सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ भार्गवतन्त्रम्
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
भार्गवतन्त्रस्य अध्यायाः

।। पञ्चमोऽध्यायः ।।
[प्रतिष्ठाङ्गसंभारविवरणाध्यायः]
    [प्रतिष्ठाक्रमे मण्डपादीनां कल्पनादिविषये जिज्ञासा]

अगस्त्यः
कथं तु भगवन् विष्णोः प्रतिष्ठां कारयेत्सुधीः।
संभाराः के च सम्भार्यास्तत्र योग्याः ब्रवीतु मे ।। 5.1 ।।
  (c: A.M. संभार्याः के च संभाराः;)
  (d: A. तत्प्रयोग्याः for तत्र योग्याः;)

[मण्डपकुण्डस्वरूपादिनिर्देशः]

श्रीरामः
प्रसादस्याग्रतः कुर्यादधिवासनण्डपम्।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।। 5.2 ।।
तृतीयावरणे यद्वा देशे योग्यावकाशके।
बाहुदण्डैश्च दशभिश्चतुरश्रं मनोहरम् ।। 5.3 ।।
चतुर्द्वारसमायुक्तं कल्पयेच्छिल्पवित्तमः।
तन्मध्ये पञ्चभिर्हस्तैः चतुरश्रा मनोहरा ।। 5.4 ।।
  (a: M. चक्षु for चतुo;)
  (c: M. व्यस्तैः for हस्तैः;)
  (d: A. चतुरश्रं मनोहरम्;
   M. चक्षु for चतुo;)
हस्तोच्छ्रायाथवार्धेन चतुरश्रेष्टकाचिता।
तालत्रयात् बहिस्तस्याः कुण्डानि परिकल्पयेत् ।। 5.5 ।।
चतुरश्रं भवेत्प्राच्यां याम्ये चापसमाकृतिः।
वृत्तकुण्डं तु वारुण्यां सौम्ये कोणत्रयान्वितम् ।। 5.6 ।।
  (b: T. यामे for याम्ये;)
चतुर्विंशाङ्गुलं सूत्रं विस्तारायामसम्मितम्।
प्राग्भागे कल्पितं कुण्डं चतुरश्रं विधीयते ।। 5.7 ।।
षष्ठ्यङ्गुलं भवेच्चापं ज्या तु षट्‌त्रिंशदंगुला।
चापकुण्डं भवेदेतद्दक्षिणे वेदिका भुवः ।। 5.8 ।।
द्वात्रिंशदङ्गुलं सूत्रं त्रिगुणेन प्रकल्पयेत्।
उत्तरे वेदिकाभूमेः त्रिकोणं विद्यते स्फुटम् ।। 5.9 ।।
पक्षसंख्याङ्गुलं सूत्रं मध्यतो भ्रामयेद्यदि।
वृत्तकुण्डं भवेदेतद्वारुणे वेदिका भुवः ।। 5.10 ।।
सूत्रपातं पुरा कृत्वा विंशत्या चतुरङ्गुलैः।
अगाधमवनीं खात्वा द्व्यङ्गुलं तद्‌बहिः पदे ।। 5.11 ।।

[कुण्डमेखलाकल्पनप्रकारः]

मेखलायास्त्रयं कुर्यात् दृढयेष्टकया सुधीः।
अथवा प्रकृतेर्बाह्ये चतुरङ्गुलमानतः ।। 5.12 ।।
मेखलायास्त्रयं कुर्यात् सुपक्वेष्टकया दृढम्।
प्रथमा तालमाना स्यात् मध्यमाष्टाङ्गुलोन्नता ।। 5.13 ।।
चतुरङ्गुलमानैव चरमा मेखला भवेत्।

[कुण्डे योनिकल्पनक्रमः]

पश्चिमे वाथवा याम्ये भागे योनिं प्रकल्पयेत् ।। 5.14 ।।
पक्षसंख्याङ्गुलायामां काहलाकृतिसन्निभाम्।
मूलसूक्ष्मोर्ध्वविस्तीर्णां मध्ये निम्नां शिरो भुवि ।। 5.15 ।।
अश्वत्थदलवद्‌दृश्यां प्रतिकुण्डं प्रकल्पयेत्।
मुमुक्षोर्नैव योनिः स्यात् कुण्डं वा सैकमेखलम् ।। 5.16 ।।
  (d: T. सैव मेखला for सैकमेखलम्।)

[प्रपादिकल्पनक्रमनिर्देशः]

प्रपां वा परिकुर्वीत चतुर्द्वारसमन्विताम्।
समध्यवेदिकुण्डाढ्यामैशान्यां स्नानमण्डपम् ।। 5.17 ।।
अङ्कुरार्पणभूभागं कल्पयेन सुरक्षितम्।
दृढास्तिरस्करिण्यश्च बन्धनीया यथाविधि ।। 5.18 ।।
  (c: A. तिरस्करिण्याः for तिरस्करिण्यः)
द्विहस्ता वा त्रिहस्ता वा वेदिका स्नानमण्डपे।

[स्रुक्‌स्रु वोः कल्पनप्रकारः]

स्रुक्‌स्रुवौ कल्पनीयौ च रम्भापुष्पदलाननौ ।। 5.19 ।।
सूच्यग्रे सूकरमुखं घृतकुल्या निवेशनम्।
सर्पिः कुण्डबभृद्वक्त्रं न सूकरमुखं स्रुवे ।। 5.20 ।।
  (c: A. सर्पिः कडुबभृद्वक्त्रम्;)
  (d: A. स्रवे for स्रुवे;)
मुखादधस्तात् कण्ठं च बाहुदण्डायतावुभौ।
कन्दं वा कमलं वापि तयोर्मूले प्रकल्पयेत् ।। 5.21 ।।

[तोरणस्नानपीठादिकल्पनक्रमः]

तोरणानि च चत्वारि शूलत्रययुतानि च।
अधः शाखाविहीनानि कल्पयेत्कलशोद्भव ।। 5.22 ।।
द्वाविंशत्यङ्गुलायामं तदर्धेन च विस्तृतम्।
घनं चापि तदर्धेन कल्पयेदष्टमङ्गुलम् ।। 5.23 ।।
बिम्बप्रमाणानुगुणं स्नानपीठं प्रकल्पयेत्।
ऋत्विजां पूजकानां च देशिकस्यासनानि च ।। 5.24 ।।

[पादुकादिसंभाराणां विवरणम्]

पादुके पादसदृशौ सर्वं स्याद्यज्ञवृक्षजम्।
श्रीवत्सं पूर्णकुंभं च भेरीं दर्पमण्डलम् ।। 5.25 ।।
मत्स्ययुग्मं तथा शंखं चक्रं काश्यपनन्दन।
प्रत्येकमष्टावेतानि विलिखिदष्टमङ्गले ।। 5.26 ।।
कूर्माकारं लिखेत्तत्तदासनेष्वधिकारिणाम्।
श्वेतौ रक्तौ तथा पीतौ नीलावष्टाविमे ध्वजाः ।। 5.27 ।।
महाकुंभोपकुंभाश्च करकं मणिकं तथा।
कलशाश्चापि सम्भार्याः दीपस्तम्भास्तथा घृतम् ।। 5.28 ।।
  (d: T. वृतम् for घृतम्,)
तैलं च दीपपात्राणि वर्तिनी सुगुणान्यपि।
चन्दनानि सुगन्धानि पुष्पाणि सुरभीणि च ।। 5.29 ।।
वस्त्राणि च दुकूलानि कम्बलान्याविकानि च।
व्याघ्रकृष्णाजिनादीनि शोभनान्यक्षतानि ।। 5.30 ।।
समिधश्च कुशाः काशाः धान्यानि शयनासनम्।
शिरोपधानं गण्डूषं तूलिकारत्नकम्बलम् ।। 5.31 ।।
विविधानि च धान्यानि रत्नानि विविधानि च।
स्वर्णादिसप्तलोहानि गाः सवत्साः मनोहराः ।। 5.32 ।।
धूपद्रव्याणि कर्पूरं घनसारं च गुग्गुलम्।
ताम्बूलं क्रमुकं माला हाराश्च कुसुमैः कृताः ।। 5.33 ।।
फलानि मकरन्दं च पयोदधि च शर्करा।
गुडं च नेत्र सामग्री शलाके द्वे च हेमजे ।। 5.34 ।।
कुंभप्रतिकृतिः पञ्च भूषणानि च कङ्कणम्।
कटाहं च जलद्रोणी सौवर्णकमलानि च ।। 5.35 ।।
  (c: A. वा for च;)
तन्तवश्चापि कुंभानां पालिकाश्च घटादयः।
शरावाश्चापि सामान्या मृद्भाण्डानि शुभान्यपि ।। 5.36 ।।
कन्यकारुचिराशअचापि रूपवत्यः स्वलङ्कृताः।
धूपपात्रं दीपपात्रं घण्टाकर्पूरपङ्कजम् ।। 5.37 ।।
पाद्याचमनयोः पात्रमर्ध्यमावाहनाह्वयम्।
नैवेद्यपात्रं पानीयभाजनं च प्रतिग्रहम् ।। 5.38 ।।
पादुकादर्पणं स्वर्णकङ्कतं घटदीपकम्।
नीराजनस्याञ्जनस्य बलिदानस्य भाजनम् ।। 5.39 ।।
व्यजनं चातपत्रं च चामरं पुष्पभाजनम्।
पिटकानि खनित्रं च करीषं काष्ठसंचयः ।। 5.40 ।।
हिवः पात्रं मेक्षणं च धमन्यो व्यजनानि च।
आज्यपात्रं चरुस्थाली प्रणीता प्रोक्षणी तथा ।। 5.41 ।।
अष्टबन्धनवस्तूनि लाङ्गलं हेमनिर्मितम्।
दक्षिणार्थं धनं पूर्णं वाद्यानि विविधान्यपि ।। 5.42 ।।
रूपवत्यश्च गणिकाः नृत्तगीतविशारदाः।
वेदवेदाङ्गनिपुणाः ब्राह्मणाः भगवन्मयाः ।। 5.43 ।।
  (b: A. गीति for गीस,)
यात्रापीठं च देवस्य यानानि विविधान्यपि।
बाहुप्रदीपाः विविधाः शुभदो मत्तवारणः ।। 5.44 ।।
सूत्राण्यपि शलाकाश्च सम्भार्या यज्ञकर्मणि।

।। इति भार्गवतन्त्रे पञ्चमोऽध्यायः ।।