भार्गवतन्त्रम्/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ भार्गवतन्त्रम्
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
भार्गवतन्त्रस्य अध्यायाः

।। सप्तदशोऽध्यायः ।।
[अग्निकार्यनिरूपणाध्यायः]
[अग्निकुण्ड होमसम्पादनात्पूर्वं कर्तव्यानि कृत्यानि]

श्रीरामः
द्वारपार्श्वस्थितौ देवौ पूजयित्वाग्निसद्मनः।
प्रविश्य गोमयाम्भोभिः कुण्डमालिप्य पश्चिमे ।। 17.1 ।।
आसने प्राङ्मुखो भूत्वा समावेश्यात्मदक्षिणे।
कुसुमानि तथा वामे द्रव्याण्यन्यानि कल्पयेत् ।। 17.2 ।।
प्राणानायम्य सङ्कल्प्य कुण्डस्योत्तरभूतले।
प्रागग्रान्निक्षिपेद्दर्भान् क्रमात्तेषु विनिक्षिपेत् ।। 17.3 ।।
 (A. om. श्रीरामः;)
  (d: M. क्रमान्तेषु for क्रमात्तेषु;)
आज्यापात्रं चरुं स्थालीं प्रोक्षणीपात्रमप्यथ।
प्रणीतां समिधो दर्भांस्तण्डुलान् परिधित्रयम् ।। 17.4 ।।
स्रुक्‌स्रुवौ लक्षणोपेतौ दर्वीं व्यजनमेक्षणे।
काष्ठं घण्टामक्षतांश्च गन्धद्रव्याणि चेतरान् ।। 17.5 ।।
 (b: A. व्यञ्जन for व्यजन;)
  (d: A.M. चेतरत् for चेतरान्;)
विन्यस्य कुण्डान्तराले प्रागग्र उदगायताः।
तिस्रस्तिस्रो लिखेद्रेखाः प्रणवेन पृथक् पृथक् ।। 17.6 ।।
 (a: M. कुण्डस्य for कुण्डo;)
विसृज्य लेखनं कूर्चं हस्तौ प्रक्षाल्य वारिणा।
दर्भस्तंबद्वयेनाद्भिरभ्युक्ष्याग्निं निवेशयेत् ।। 17.7 ।।
अद्भिः परिसमूह्यास्त्रैः परिस्तीर्यानलं कुशैः।
दशभिर्दशभिः साग्रैः प्रागर्ग्ररुदगञ्चलैः ।। 17.8 ।।
 (c: M. स्वग्रैः for साग्रैः;)
  (d: M. जलैः for चलैः;)
द्रव्याग्निमध्येऽपां पूर्णां प्रणीतां विनिवेशयेत्।
साक्षतां दर्भयुग्मेन कूर्चं निर्माय विन्यसेत् ।। 17.9 ।।
तत्रावाह्यार्चयेद्देवं वासुदेवं सनातनम्।
अग्नेराग्नेयकोणे तामासने विनिवेशयेत् ।। 17.10 ।।
पवित्रितैस्त्रिभिर्दर्भैः आच्छाद्य प्रोक्षणीं पुरः।
विन्यसेदात्मनस्तत्र प्रणीतां कूर्चमानकैः ।। 17.11 ।।
 (d: A. आनयेत् for मानकैः;)
अद्भिरापूर्य चोत्पूय पात्राण्युत्तानयन् गुरुः।
प्रोक्षयेत्प्रोक्षणांवोभिराज्यस्थालीं समाहरेत् ।। 17.12 ।।
 (c: A.T. अंभो for अम्बो;)
तस्यां विन्यस्य तत्कूर्चं कूर्चे तन्मयविष्टरे।
अग्नेर्दक्षिणतो देवमर्चयेच्चतुराननम् ।। 17.13 ।।
पूरयित्वाज्यपात्रं तत् गलितेनैव सर्पिषा।
उदगग्निं निवेश्यास्मिन् आज्यस्थालीं निवेशयेत् ।। 17.14 ।।
दीप्तेन बर्हिषा तस्य पर्यग्निकरणं चरेत्।
दर्भाग्रे द्वे निवेश्यास्मिन् पुनः पर्यग्निमाचरेत् ।। 17.15 ।।
उदगुत्तीर्य तत्पात्रम् अग्निमग्नौ निवेशयेत्।
श्रपयेद्धृदयाद्यङ्गैः चरुपात्रे हुताशने ।। 17.16 ।।
अग्नेरुत्तरत्तः स्थाप्यं चरुपात्रं यथाक्रमम्।
आज्यपात्रं पुरस्कृत्य त्रिरुत्पूय गुरूत्तमः ।। 17.17 ।।
कूर्चग्रन्थिं विसृज्याद्भिः स्पृष्ट्वाग्नौ विनिवेशयेत्।
सौरभेयीं दर्शयित्वा घृतं तदमृतं स्मरेत् ।। 17.18 ।।
इन्द्रादीनग्निकुण्डस्य परितः पूजयेत् क्रमात्।
अतितप्तेन तोयेन स्त्रुक्‌स्त्रुवौ क्षालयेद्‌गुरुः ।। 17.19 ।।
दर्भपञ्चककूर्चेन मूलमध्याग्रभूमिषु।
संमृज्याग्नौ च निष्टप्य तावुदीच्यां निवेशयेत् ।। 17.20 ।।
 (c: A. विसृज्य for निष्टप्य;)
ग्रन्थिं विसृज्य कूर्चस्य स्पृष्ट्वाम्ब्‌वग्नौ निवेशयेत्।
होमवस्तुषु संसिञ्चेत् स्त्रुवेणाज्यं सकृत्सकृत् ।। 17.21 ।।
उदगग्रा च परिधिर्न्यसनीया च पश्चिमे।
प्रागग्रा दक्षिणे तद्वदुदीच्यां दिशि विन्यसेत् ।। 17.22 ।।
आग्नेयैशानयोः स्थाप्यवाधारसमिधावुभौ।
`अदितेन्वि'त्यादिमन्त्रैः परिषेचनमाचरेत् ।। 17.23 ।।
समिधः पञ्चदश च सिक्त्त्वाज्येन ततस्सकृत्।
जप`न्नष्टाक्षरं मन्त्रं' ध्यात्वा च परमेष्ठिनम् ।। 17.24 ।।
आदद्यान्मुद्रया मुष्ठ्या वेष्टयित्वा कुशैः करम्।
आज्यपात्रं समादाय प्राजापत्यं ततः परम् ।। 17.25 ।।
 (d: A. पुरम् for परम्;)
ऐन्द्रं च जुहुयादग्नौ आग्नेयं सौम्यमेव च।
व्यस्ताभिर्व्याहृतिभिश्च समस्ताभिर्यथाक्रमम् ।। 17.26 ।।
 (b: A. आग्नेयां for आग्नेयम्;)
  (d: A.M. व्याहृतीभिश्च for व्यस्ताभिः;)
  (d: M. स्वमo for समo;)

[होमक्रमे वह्न्यादिध्यानस्वरूपम्]

परिषिच्य ततो वह्निं ध्यायेच्चत्वारि शृङ्गया।
ओमग्नये नमः स्वाहेत्यग्नौ पूर्णाहुतिर्भवेत् ।। 17.27 ।।
 (c: A. रम् for ओम्)
द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम्।
वरदं शक्तिपाणिं च विभ्राणं स्रुक्‌स्रुवौ तथा ।। 17.28 ।।
 (A. om. अस्मात् श्लोकादारभ्य 53. श्लोकस्य b: पर्यन्तम्।)
  (c: A. पाणिम् for हस्तम्;)
अभीतिदं चर्मधरं वामे चाज्यधरं करे।

[वह्नेः सप्तजिह्वानां नामस्थानादिविवेकः]

काली कराली सुमना लोहिता धूम्र एव हि ।। 17.29 ।।
 (a: M. अभीवितम् for अभीतिदम्;)
स्फुलिङ्गिनी विश्वरूपी सप्त जिह्वाः प्रकीर्तिताः।
काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग्भवेत् ।। 17.30 ।।
मनोजवायाश्चाग्नेय्यां लोहितायास्तु वारुणे।
सुधूम्रा सोमनिलया स्फुलिङ्गिन्यनिलाश्रया ।। 17.31 ।।
 (d: M. आलया for आश्रया;)
ऐशान्यां विस्वरूपी तु एवं स्थानं स्मरेत् क्रमात्।
जिह्वायां दक्षिणे वक्त्रे धूम्रायां मारणादिकम् ।। 17.32 ।।
लोहितायां वशीकारः काल्यां कर्म च शान्तिकम्।
सर्वसिद्धिः स्फुलिङ्गिन्यामानने दक्षिणेतरे ।। 17.33 ।।
 (d: A. उत्तरे for इतरे;)
करालिका विजयदा पुष्टिदा च मनोहरा।
कार्ष्ण्यं लौहित्यमेतासां वर्णः श्यामत्वमेव च ।। 17.34 ।।
स्फुलिङ्गरूपं च ततो वर्णः स्पटिकसन्निभः।
तपनीयनिभः प्रोक्तः जिह्वायामानुपूर्वशः ।। 17.35 ।।

[अग्नित्रयलक्षणं तेषामुपयोगश्च]

