भार्गवतन्त्रम्/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ भार्गवतन्त्रम्
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
भार्गवतन्त्रस्य अध्यायाः

।। षष्ठोऽध्यायः ।।
      [प्रतिष्ठाविषयविवेचनाध्यायः]
[प्रतिष्ठाविषयकजिज्ञासोपस्थापनम्]

प्रतिष्ठा कीदृशी ब्रह्मान् प्रतिष्ठता तु कीदृशः।
को वा कालः प्रतिष्ठायाः शुभदः सर्वदेहिनाम् ।। 6.1 ।।
कीदृशोऽप्यधिकारी वा कथं वा तत्समाप्यते।
जामदग्न्यपरं धामन् कृपया ब्रूहि मे प्रभो ।। 6.2 ।।

[प्रतिष्ठाक्रमे यजमानलक्षणम्]

श्रीरामः
श्रद्धया परया युक्तः कल्याणहृदयः स्वयम्।
आस्तिको देवदेवेशे न्यस्तचित्तः स्वयं प्रभुः ।। 6.3 ।।
  (d: T. प्रभौ for प्रभुः;)
अप्रमेयं धनं धान्यम् उत्साहस्च इमे त्रयः।
वसन्त्यविरतं यत्र स प्रतिष्ठापको भवेत् ।। 6.4 ।।
  (a: A. अप्रमेयधनं धान्यम्;)
परिशुद्धश्च दक्षश्च कृतज्ञो गुरुपङ्क्तिषु।
अलोभयति कार्याणि यः स एवारभेत् क्रियाम् ।। 6.5 ।।
चातुर्वर्ण्योऽनुलोमो वा ज्ञातिभिः सकलैर्युतः।
आचार्यं पुरतः कृत्वा प्रतिष्ठां तेन साधयेत् ।। 6.6 ।।

[प्रतिष्ठाक्रमे आचार्यस्य लक्षणम्]

पाञ्चरात्रविदं शान्तं सर्वसिद्धान्तकोविदम्।
निःस्पृहं निर्जितद्वन्द्वं सर्वदोषविवर्जितम् ।। 6.7 ।।
ऋजुबुद्धिं सदा ब्रह्मध्यानैकनिरतं शुभम्।
आद्यवर्णं भागवतं नारायणपरायणम् ।। 6.8 ।।
प्रतिष्ठोत्सवकार्येषु प्रायश्चित्तादिकर्मसु।
निपुणं वरयेत्पूर्वमाचार्यत्वे सुबुद्धिमान् ।। 6.9 ।।

[प्रतिष्ठासम्पादनार्थमृत्विगादिविचारः]

ततस्तेनैव गुरुणा ऋत्विजः षोडशाथवा।
अष्टौ वा चतुरो यद्वा त्रीन् द्वौ वा वरयेत् सुधीः ।। 6.10 ।।
अलाभे ऋत्विजां यज्ञं गुरुरेकः समापयेत्।
एकाध्वरविधानेन यथावत्कलशोद्भव ।। 6.11 ।।

[आचार्यवरणक्रमे निषिद्धाः]

वानप्रस्थो यतिश्चापि ब्राह्मणादितरे त्रयः।
नैवाधिकारिणः सर्वे पञ्चसंस्कारवर्जिताः ।। 6.12 ।।
न कुण्डगोलकौ नैव भवेयुरनुलोमजाः।
कर्माधिकारिणो नैव जात्या ब्राह्मणयोनयः ।। 6.13 ।।

[आचार्यवरणक्रमः]

विधुरोऽप्यधिकारी स्यात् गुरुत्वे ज्ञानगौरवात्।
एवं विचार्य सकलमाचार्यं वरयेत्पुरा ।। 6.14 ।।
समये यजमानस्तु गां भुवं काञ्चनं तथा।
नारिकेलं च कर्मादावाचार्याय प्रदापयेत् ।। 6.15 ।।

[प्रतिष्ठाक्रमे ग्राह्याग्राह्यकालविवेकः]

