नाट्यशास्त्रम्/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७


नाट्यशास्त्रम् अध्याय १
श्रीरस्तु

.

भरतमुनिप्रणीतं नाट्यशास्त्रम्

अथ प्रथमोऽध्यायः .
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ .
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् .. १..

समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् .
अनध्याये कदाचित्तु भरतं नाट्यकोविदम् .. २..

मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा .
पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः .. ३..

योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः .
नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते .. ४..

कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः .
सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि .. ५..

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः .
प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति .. ६..

भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः .
श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः .. ७..

पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे .
त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु .. ८..

ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते .
ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते .. ९..

देवदानवगन्धर्वयक्षरक्षोमहोरगैः .
जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते .. १०..

महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः .
क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् .. ११..

न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु .
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् .. १२..

एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च .
सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् .. १३..

( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु .
वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ..)
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् .
भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् .. १४..

सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् .
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् .. १५..

एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् .
नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् .. १६..

जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च .
यजुर्वेदादभिनयान् रसानाथर्वणादपि .. १७..

वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना .
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना .. १८..

उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् .
इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् .. १९..

कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः .
तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया .. २०..

तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् .
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् .. २१..

ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम .
अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि .. २२..

य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः .
एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा .. २३..

श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः .
त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ .. २४..

आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् .
पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः .. २५..

शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा .
जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा .. २६..

सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा .
कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा .. २७..

जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा .
कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् .. २८..

कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा .
बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् .. २९..

तैतिलं भार्गवं चैव शुचिं बहुलमेव च .
अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् .. ३०..

ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा .
मागधं सरलं चैव कर्तारं चोग्रमेव च .. ३१..

तुषारं पार्षदं चैव गौतमं बादरायणम् .
विशालं शबलं चैव सुनामं मेषमेव च .. ३२..

कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् .
नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा .. ३३..

पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा .
अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च .. ३४..

कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा .
लाजं भयानकं चैव बीभत्सं सविचक्षणम् .. ३५..

पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च .
विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च .. ३६..

श्यामायनं माठरं च लोहिताङ्गं तथैव च .
संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च .. ३७..

शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च .
शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा .. ३८..
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च .
पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया .. ३९..

प्रयोजितं पुत्रशतं यथाभूमिविभागशः .
यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः .. ४०..

भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा .
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः .. ४१..

परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया .
अथाह मां सुरगुरुः कैशिकिमपि योजय .. ४२..

यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम .
एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः .. ४३..

दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् .
नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका .. ४४..

दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः .
कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा .. ४५..

अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते .
ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः .. ४६..

नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः .
मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् .. ४७..

सौदामिनीं देवदत्तां देवसेनां मनोरमाम् .
सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा .. ४८..

सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा .
मागधीमर्जुनीं चैव सरलां केरलां धृतिम् .. ४९..

नन्दां सपुष्कलां चैव कलमां चैव मे ददौ .
स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा .. ५०.
.
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः .
एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह .. ५१..

स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् .
उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः .. ५२..

नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् .
एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः .. ५३.
.
महानयं प्रयोगस्य समयः प्रत्युपस्थितः .
अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते .. ५४..

अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् .
ततस्तस्मिन्ध्वजमहे निहतासुरदानवे .. ५५..

प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे .
पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता .. ५६..

अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता .
तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः .. ५७..

सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका .
ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः .. ५८..

प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै .
प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् .. ५९..

ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् .
सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च .. ६०..

विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा .
श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती .. ६१..

शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः .
तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् .. ६२..

अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा .
दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः .. ६३..

एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने .
अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः .. ६४..

विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् .
न क्षमिष्यामहे नाट्यमेतदागम्यतामिति .. ६५..

ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः .
वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् .. ६६..

तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् .
कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् .. ६७..

सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् .. ६८..
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् ..
सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ..६९..

रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् .
जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ..७०..

निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः .
संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ..७१..

अहो प्रहरणं दिव्यमिदमासादितं त्वया .
जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ..७२..

यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः .
तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ..७३..

शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः .
दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ..७४..

एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् .
रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ..७५..

प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः .
त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ..७६..

दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् .
उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ..७७..

निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने .
अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ..७८..

ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः .
कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ..७९..

ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् .
सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ..८०..

प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः .
सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ..८१..

ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः .
आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् .. ८२..

दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः .
अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः .. ८३..

रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः .
लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः .. ८४..

नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे .
वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः .. ८५..

वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः .
आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ .. ८६..

धारणीश्वथ भूतानि शालास्वप्सरस्तथा .
सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः .. ८७..


द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च .
स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ .. ८८..

देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् .
द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च .. ८९..

पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् .
स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी .. ९०..

स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने .
भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः .. ९१..

जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् .
तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः .. ९२..

शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा .
तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च .. ९३..

पञ्चमे च महानागाः शेषवासुकितक्षकाः .
एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः .. ९४..

रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः .
इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् .. ९५..

पातालवासिनो ये च यक्षगुह्यकपन्नगाः .
अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः .९६..

नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती .
विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः .. ९७..

यान्येतानि नियुक्तानि दैवतानीह रक्षणे .
एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः .. ९८..

एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः .
साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया .. ९९..

पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च .
तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते .. १००..

देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह .
कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः .. १०१..

ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः .
दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः .. १०२..

योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया .
प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः .. १०३..

तन्नैतदेवं कर्तव्यं त्वया लोकपितामह .
यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः .. १०४..

विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् .
अलं वो मन्युना दैत्या विषादं त्यजतानघाः .. १०५..

भवतां देवतानां च शुभाशुभविकल्पकः .
कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः .. १०६..

नैकान्ततोऽत्र भवतां देवानां चानुभावनम् .
त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् .. १०७..

क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः .
\क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः .. १०८..

धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् .
निग्रहो दुर्विनीतानां विनीतानां दमक्रिया .. १०९..

क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् .
अबुधानां विबोधश्च वैदुष्यं विदुषामपि .. ११०...

ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च .
अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् .. १११..

नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् .
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् .. ११२..

उत्तमाधममध्यानां नराणां कर्मसंश्रयम् .
हितोपदेशजननं धृतिक्रीडासुखादिकृत् .. ११३..

( एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ .
सर्वोपदेशजननं नाट्यं लोके भविष्यति .. )
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् .
विश्रान्तिजननं काले नाट्यमेतद्भविष्यति .. ११४..

धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् .
लोकोपदेशजननं नाट्यमेतद्भविष्यति .. ११५..

न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला .
नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते .. ११६..

तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति .
सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति .. ११७..
( येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ..)

देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् .
ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् .. ११८..

योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः .
सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते .. ११९..

( वेदविद्येतिहासानामाख्यानपरिकल्पनम् .
विनोदकरणं लोके नाट्यमेतद्भविष्यति ..
श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् .
विनोदजननं लोके नाट्यमेतद्भविष्यति ..)
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः .
क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे .. १२०..

बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः .
भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् .. १२१..

मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ .
अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् .. १२२..

अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति .
निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति .. १२३..
यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् .
तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः .. १२४..

नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति .
न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः .. १२५..

यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति .
स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति .. १२६..

एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः .
रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् .. १२७..


इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः .