नाट्यशास्त्रम्/अध्यायः १८
॥ नाट्यशास्त्रम् अध्याय १८ ॥
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ अष्टादशोऽध्यायः
वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् ।
नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १॥
नाटकं सप्रकरणमङ्को व्यायोग एव च ।
भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ २॥
ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे ।
एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३॥
सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः ।
आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः ॥ ४॥
जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः ।
यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ ५॥
ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ ।
सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ ६॥
ज्ञेयं प्रकरणं चैव तथा नाटकमेव च ।
सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् ॥ ७॥
वीथी समवकारश्च तथेहामृग एव च ।
उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः ॥ ८॥
कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ ९॥
प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव ।
राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥ १०॥
नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव ।
अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥ ११॥
नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा ।
सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ १२॥
अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् ।
कर्तव्योऽङ्कः सोऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ १३॥
अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् ।
नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ १४॥
अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः ।
वस्तुव्यापी बिन्दुः काव्यसमुत्थोऽत्र नित्यं स्यात् ॥ १५॥
यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः ।
किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः ॥ १६॥
ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः ।
नानावस्थोपेतः कार्यस्त्वङ्कोऽविप्रकृष्टस्तु ॥ १७॥
नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् ।
नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ १८॥
पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च ।
निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ १९॥
क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ ।
अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ २०॥
एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य ।
आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ २१॥
एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् ।
आवश्यकाविरोधेन तत्र काव्यानि कार्याणि ॥ २२॥
रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः ।
बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम् ॥ २३॥
न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् ।
आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ॥ २४॥
ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् ।
विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु ॥ २५॥
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् ।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥ २६॥
विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः ।
अङ्कच्छेदेऽथ सङ्क्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ २७॥
सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा ।
परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ २८॥
प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः ।
अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ २९॥
अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य ।
सङ्क्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ॥ ३०॥
अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि ।
तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ ३१॥
यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् ।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः ॥ ३२॥
अङ्कान्तरानुसारी सङ्क्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशकः संविधातव्यः ॥ ३३॥
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः ॥ ३४॥
कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् ।
अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ ३५॥
बह्वाश्रयमपि कार्यं प्रवेशकैः सङ्क्षिपेच्च सन्धिषु वा ।
बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य ॥ ३६॥
यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् ।
वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः ॥ ३७॥
युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव ।
प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ ३८॥
अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि ।
न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः ॥ ३९॥
अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः ।
काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ ४०॥
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा ।
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ ४१॥
कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य ।
ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ ४२॥
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् ।
निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ॥ ४३॥
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् ।
प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ४४॥
यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ ४५॥
यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् ।
उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ ४६॥
यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च ।
तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ ४७॥
विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् ।
चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ ४८॥
नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् ।
बाह्यजनसम्प्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ ४९॥
दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् ।
मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ॥ ५०॥
सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् ।
गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ ५१॥
यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमोऽपि स्यात् ।
अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ ५२॥
यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् ।
अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ ५३॥
मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ज्ञैः ।
संस्कृतवचनानुगतः सङ्क्षेपार्थः प्रवेशकवत् ॥ ५४॥
शुद्धः सङ्कीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः ।
मध्यमपात्रः शुद्धः सङ्कीर्णो नीचमध्यकृतः ॥ ५५॥
अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य ।
सङ्क्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ ५६॥
अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः ।
प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा ॥ ५७॥
प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् ।
अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या ॥ ५८॥
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी ।
बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ ५९॥
राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता ।
नायकदेवीदूती सपरिजना नाटिका ज्ञेया ॥ ६०॥
अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः ।
अत एव दशैतानि रूपाणीत्युदितानि वै ॥ ६१॥
प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन ।
वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम् ॥ ६२॥
देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ।
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ॥ ६३॥
द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च ।
वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र ॥ ६४॥
अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः ।
द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः ॥ ६५॥
कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु ।
वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ॥ ६६॥
नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् ।
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ॥ ६७॥
या नाडिकेति संज्ञा कालविभागे क्रियाभिसम्पन्ना ।
कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता ॥ ६८॥
अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य ।
अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति ॥ ६९॥
युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसम्भ्रमकृतो वा ।
नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ ७०॥
वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा ।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः ॥ ७१॥
त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः ।
शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ ७२॥
यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा ।
व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः ॥ ७३॥
अर्थस्येच्छायोगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः ।
स्त्रीसम्प्रयोगविषयेष्वर्थार्था वा रतिर्यत्र ॥ ७४॥
कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा ।
निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः ॥ ७५॥
उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि ।
वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि ॥ ७६॥
एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः ।
वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ ७७॥
दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः ।
सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव ॥ ७८॥
उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च ।
सङ्क्षोभविद्रवकृतः सम्फेटकृतस्तथा चैव ॥ ७९॥
स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः ।
ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ ८०॥
यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव ।
ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः ॥ ८१॥
यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् ।
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ ८२॥
ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन ।
डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि ॥ ८३॥
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव ।
षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ ८४॥
शृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः ।
दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः ॥ ८५॥
निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः ।
युद्धनियुद्धाधर्षणसम्फेटकृतश्च कर्तव्यः ॥ ८६॥
मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च ।
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ ८७॥
षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः ।
कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ ८८॥
डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् ।
व्यायोगस्य तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ ८९॥
व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः ।
अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ ९०॥
बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे ।
न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ ९१॥
न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः ।
युद्धनियुद्धाघर्षणसङ्घर्षकृतश्च कर्तव्यः ॥ ९२॥
एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ।
वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य ॥ ९३॥
प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ।
दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुम्भिः ॥ ९४॥
करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च ।
स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ ९५॥
नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः ।
कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ ९६॥
यद्दिव्यनायककृतं काव्यं सङ्ग्रामबन्धवधयुक्तम् ।
तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ ९७॥
कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु ।
हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ ९८॥
उपवनगमनक्रीडा विहारनारीरतिप्रमोदाः स्युः ।
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ ९९॥
ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः ।
सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् ॥ १००॥
प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् ।
अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ १०१॥
प्रहसनमतः परं सलक्षणं सम्प्रवक्ष्यामि ।
वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम् ॥ १०२॥
भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् ।
कापुरुषसम्प्रयुक्तं परिहासाभाषणप्रायम् ॥ १०३॥
अविकृतभाषाचारं विशेषभावोपपन्नचरितपदम् ।
नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १०४॥
वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः ।
अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु सङ्कीर्णम् ॥ १०५॥
लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः ।
स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः ॥ १०६॥
वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् ।
भाणस्यापि तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ १०७॥
आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ १०८॥
परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः ।
आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥ १०९॥
धूर्तविटसम्प्रयोज्यो नानावस्थान्तरात्मकश्चैव ।
एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ ११०॥
भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् ।
वीथ्याः सम्प्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ १११॥
सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः ।
वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ ११२॥
अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः ।
उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ ११३॥
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् ।
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ ११४॥
अथ वीथी सम्प्रोक्ता लक्षणमेषां प्रवक्ष्यामि ।
पदानि त्वगतार्थानि ये नराः पुनरादरात् ॥ ११५॥
योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते ।
यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ॥ ११६॥
तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः ।
आक्षिप्तेऽर्थे तु कस्मिँश्चिच्छुभाशुभसमुत्थिते ॥ ११७॥
कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत् ।
हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया ॥ ११८॥
मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् ।
न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ ॥ ११९॥
एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् ।
यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु ॥ १२०॥
एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् ।
यत्कारणाद् गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ १२१॥
दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् ।
परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ॥ १२२॥
अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम् ।
अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् ॥ १२३॥
श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते ।
यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ १२४॥
प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः ।
संरम्भसम्भ्रमयुतं विवादयुक्तं तथापवादकृतम् ॥ १२५॥
बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः ।
इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः ।
पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ १२६॥
इति भरतीये नाट्यशास्त्रे दशरूपनिरूपणं
नामाष्टादशोऽध्यायः ।