नित्याग्निर्वृद्ध इत्युक्तः उत्सवाग्निर्युवा भवेत्।
दीक्षाशान्तिप्रतिष्ठासु बालाग्निरभिधीयते ।। 17.36 ।।
अरणीमथनाज्जातः बालाग्निरिति कथ्यते।
सूर्यकान्ताश्मनो जातो यौवनाग्निः प्रकीर्तितः ।। 17.37 ।।
 (d: A. प्रतिष्ठितः for प्रकीर्तितः;)
लौकिकाग्निस्तु वृद्धाग्निरग्नित्रयमुद्राहृतम्।

[समिधः प्रमाणं दोषयुक्तसमिधः प्रयोगफलनिर्देशश्च]

आयामः समिधां तालः कनिष्ठानाहनं मतम् ।। 17.38 ।।
चर्महीने विनाशः स्यात् भेदे क्षीणकुलं भवेत्।
आर्द्रा तु बन्धुनाशः स्यात् पुत्रनाशः पुरातने ।। 17.39 ।।
तक्षासु भार्यामरणं कलहाय च शाखिनी।
उद्वेगाय भवेत्स्थूला ह्नस्वावग्रहकारिणी ।। 17.40 ।।
दीर्घातिवृष्टिजननी त्याज्या दोषयुता समित्।

[कामनानुरूपं समिधां होमद्रव्याणां च विवरणम्]

यज्ञवृक्षोद्भवैश्शान्तिस्सौभाग्यं कुसुमैर्भवेत् ।। 17.41 ।।
धूपद्रव्यैस्सदारोग्यं पुष्टिर्दध्ना पयश्शुचिः।
अन्नेन विविधान् कामान् आज्येनायुष्मतीः प्रजाः ।। 17.42 ।।
श्वेतपद्मैस्तु जुहुयादिच्छन् ब्रह्मश्रियं नरः।
लक्ष्मीपुष्पैस्तु जुहुयाल्लक्ष्मीकामोऽथ वारुणैः ।। 17.43 ।।
पद्मैर्बिल्वसमिद्भिर्वा ज्ञानकामस्तु सर्पिषा।
कन्याकामो हुवेल्लाजैः गोकामो गोमयैः पुनः ।। 17.44 ।।
 (c: M. नेत् for वेत्;)
आयुष्कामस्तु दूर्वाभिर्भूमिकामस्तु मृत्स्नया।
यवैरिन्द्रियकामस्तु तिलैः सर्वजनप्रियः ।। 17.45 ।।
ब्रह्मवर्चसकामस्तु ब्रह्मवृक्षसमुद्भवैः।
वैणवैश्च यवैश्चैव नीवारैः शालिभिस्तथा ।। 17.46 ।।
सर्वे कामाश्च सिद्ध्यन्ति होतुर्बीजैर्यथोदितैः।
लाजहोमेन सिद्ध्यन्ति सर्वकामाः न संशयः ।। 17.47 ।।
 (d: M. सर्वे for सर्व)
अन्नेनान्नादिकामस्तु पुत्रकामस्तु पायसैः।
निम्बापुष्पैर्हिरण्यार्थी सर्वे सिध्यन्ति सर्पिषा ।। 17.48 ।।

[तत्तद्धोमद्रव्यपरिमाणनिर्देशः]

होमे सर्पिर्मधुक्षीरधाराः स्युश्चतुरङ्गुलाः।
शुक्तिर्दध्नाहुतिर्ग्रासं पायसाद्याहुतिर्भवेत् ।। 17.49 ।।
 (c: M. शक्तिः for शुक्तिः T. दध्या for दध्ना;)
भक्ष्याहुतिस्तदर्धेन फलैः पुष्पैरखण्डितैः।
निष्पावबीजमानेन धूपद्रव्याहुतिर्भवेत् ।। 17.50 ।।
अष्टाङ्गुला तदर्धा वा समिद्दूर्वा षडङ्गुला।
मृद्विकाक्षप्रमाणा तु गोमयाहुतिरुच्यते ।। 17.51 ।।
 (c: M. अक्षरप्रमाणान्तु for अक्षप्रमाणा तु;)
  (d: T. आहृतिः for आहुतिः;)
पूर्णाहुतिर्घृतस्य स्यात्कुडवेन मुनीश्वर।
न्यूनाधिकप्रमाणेन हव्यकव्याहुतीः कृताः ।। 17.52 ।।
भुञ्जते दानवाः दैत्याः न फलाय प्रकल्पते।

[अग्निकुण्डे हरेः आवाहनम् आराधनं च]

वर्मणा परिषिच्याग्निमग्नौ पीठप्रकल्पनम् ।। 17.53 ।।
 (a: M. भुञ्जन्ति for भुञ्जते;)
  (C: A. वर्ष्म for वर्म;)
आधारशक्त्यादिमन्त्रैर्वह्नावावाहनं हरेः।
पूर्ववत्सकलं कुर्यात् उपचारमुषर्बुधे ।। 17.54 ।।
तैस्तैर्मन्त्रैश्च स्वाहान्तैस्सर्पिषैव सकृत् सकृत्।
निवेदनान्तं कृत्वैवं परिवारार्थमप्यथ ।। 17.55 ।।
हुत्वा कवचमन्त्रेण पूर्ववत्परिषेचयेत्।
एतन्नित्यार्चनं वह्नौ प्रतिष्ठादावनन्तरम् ।। 17.56 ।।

[अग्नौ नित्याराधनविध्यादौ विशेषः]

तत्तत्क्रियोक्तविधिना होममन्यत्समाचरेत्।
नित्ये धार्यो वीतिहोत्रः न प्रणीता न चात्मभूः ।। 17.57 ।।
नेध्यप्रक्षेपणं चाग्नौ न चरुश्रपणं भवेत्।
आज्येन केवलं वह्नौ विष्णोः पूजा जपावधिः ।। 17.58 ।।
नाऽघारहोमः कर्तव्यः अग्नौ नष्टे तु निष्कृतिः।
प्रतिष्ठादिषु सर्वेषु सर्वमेतत्समाचरेत् ।। 17.59 ।।
कर्मावसानं ब्रह्मादीन् नोद्वासेत्तन्त्रवित्तमः।

[पूर्णाहुतिसम्पादनविधिः]

प्रायश्चित्ताहुतीर्हुत्वा कुर्यात्पूर्णाहुतिं ततः ।। 17.60 ।।
 (a: T. कर्मावसाने for कर्मावसानम्;)
आत्मनोऽग्रे स्रुवं याम्ये चाज्यस्थालीं तथोत्तरे।
स्रुचं विन्यस्य हस्ताभ्याम् आदद्यात्सादितान् कुशान् ।। 17.61 ।।
आज्यस्थाल्यां न्यसेन्मूलं मध्ये मध्यं स्रुचीतरम्।
स्पृष्ट्वा त्रिरेवं जुहुयादग्नौ दर्भान् तथा दहेत् ।। 17.62 ।।
परिधीनात्मनः पूर्वं प्रणीतां विन्यसेद्‌गुरुः।
आपूर्य प्रोक्षणीतीर्थैः पूर्वाद्याशासु सेचयेत् ।। 17.63 ।।
अवन्यां विसृजेच्छेषं प्रोक्षयेदात्मनः शिरः।
ब्रह्माणमुद्वसेत्पश्चात्स्रुचं तोयेन पूरयेत् ।। 17.64 ।।
 (a: A. अविद्याम् for अवन्याम्)
परिषिच्य ततः कुण्डं देवमग्नेः समुद्धरेत्।
भस्मना तिलकं कुर्यात् हुतेनाधापनोदिना ।। 17.65 ।।
`अग्नेनये'ति मन्त्रेण ह्युपस्थाय ततोऽनलम्।
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि ।। 17.66 ।।
आराधनं त्वं देवेश गृहाण परमेश्वर।
इति देवपदाम्भोजे न्यसेद्धवनजं फलम् ।। 17.67 ।।

[पूर्णाहुतिविधिः]

अगस्त्यः
श्रुतो मया परंधाम्नः वह्नौ पूजाक्रमोऽधुना।
पूर्णाहुतिविधानं तत्कथमद्य ब्रवीहि मे ।। 17.68 ।।

श्रीरामः
अर्घ्याद्यैरर्चयेद्देवमनले सर्पिषा गवाम्।
स्रुचमाज्येन सम्पूर्य कुडवेन गुरूत्तमः ।। 17.69 ।।
 (d: A. कुडुब for कुडव;)
दर्भेण समिधा युक्तं फलेन परिपूरितम्।
गन्धैः पुष्पैरक्षतैश्च पूजयित्वा स्रुचं गुरुः ।। 17.70 ।।
अपिधाय स्रुवेणाथ नासिकाग्रान्तमुद्धरन्।
उत्थाय वाद्य घोषेषु सर्वतो नादितेषु च ।। 17.71 ।।
 (b: M. डद्धरेत् for उद्धरन्;)
`पूर्णाहुतिमि'ति मनुं घोषयस्तु द्विजातिषु।
`मूलमन्त्रे'ण जुहुयादनले विमले गुरुः ।। 17.72 ।।
कुर्वीत स्विष्टकृद्धोमं कुक्कुटाण्डप्रमाणकम्।
चरुं घृताप्लुतं सर्वैरुपदंशैस्समन्वितम् ।। 17.73 ।।
सशर्करं च समधु सदर्भसमिधं स्रुचि।
विन्यस्य सर्पिषाप्लाव्य स्रुवाग्रेणापिधाय च ।। 17.74 ।।
जुहुयान्मूल