प्रतिष्ठाकालमधुना वक्षे श्रृणु मनीश्वर।
मुख्यं पूर्वायनं प्रोक्तं जघन्यं दक्षिणायनम् ।। 6.16 ।।
ध्रुवबेरप्रतिष्ठायां मुख्यमेवायनं वरम्।
जघन्यं कर्मबिम्बानां दोषाय न कदाचन ।। 6.17 ।।
  (b: T. परम् for वरम्;)
प्रतिष्ठाकरणे त्याज्यं पितृमासचतुष्टयम्।
मासेष्वन्येषु सर्वेषु कारयेदविचारयन् ।। 6.18 ।।
बाल्यं च सोमपुत्रस्य मौढ्यं च गुरुशुक्रयोः।
उपरागयुतं मासं सर्वथा परिवर्जयेत् ।। 6.19 ।।
यद्वा पक्षं पुरस्ताच्च परस्ताच्च परित्यजेत्।
दुर्दिनं रविसङ्क्रान्तिमतिमासं मलाह्वयम् ।। 6.20 ।।
गण्डातिगण्डयोगानि सर्वथा परिवर्जयेत्।
अर्कारवारौ मन्दस्य वारं विष्टं च वर्जयेत् ।। 6.21 ।।
अमारिक्ताष्टमीतिथ्यः वर्जनीयाः प्रयत्नतः।
कृत्तिका भरणी जेष्ठा सर्वरौद्रद्विदैवतम् ।। 6.22 ।।
  (d: T. सर्प for सर्वo;)
त्रीणि पूर्वाणि पितृभं निन्दितानि परित्यजेत्।
आसुरं मारुतं चित्रा श्रविष्ठा शततारकम् ।। 6.23 ।।
  (d: T. ततo for शतo;)
नात्युच्चं नातिनीचं च समं ग्राह्यं मनीषिभिः।
पापदृग्योगसहितमष्टमे ग्रहसंयुतम् ।। 6.24 ।।
दशमे पापसंयुक्तं तल्लग्नं परिवर्जयेत्।
एवं विलोक्य नितरां सह मौहूर्तिकैर्गुरुः ।। 6.25 ।।
विलोक्य गुणसंवाधं गुणग्रामं च शास्त्रतः।
यजमानग्रामधाम्नामनुकूले समाचरेत् ।। 6.26 ।।
  (c: A. यज्ञान for यजमान;)
ईदृशं मङ्गलदिनं विनिश्चित्य द्विजोत्तमैः।
आरभेत प्रतिष्ठातुं देशिकः शास्त्रसारवित् ।। 6.27 ।।

[अङ्कुरमृत्संग्रहणात् पूर्वं सम्पादनीयानि कृत्यानि]

तदर्थं यजमानश्च ऋत्विजश्च गुरूत्तमः।
अनुकूले शुभे काले स्नायासुः क्षुरकर्मणा ।। 6.28 ।।
स्नाताश्शुद्धाम्बरधरास्सर्वालङ्कारभूषिताः।
आहूय रथकारं च कुलालमपि शिल्पिनः ।। 6.29 ।।
आचार्यस्तोषयित्वा तान्विसृज्यानु च शिल्पिना।
नेत्राण्युन्मील्य विधिवत् कर्मबिन्बेषु शिल्पिनः ।। 6.30 ।।
तोषयित्वा धनैर्वस्त्रैः मनः प्रह्लादनैरपि।
निर्गमय्याथ पुण्याहं वाचयेत्सर्वशुद्धये ।। 6.31 ।।
गोमयालेपिते भूमौ रङ्गबल्या परिष्कृते।
धान्यपीठे न्यसेत् कुंभं साक्षतं सूत्रवेष्टितम् ।। 6.32 ।।
  (a: A. आलिपिते for आलेपिते;)
शरावकूर्चपत्राढ्यं तत्रावाह्य श्रियः पतिम्।
गायत्र्या चैव वैष्णव्या समभ्यर्च्याक्षतादिभिः ।। 6.33 ।।
  (c: T. गायत्र्यृचैव for गायत्र्या चैव;)
अब्लिङ्गैः पवनैर्मन्त्रैः पवमानैः पवित्रकैः।
शान्तिमन्त्रैश्च ऋत्विग्भिः जप्त्वा व्याहृतिविद्यया ।। 6.34 ।।
पीठं संक्षालितं बिम्बमासादितशुभोदकैः।
प्रोक्षयेदङ्कुरायाथ मृत्सङ्ग्रहमाचरेत् ।। 6.35 ।।

[अंकुरार्थं मृत्सङ्ग्रहक्रमः]

आजानुपादौ प्रक्षाल्य हस्तौ चामणिबन्धनात्।
त्रिराचम्य मृदा पुण्ड्रैरलङ्कृत्य पवित्रवान् ।। 6.36 ।।
पिटकं च खनित्रं च शोधयित्वा शुभोदकैः।
वस्त्रैर्गन्धैश्च माल्यैश्च खनित्रं भूषितं पुरा ।। 6.37 ।।
शिरसा धारयेदृत्विगथवा परिचारकः।
ब्राह्मणैः शाकुनं सूक्तं पठद्भिः वाद्यमङ्गलैः ।। 6.38 ।।
  (d: A. प्राद्यo for वाद्यo;)
बाहुप्रदीपैर्विमलैः पूजोपकरणैः सह।
दिशं प्राचीमुदीचां वा शुभां भूमिं समाश्रयन् ।। 6.39 ।।
आसीनः प्राङ्मुखो भूत्वा प्राणानायम्य देशिकः।
भूतग्रामं विशोध्याथ पुण्याहमपि वाचयेत् ।। 6.40 ।।
`व्याहृत्या' प्रोक्षयेद्‌भूमिं खनित्रं पिटकं तथा।
`भूमिसूक्तेन' धरणीम् ऋत्विग्भिरभिमन्त्रयेत् ।। 6.41 ।।
  (d: T. अपि for अभि;)
समुद्रवसनां देवीं पर्वतस्तनमण्डिताम्।
रत्नगर्भां गुरुर्ध्यायेत् वसुधां सस्यसालिनीम् ।। 6.42 ।।
  (d: A. सस्यमालिनीम् for सस्यसालिनीम्।;)
आवाह्य भूमिमन्त्रेण भूमिं भूमौ समर्चयेत्।
अर्ध्यपाद्यादिभिर्गन्धैः पुष्पैर्नानाविधैरपि ।। 6.43 ।।
धूपैर्दीपैश्च नैवेद्यैः विविधै रसनाप्रियैः।
स्तोत्रेणाभिष्टुयाद्देवीं वसुधां रत्नमण्डिताम् ।। 6.44 ।।

[मृत्सङ्ग्रहक्रमे भूस्तुतिः]

सर्वभूतधरे कान्ते सर्वलोकनमस्कृते।
विष्णुपत्नि जगद्धात्रि वसुधे सस्यमालिनि ।। 6.45 ।।
पुण्यकाननकेशाढ्ये पर्वतस्तनमण्डिते।
समुद्रवसने देवि नदीविषयवासिनि ।। 6.46 ।।
वल्मीकश्रवणे वेदभाषिणि श्रुतिसेविते।
फुल्लाम्बुजेक्षणे देवि प्रसीद हरिवल्लभे ।। 6.47 ।।
नमस्ते भुवनेशाने नमः सर्वसुरार्चिते।
नमो भार्गवि मे मातः प्रणतोऽस्मि वसुन्धरे ।। 6.48 ।।
विष्णुशक्तिसमुद्भूते शङ्खवर्णे महेश्वरि।
अनेकरत्नसङ्कीर्णे भूमि तुम्यं नमो नमः ।। 6.49 ।।
इति स्तुत्वा च नत्वा च ध्यात्वा विमलचेतसा।

[मृत्सङ्ग्रहमन्त्रनिर्देशः]

`अश्वक्रान्ते'ति मन्त्रेण खनित्रेण गुरूत्तमः ।। 6.50 ।।
मृदं समग्रां गृह्णीयात् प्राङ्मुखः क्रोडविद्यया।

[मृदानयनं गुर्वादिसम्माननं च]

तां मृदं मूलमन्त्रेण पिटके वेत्रनिर्मिते ।। 6.51 ।।
आच्छाद्य नव वस्त्रेण मन्त्रेणा`स्त्रे'ण देशिकः।
स्वयं गृहीत्वा शिरसा ब्राह्मणैः स्वस्तिपाठकैः ।। 6.52 ।।
विविधैर्मङ्गलैरन्यैः प्रविशेन्मन्दिरं गुरुः।
धाम प्रदक्षिणीकृत्य अङ्कुरार्पणमण्डपे ।। 6.53 ।।
विन्यसेत्तां मृदं पश्चात् यजमानो गुरुं तथा।
ऋत्विजो वस्त्रगन्धाद्यैः पुष्पैः पञ्चाङ्गभूषणैः ।। 6.54 ।।
हारोपवीतकटककेयूराङ्गुलिभूषणम्।
पञ्चाङ्गभूषणमिदं कथितं कमलोद्भव ।। 6.55 ।।
  (a: b: c: d: A, om.)

