ।
तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥
शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा ।
क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ १८॥
एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च ।
सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ १९॥
स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः ।
मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ २०॥
स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् ।
नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ २१॥
देवतासुरमानन्द्य यस्माँल्लोकश्च नन्दति ।
तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ २२॥
गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः ।
तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ २३॥
यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः ।
न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ २४॥
आवाहे च विवाहे च यज्ञे नृपतिमङ्गले ।
नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ २५॥
पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च ।
वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ २६॥
श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् ।
स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ २७॥
यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः ।
भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ २८॥
एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया ।
नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २९॥
यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले ।
ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३०॥
शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु ।
उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३१॥
यथावतारितं चैव नाट्यमेतन्महीतले ।
वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३२॥
ममैते तनयाः सर्वे नाट्यवेदसमन्विताः ।
सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३३॥
कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् ।
ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३४॥
अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् ।
निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३५॥
तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः ।
ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६॥
मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् ।
को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३७॥
यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः ।
तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३८॥
ऋषीणां ब्राह्मणानां च समवायसमागताः ।
निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३९॥
अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ ।
यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ४०॥
ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः ।
परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ४१॥
शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः ।
सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ४२॥
याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः ।
इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ ४३॥
ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति ।
शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ ४४॥
एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् ।
विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ४५॥
प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् ।
अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ ४६॥
मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः ।
कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ४७॥
मुनीनां हि मृषा वाक्यं भविष्यति कदाचन ।
निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ ४८॥
जानीध्वं तत्तथा नाट्यं ब्रह्मणा सम्प्रवर्तितम् ।
शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥
मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् ।
महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ५०॥
अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् ।
नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ५१॥
। इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः ।