भार्गवतन्त्रम्/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ भार्गवतन्त्रम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
भार्गवतन्त्रस्य अध्यायाः

।। द्वितीयोऽध्यायः ।।
[तन्त्रविवरणपूर्वकवासुदेवाराधनफलादिनिरूपणाध्यायः]
[तन्त्रविवरणम्]

श्रीरामः
अक्षय्यसंख्यं तन्त्रं तत् परस्मिन् ब्रह्मणि स्थितम्।
सार्धकोटिप्रमाणेन जग्राह भगवान् विधिः ।। 2.1 ।।
  (b: अन्तरं M. कोशे `ग्रहीतारः' इत्यधिकः।)
नारदोऽपि च जग्राह कोट्यर्धं ब्रह्मणो मुनिः।
कपिलोऽपि मुनिः पञ्च लक्षमात्रमुपाहरत् ।। 2.2 ।।
वैनतेयोऽपि जग्राह पादलक्षं जनार्दनात्।
विंशत्सहस्रं जग्राह पूजातन्त्रं हरेः फणी ।। 2.3 ।।
चत्वारिंशत्सहस्राणि विखना मुनिरग्रहीत।
लक्ष्मीः षष्टिसहस्राणि लक्षमेकं वसुन्दरा ।। 2.4 ।।
  (a: M.सहस्रेण for सहस्राणि;)
  (M. om. b: c:)
शुकः पञ्च सहस्राणि सहस्रं सप्ततेर्हरः।
चतुर्दश सहस्राणि भगवान् स पराशरः ।। 2.5 ।।
विष्वक्सेनोऽपि जग्राह ग्रन्थं लक्षद्वयं हरेः।
अन्ये च बहवः कामं जगृहुर्मुनिपुङ्गवाः ।। 2.6 ।।
  (c: M. कामात् for कामं;)
  (d: M. जग्रहुः for जगृहुः;)

[शास्त्रविधिना हरेः आराधनफलम्]

असंख्यातमिदं शास्त्रं हरेर्जठरपूरितम्।
संग्रहेणाद्य ते वच्मि तेन पूतो भविष्यसि ।। 2.7 ।।
तेन शास्त्रविधानेन पूजयस्व रमापतिम्।
तेन सर्वं लयं याति कलुषं कलशोद्भव ।। 2.8 ।।
  (d: T.A. कमलोद्भव for कलशोद्भव; अस्य श्लोकस्यानन्तरं M. कोशे `फलम्' इत्यधिकः।)
स्मरणं कीर्तनं विष्णोः पूजनं पादवन्दनम्।
प्रदक्षिणं दर्शनं च सर्वाघौघविनाशनम् ।। 2.9 ।।
एकैकमपि पर्याप्तं सर्वपापापनोदने।
किं पुनर्बहवो यस्य सः पुमान् हरिरेव हि ।। 2.10 ।।
यद्यदिच्छन् धिया विष्णुं सेवते भक्तिसंयुतः।
तस्य तत्तत्करतले नात्र कार्या विचारणा ।। 2.11 ।।

[देवालयादिकल्पनस्य तत्तदाराधनादेश्चफलकीर्तनम्]

यस्तु विष्णुगृहं कुर्यात् वैकुण्ठं तस्य मन्दिरम्।
यस्तु बिम्बं हरेः कुर्यात् स तु विष्णौ लयं व्रजेत् ।। 2.12 ।।
येन पीठानि कल्प्यन्ते स याने चरते दिवि।
यच्छत्रं चामरं पीठं पादपीठं तथाम्बरम् ।। 2.13 ।।
अन्यान्युपचाराणि करोति कमलापतेः।
स तु तैस्तैस्तथाकाशे निर्मलेऽम्मरसेविते ।। 2.14 ।।
  (a:M. अन्यान्यपि उपचाराणि;)
  (d: A.T. अम्वर for अमर;)
देवैः पर्युपचर्यन्ते स नाघेन विलिप्यते।
कासारवापिकाकूपतटाकादि करोति यः ।। 2.15 ।।
  (b: A. नालेन for नाघेन;)
स भूयात् सततं शा तः स न तापेन लिप्यते।
कवचायुधभूषास्रक् किरीटादि करोति यः ।। 2.16 ।।
  (a: b: c: d: M. om.)
उद्यानानि च रम्याणि धरणीं सस्यमालिनीम्।
सभां च मण्डपं रम्यं सर्वं तस्य परेऽम्बरे ।। 2.17 ।।
नैवेद्यं विविधं भक्ष्यं भोज्यं लेह्यं च पानकम्।
उत्पादयति पश्चात् स सुधाशी भवति ध्रुवम् ।। 2.18 ।।
अनिच्छन्नखिलं भोगं यः प्रीत्या कुरुते क्रियाः।
स भवेदमले धाम्नि परस्मिन्नेव लीयते ।। 2.19 ।।
यः सदा देवसदने ध्यायन्नास्ते मुदा हरिम्।
पुनर्न मातुर्जठरे निवसेत्कलसोद्भव ।। 2.20 ।।
  (d: A.T. कमलोद्‌भव for कलशोद्‌भव;)
पानीयं देवदेवाय यो ददाति गतस्पृहः।
मातुः स्तन्यं न पिबति पुनः कलससंभव ।। 2.21 ।।
  (d: A.T. कमल for कलश;)
तालवृन्तेन देवेशं यो वीजयति भक्तिमान्।
स न तापत्रयैर्लिप्येतेति शास्त्रविनिर्णयः ।। 2.22 ।।
गन्धं ददाति यो भक्त्या नरके स न मज्जति।
आमोदयति यः सद्म स स्वर्गे मतुहीयते ।। 2.23 ।।
  (b: A.T. न स for स न;)
दद्याच्च यो अम्बरं विष्णोः नग्नत्वं तस्य नोच्यते।
आलोक्य हृष्टो विष्णुं यः स सालोक्यं समश्नुते ।। 2.24 ।।
दीपान् प्रदीपयेद्यस्तु तद्ध्यानविषयो हरिः।
मार्जनालेपनैर्यान्ति पापानि विलयं ध्रुवम् ।। 2.25 ।।
  (a: T.M. प्रदापयेत् for प्रदीपयेत्;)
तोरणैरङ्गवल्याद्यैः मण्डयन् देवमन्दिरम्।
सर्वदा मण्डितो भूयाद्वैकुण्ठे दवमन्दिरे ।। 2.26 ।।
  (c: M. सर्वथा for सर्वदा;)
वेदैरङ्गैस्तथा स्तोत्रैस्तोषयेद्यदि शार्ङ्गिणम्।
सर्वदा तोषितः सर्वैः भवेद्वैकुण्ठसद्मनि ।। 2.27 ।।
गीतं नृत्यं तथा वाद्यं कारयेद्यो हरेः प्रियम्।
स तेन तेन भवति परितुष्टः परे पदे ।। 2.28 ।।
  (a: M. नृत्तं for नृत्यम्;)
  (c: M. सते नते for स तेन तेन;)
अनन्तशयने देवे परमानन्दविग्रहे।
अचला परमा भक्तिर्यस्य स ब्रह्मभाजनम् ।। 2.29 ।।
भगवद्भक्तियुक्तेषु भक्तिमान् यो भवेन्नरः।
स भवेद्भगवत्प्राणस्तस्य स्थानं भवेद्धरिः ।। 2.30 ।।

[वासुदेवध्यानस्य सिद्धिप्रदातॄत्वम्]

ततस्त्वं शार्ङ्गधन्वानं वासुदेवं सनातनम्।
ध्यायस्व सततं चित्ते तेन ते सिद्धिरव्यया ।। 2.31 ।।

।। इति भार्गवतन्त्रे द्वितीयोऽध्यायः ।।