[पालिकास्थापनमङ्कुरधान्यसंस्कारः तत्तद्देवताराधनञ्च]

अथ तेऽलङ्कृताः सम्यक् अङ्कुरार्पणभूतले।
पुण्याहं वाचयित्वाथ प्रोक्षयेत् पालिकादिकम् ।। 6.56 ।।
पालिका द्वादशाहृत्य तासां कण्ठं तृणादिभिः।
बद्ध्वाऽपूर्य मृदा पश्चादङ्कुरार्पणभूतले ।। 6.57 ।।
गोमयेन समालिप्तां रङ्गवल्या परिष्कृताम्।
आसाद्य धान्यैः सम्पूर्णैः पीठं तत्र प्रकल्पयेत् ।। 6.58 ।।
प्रागायतानि पञ्चैव तथा तिर्यञ्चि पातयेत्।
सूत्राणि षोडशपदे मध्ये पदचतुष्टयम् ।। 6.59 ।।
  (b: T. तथा तिर्यग्विपातयेत्;)
सोमकुंभाय सम्मार्ज्य परितः पालिकास्पदम्।
`पौरुषे'णैव मन्त्रेण पालिकास्थापनं चरेत् ।। 6.60 ।।
सोमकुंभमलङ्कृत्य गन्धैः पुष्पैश्च साक्षतैः।
सूत्रैर्वस्त्रैश्शरावेण कूर्चेन च यथाक्रमम् ।। 6.61 ।।
विन्यस्याङ्कुरधान्यानि गोधूमब्रीहिसाढकी।
मुग्दं सचणकं राजमाषं च सतिलं तथा ।। 6.62 ।।
माषं कलुत्थमेतानि धान्यानि नव चाहरेत्।
संक्षाल्य `विष्णुगायत्र्या' चाप्लुत्य पयसा गवाम् ।। 6.63 ।।
  (a: A. कलोत्थम् for कलुत्थम्;)
`ऋतं सत्ये'ति मन्त्रेण ब्रह्मावाह्य समर्चयेत्।
गन्धोदकेन सम्पूर्य सोमकुम्भं सरत्नकम् ।। 6.64 ।।
  (b: A. समर्पयेत् for समर्चयेत्;)
`सन्ते पयांसि' मन्त्रेण सोममावाह्य पूजयेत्।
पालिकासु द्वादशसु विष्णोरावाहनं चरेत् ।। 6.65 ।।
`तदस्योरु' `प्रतद्विष्णु'र्यस्योरु'च परे उभे।
`विचक्रमे' `ध्रुवासोऽस्य' `त्रिर्देवश्च' `प्रविष्णकम' ।। 6.66 ।।
  (b: A. उरं for उरु; T. परो for परे;)
`अतो देवा' `इदं विष्ण'रिति मन्त्रैर्यथाक्रमम।
पालिकासु सकूर्चासु प्रागादीशावसानकम् ।। 6.67 ।।
आवाह्य गन्धपुष्पाद्यैरर्चयित्वा ततः परम।

[होमप्रकारः]

प्राग्भागे पालिकावेद्याः स्थण्डिलं परिकत्पयेत् ।। 6.68 ।।
अगिनं संसाध्य विधिवत् सर्पिषाष्टोत्तरं शतम्।
`सन्ते पयांसि'मन्त्रेण हुत्वा सम्पातमाहरेत् ।। 6.69 ।।
`इदं विष्णुरि'ति श्रुत्या हुत्वा पूर्णाहुतिं गुरुः।

[बीजावापरक्षणादिप्रकारः]

सम्पाताज्येन संसिञ्चेद्बीजपात्रं च पालिकाः ।। 6.70 ।।
सोमकुंभे पुनः सोममभ्यर्च्य च निवेद्य च।
`द्वादशाक्षर'मन्त्रेण बीजावापं समाचरेत् ।। 6.71 ।।
आचार्यो वापयेद्बीजं तूष्णीमन्ये च ऋत्विजः।
`मूर्धानमि'ति मन्त्रेण मृद्भिराच्छादयेत्ततः ।। 6.72 ।।
`इमं मे वरुणो'त्येव पयसा सेचयेदपि।
अनिर्वाणं ततो दीपं रक्षेन्नक्तं दिवं मुदा ।। 6.73 ।।
सोमकुम्भार्चनं नित्यं यावत्कर्म समाप्यते।
पालिकाराधनं कुर्यात् सायं प्रातर्निवेदयेत् ।। 6.74 ।।

।। इति भार्गवतन्त्रे षष्ठोऽध्यायः ।।