सामग्री पर जाएँ

विष्णुपुराणम्/प्रथमांशः/अध्यायः ७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह ।
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः ॥ १,७.१ ॥
ते सर्वे समावर्तन्त ये मया प्रागुदाहताः ।
देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषये स्थिताः ॥ १,७.२ ॥
एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥ १,७.३ ॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् ॥ १,७.४ ॥
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा ।
मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसान् ॥ १,७.५ ॥
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १,७.६ ॥
ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च ।
सन्नतिं च तथैवोर्जमनसूयां तथैव च ॥ १,७.७ ॥
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् ।
पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान् ॥ १,७.८ ॥
सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा ।
न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥ १,७.९ ॥
सर्वे तेऽभ्या गतज्ञाना वीतरागा विमत्सराः ।
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः ॥ १,७.१० ॥
ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः ।
तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् ।
ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने ॥ १,७.११ ॥
भ्रकुटीकुटिलात्तस्य ललाटात्क्रोधदीपितात् ।
समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥ १,७.१२ ॥
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ १,७.१३ ॥
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥ १,७.१४ ॥
सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
विभेद बहुधा देवाः स्वरूपैरसितैः सितैः ॥ १,७.१५ ॥
ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु ।
आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज ॥ १,७.१६ ॥
शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् ।
स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ १,७.१७ ॥
तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥ १,७.१८ ॥
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् ।
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥ १,७.१९ ॥
प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः ।
पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः ॥ १,७.२० ॥
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायंभुवे मनौ ॥ १,७.२१ ॥
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा ।
ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ १,७.२२ ॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १,७.२३ ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ १,७.२४ ॥
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १,७.२५ ॥
भृतुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ १,७.२६ ॥
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम ।
ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम ॥ १,७.२७ ॥
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ।
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १,७.२८ ॥
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ १,७.२९ ॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ १,७.३० ॥
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः ।
कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ १,७.३१ ॥
हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् ।
कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ १,७.३२ ॥
माया च वेदना चैव मिथुनं त्विदमेतयोः ।
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ १,७.३३ ॥
वेदना स्वसूतं चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णक्रोधाश्च जज्ञिरे ॥ १,७.३४ ॥
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ १,७.३५ ॥
रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज ।
नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ १,७.३६ ॥
दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः ।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ १,७.३७ ॥
मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये ।
सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ १,७.३८ ॥
श्रीमैत्रेय उवाच
येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः ।
नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ १,७.३९ ॥
श्रीपराशर उवाच
सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः ।
तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ १,७.४० ॥
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज ।
नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ १,७.४१ ॥
ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः ।
प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ १,७.४२ ॥
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ १,७.४३ ॥
प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता ।
दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ १,७.४४ ॥
भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम ।
नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ १,७.४५ ॥
एवं सर्वशरीरेषु भगवान्भूतभावनः ।
संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ १,७.४६ ॥
सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु ।
वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ १,७.४७ ॥
गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् ।
योऽतियाति सा यात्येव परं नावर्तते पुनः ॥ १,७.४८ ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायः (७)



पराशर उवाच ।
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।
तच्छरीरसमुत्पन्नः कार्य्यैस्तैः कारणौः सह ।। १ ।।

क्षेत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः ।
ते सर्व्वे समवर्त्तेन्त ये मया प्रागुदीरिताः ।। २ ।।

देवाद्याः स्थावरान्ताश्व त्रैगुण्यविषये स्थिताः ।
एवम्भूतानि सृष्टानि चराणि स्थावराणि च ।। ३ ।।

यदास्य ताः प्रजाः सर्त्वा न न व्यवर्द्धन्त धीमतः ।
अतान्यान् मानसान् पुत्रान् सदृशानात्मनोऽसृजत् ।। ४ ।।

भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथ ।
मरीचिं दक्षमत्रिं च वशिष्ठं चैव मानसम् ।। ५ ।।

नव ब्रह्माणा इत्येते पुराणो निश्चयं गताः ।
सनन्दनादयो ये च पूर्व्व सृष्टातु वेघसा ।। ६ ।।

न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ।
सर्वे ते ह्मागतज्ञाना वीतरागा विमत्सराः ।। ७ ।।

तेष्वेवं निरपेक्षेषु लोकसॄष्टो महात्मनः ।
ब्रह्मणोऽभून्महाक्रो धस्वैलोक्यदहनक्षमः ।। ८ ।।

तस्य क्रोधात् समुदूभुतज्वालामालाविदीपितम् ।
ब्रह्मणोऽभूत् तदा सर्व्व त्रैलोक्यमखिलं मुने ।। ९ ।।

समुत्पन्नस्तदा रुद्रो मध्याह्रार्कसमप्रभः ।। १० ।।

अर्द्धनारीनरवपुः प्रचण्डोऽतिशरीखान् ।
विभजात्मानमित्युत्तवा तं ब्रह्मान्तर्दधे ततः ।। ११ ।।

तथोक्तोऽसौ द्रिधा स्त्रित्वं पुरुषत्वं तथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा च सः ।। १२ ।।

सौम्यासौम्यौस्तथा शान्ता शान्तेः स्त्रीत्वं च स प्रभुः ।
बिभेद बहधा देवः स्वरूपैरसितैः सितैः ।। १३ ।।

