भार्गवतन्त्रम्/अध्यायः १८
← अध्यायः १७ | भार्गवतन्त्रम् अध्यायः १८ [[लेखकः :|]] |
अध्यायः १९ → |
भार्गवतन्त्रस्य अध्यायाः |
---|
।। अष्टादशोऽध्यायः ।।
[नित्योत्सवबलिसमर्पणविधिनिरूपणाध्यायः]
[अग्निकार्यसम्पादनानन्तरमुत्सवाचरण निर्देशः]
श्रीरामः
नित्योत्सवविधिं वक्ष्ये यथावदवधारय।
अभ्यर्च्याग्नौ जगन्नाथमथ नित्योत्सवं चरेत् ।। 18.1 ।।
[नित्योत्सवक्रमे बलिद्रव्यानयनक्रमः]
अन्तः प्रविश्य सदनं बलिबिम्बं समर्चयेत्।
शिबिकादौ समारोप्य बलिद्रव्यं समाहरेत् ।। 18.2 ।।
सोपदंशं महान्नं वा पयोदधि घृतान्वितम्।
अथवा शुद्धमन्नं वा बल्यर्थं परिकल्पयेत् ।। 18.3 ।।
सर्वार्थतोयं शुद्धाख्यं गन्धपुष्पाक्षतानि च।
धूपं दीपं च विभ्राणाः व्रजेयुः परिचारकाः ।। 18.4 ।।
गायन्तश्चापि नृत्यन्तः तालमद्दलपाणयः।
व्रजेयुरग्रे देवस्य प्रदीपैर्बहुभिः सह ।। 18.5 ।।
व्यजनं चामरं छत्रमुत्सवाङ्गं तथेतरत्।
सर्वमादाय गच्छेयुर्देवस्याग्रेऽधिकारिणः ।। 18.6 ।।
[बलिदानक्रमनिर्देशः]
चण्डप्रचण्डावारभ्य बलिदानं समाचरेत्।
तत्तन्नाम तु देवानां चतुर्थ्या नमसान्वितम् ।। 18.7 ।।
प्रणवादि समुच्चार्य बलिदानं समाचरेत्।
इदमर्ध्यं बलिरयम् इदं ते उदकं त्विति ।। 18.8 ।।
तोयं पूर्वोत्तरं दद्यात् तालनृत्तस्वरान्वितम्।
गन्धं पुष्पं तथा दीपमर्ध्यं बलिस्ततः ।। 18.9 ।।
(a: M. तोयo for तोयम्;)
उदकं च प्रदातव्यं प्राङ्गणे बलिकर्मणि।
[तत्तद्देवानां स्वरनृत्ततालविवेकः]
चण्डादिद्वारपालानां सर्वेषामृषभस्वरः ।। 18.10 ।।
(d: A. स्वन for स्वरः;)
नृत्तं तु वैजयन्ती स्यान्मल्लतालमुदाहृतम्।
विष्णुक्रान्तं खगेशस्य नृत्तं तालं तु गारुडम् ।। 18.11 ।।
(c: A. विष्णुक्रान्ता for विष्णुक्रान्तम्;)
स्वरस्तु मध्यमः प्रोक्तः विष्वक्सेनस्य कथ्यते।
नृत्तं स्वस्तिकमित्युक्तं बलितालर्षभस्वरौ ।। 18.12 ।।
(c: A. नृत्तः for नृत्तम्;)
तद्वन्नृत्तं गणेशस्य भद्रतालं तु पञ्चमः।
स्वरश्च कुंभतनय दुर्गायाः धैवतः स्वरः ।। 18.13 ।।
(b: A. भद्रम् for भद्रo;)
(c: A. स्वरस्तु M. स्वरं च for स्वरश्च;)
सर्वमङ्गलनृत्तं स्यात् भद्रतालमुदीरितम्।
ब्रह्मणो ब्रह्मतालं स्यात् नृत्तं स्यात् सर्वमङ्गलम् ।। 18.14 ।।
(d: A. नृत्यम् for नृत्तम्;)
स्वरस्तु मध्यमस्तस्य शुनासीरस्य कथ्यते।
विलासनृत्तमुदितं स्वरः ष़ड्ज उदाहृतः ।। 18.15 ।।
समतालं तथा वह्नेः कथ्यते ऋषभस्वरः।
बद्धावतालं नृत्तं तु सर्वतोभद्रमीरितम् ।। 18.16 ।।
यमस्य खेटकं नृत्तं गान्धारः स्वर उच्यते।
तालं तु शृङ्गिणी प्रोक्ता निर्ऋतेर्मध्यमः स्वरः ।। 18.17 ।।
(d: A. नैर्ऋते M. निऋऋते for निर्ऋते;)
मल्लतालं तथा नृत्तं पथितं चक्रमण्डलम्।
वरुमस्य स्वरः प्रोक्तः पञ्चमो मङ्गलाह्वयः ।। 18.18 ।।
(c: M. वरुण्यस्वर for वरुणस्य स्वरः;)
तालं कान्तारनृत्तं स्यात् मरुतो धैवतः स्वरः।
जयतालं तु कथितं नृत्तं स्यात् पृष्ठकुट्टिमम् ।। 18.19 ।।
सोमस्य भद्रतालं स्यात् नर्तनं कटिबन्धनम्।
स्वरो निषादः कथितः शङ्करस्य तु धैवतम् ।। 18.20 ।।
स्वरस्तु ढक्करी तालं वामजानूर्ध्वनर्तनम् ।।
अन्येषामपि देवानां स्वरः पञ्चम इष्यते ।। 18.21 ।।
(a: A. ढःकरी for ढक्करी;)
भद्रतालं तु कथितं सर्वमङ्गलनर्तनम्।
भूतानां बलितालं स्यात् स्वरो गान्धार उच्यते ।। 18.22 ।।
सर्वमङ्गलनृत्तं च दर्शयेत्कुम्भसम्भव।
[उत्सवभ्रमणे बलिदानक्रमः]
तृतीयावरणान्तं तत् परिक्रम्य यथाक्रमम्।। 18.23 ।।
तत्तन्नृत्तादिसहितं बलिं दत्वा यथाविधि।
महापीठे बलिद्रव्यं बलिशिष्टं विनिक्षिपेत् ।। 18.24 ।।
(a: M. नृत्य for नृत्तo;)
(c: M. बलिम् for बलिo;)
(d: A. परिशिष्टम् for बलिशिष्टम्;)
उत्सवान्ते हरिं तत्र प्रापणान्तं यथोचितम्।
पूजयित्वाथ यानादेरवरोप्य गुरूत्तमः ।। 18.25 ।।
मन्दिरान्तर्भुवं नीत्वा यथास्थानं निवेशयेत्।
श्रियादीनां च देवीनां ब्रह्मादीनां तथैव च ।। 18.26 ।।
अन्येषां परिवाराणामाश्रितानां च पूजनम्।
तत्तन्मन्त्रैण कुर्वीत मुख्येभ्यस्तु निवेदनम् ।। 18.27 ।।
[द्वारपालादिभ्यो बलिप्रदानादिविधिः]
बलिस्तु द्वारपालानां तथा वै विधिरुद्रयोः।
इन्द्रादिलोकपालानां सर्वावरणवासिनाम् ।। 18.28 ।।
पीठाधिदेवतानाञ्च बलिमेवं विनिक्षिपेत्।
देवीनामाश्रितानां च तार्क्ष्यशेनेशयोरपि ।। 18.29 ।।
(a: A.M. पीठादि for पीठाधिo, M. देवानाम् for देवतानाम्;)
आश्रितानां च भक्तानां प्रापणान्तं समर्चन्।
(a: M. om. च;)
।। इति भार्गवतन्त्रे अष्टादशोऽध्यायः ।।