ततो ब्रह्मात्मसम्भूतं पूर्व्व सायम्भुवं प्रभुः ।
आत्मानमेव कृतवान् प्रजापाल्ये मनुं द्रिज ।। १४ ।।

स्वायम्भुवो मनुर्देवः पलीत्वे जगृहे विभुः ।। १५ ।।

तस्माज्व पुरुषाद् देवी सतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ।। १६ ।।

कन्यादूयञ्च धर्मज्ञ रूपोदार्य्य गुणान्वितम् ।
ददौ प्रसूतीं दक्षाया तथाकूतिं रुचेः पुरा ।। १७ ।।

प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणाः ।
पुत्रोजज्ञे महाभाग दाम्पत्यं मिथुनं ततः ।। १८ ।।

यज्ञस्य दक्षिणायान्तु पुत्रा द्रादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवे मनौ ।। १९ ।।

प्रसूत्यां च तथा दक्षश्चतसो विंशतिस्तथा ।
ससर्ज्ज कन्यास्तासान्तु सम्यङू नामानि मे श्वृणु ।। २० ।।

श्वद्धा लक्ष्मीर्ध तिस्तुष्टिः पुष्टिर्म्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्रिस्त्रयोदश ।। २१ ।।

पल्यर्थ प्रतिजग्राह धर्म्मे दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।। २२ ।।

ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्ज्ज स्वाहा स्वधा तथा ।। २३ ।।

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।। २४ ।।

अत्रिर्व्वशिष्ठो वह्रिश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जग्वहुः कन्या मुनयो मुनिसत्तम ।। २५ ।।

श्वद्धा कामं चला दर्प नियमं धृतिरात्मजम् ।
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरसूयत ।। २६ ।।

मेधा श्वु तं क्रिया दण्डं नयं विनयमेव च ।
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।। २७ ।।

व्यवसाय प्रजज्ञे वै क्षेमं शान्तिरसूयत ।
सुखं सिद्धिर्यशः सीर्त्तिरित्येते धर्म्मसूनवः ।।२८ ।।

कामान् नन्दा सुतं हर्ष धर्म्मपौत्रमसूयत ।
हिंसा भार्या त्वधर्म्मस्य तस्या जज्ञे तथातृतम् ।
कन्या च निकृतिस्ताभ्यां भय नरकमेव च ।। २९ ।।

माया च वेदना चैव मिथुनन्त्विदमेतयोः ।
तयोर्जज्ञोऽथ वै माया मृत्यु भूतापरिहारिणम् ।। ३० ।।

वेदना स्वसुतञ्चापि दुः खं जज्ञोऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णाक्रोघश्च जज्ञिरे ।। ३१ ।।

दुः शोत्तराः स्मृता ह्मते सर्व्वे चाधर्म्मलक्षणाः ।
नैषां भार्य्यास्ति पुत्रो वा तें सर्व्वे ह्मू र्ध्वरेतसः ।। ३२ ।।

सौद्राणि तानि रूपाणि विष्णुर्मुनिवरात्मज ।
नित्यप्र लयहेतुत्वं जगतोऽस्य प्रयान्ति वै ।। ३३ ।।

दक्षो मरीचिरत्रश्च भृग्वाद्याश्च प्रजेश्वराः।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ।। ३४ ।।

मनवो मनुपुत्राश्च भूपा वीर्य्यधनाशच ये ।
सन्मार्गाभिरताः शूरास्ते नित्यस्थितिकारिणः ।। ३५ ।।
येयं नित्या स्थितिर्ब्र ह्मन् नित्यसर्गस्तथेरितः ।
नित्याभावाश्च तेषां वै स्वरूपं मम कथ्यताम् ।। ३६ ।।

पराशार उवाच ।
सर्गस्थितिविनाशांश्च भगवान् मधुसूदनः ।
तैस्तैरूपैरचिन्त्यात्मा करोत्यव्याहतान् विभुः ।। ३७ ।।

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्रिज ।
नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः ।। ३८ ।।

ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः ।
प्रयाति प्राकृते चैव ब्रहाण्डं प्रकृतौ लयम् ।। ३९ ।।

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदवै जातानां यो विनाशो दिवानिशम् ।। ४० ।।

प्रसूतिः प्राकृतेर्या तु सा सृष्टिः प्राकृती स्मृता ।
दनैन्दिनी तथा प्रोक्ता यान्तरप्रलायादन् ।। ४१ ।।

भूतान्यनुदिनं यत्र जायन्ते मुनिसत्तम ।
नित्यः सर्गः स तु प्रोक्तः पुराणार्थविचक्षणौः ।। ४२ ।।

एवं सर्व्वशरीरेषु भगवान् भूतभावनः ।
संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ।। ४३ ।।

सृष्टिस्थितिविनाशानां शक्तयः सर्व्वदेहिषु ।
वैष्णव्यः परिवर्त्तन्ते मैत्रेयाऽहर्निशं सदा ।। ४४ ।।

गुणत्रयमय ह्मतद् ब्रह्मन् शक्तित्रय महत् ।
योऽतियाति स चात्येव परं नावर्त्तते पुनः ।। ४५ ।।