सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० भार्गवतन्त्रम्
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
भार्गवतन्त्रस्य अध्यायाः


।। एकादशोऽध्यायः ।।
[महोत्सवाङ्गध्वजारोहणादिनिरूपणाध्यायः]
[महोत्सवविधिनिरूपणार्थं प्रार्थना]

अगसत्यः
कथं महोत्सवविधः कर्तव्यः परमात्मनः।
कृपया भार्गव श्रीमन् ब्रूहि मे भक्तवत्सल ।। 11.1 ।।
  (श्लोकतः पूर्वम् M. कोशे "अथ महोत्सवविधिरुच्यते" इत्यधिकः पाठः।)
  (a: A. कथं महोत्सवं ब्रह्मन्;)

[महोत्सवमाहात्म्यम् महोत्सवदिनावधिश्च]

श्रीरामः
शृणु त्वं मुनिशार्दूल देवदेवमहोत्सवम्।
येनाराध्य हरिं शक्रो विमुक्तो वृत्रहत्यया ।। 11.2 ।।
तमद्य तव वक्ष्यामि शृणुष्व विनयान्वितः।
द्वादशाहेन कुर्वीत कल्याणं शार्ङ्गधन्वनः ।। 11.3 ।।
यद्वा नवभिरहोभिः सप्तभिर्वाथ पञ्चभिः।

[ध्वजपटे करुडस्य स्वरूपं तदक्षिमोचनं च]

आरम्भदिवसात् पूर्वं वैनतेयध्वजोत्सवः ।। 11.4 ।।
  (a: A.M. oरंहोभिः for oरहोभिः;)
तदर्थमङ्कुरन्यासं कृत्वा शास्त्रविधानतः।
पटे तु विलिखेद्‌देवं वैनतेयं खगाधिपम् ।। 11.5 ।।
नवतालप्रमाणं तं तप्तकाञ्चनसन्निभम्।
द्विभुजं कञ्तुकयुतं पुष्पाञ्चलिधरं विभुम् ।। 11.6 ।।
  (a: A. प्रमाणान्तं for प्रमाणं तम्;)
किरीटकुण्डलधरं नागाभरणभूषितम्।
पृष्ठविन्यस्तसव्याङ्घ्रिमितरेणापि कुञ्चितम् ।। 11.7 ।।
पक्षविक्षेपसहितं गगनोत्पतनोन्मुखम्।
नीलनासाञ्चलं देवं नयनोन्मीलनं चरेत् ।। 11.8 ।।

[गरुडस्य कुम्भादीनां च अधिवासनम्]

शिल्पिनान्याः क्रियाः सर्वाः प्रतिष्ठोक्तविधानतः।
छायाधिवासनं कृत्वा स्नापयित्वा च दर्पणे ।। 11.9 ।।
  (d: T. दक्षिणे for दर्पणे;)
वैनतेयस्य गायत्र्या पूजयित्वा यथाविधि।
शालिपीठे सुविस्तीर्णे साययित्वा ततो गुरुः ।। 11.10 ।।
  (d: A. oथ वाससी for ततो गुरुः;)
तद्दक्षिणे धान्यराशौ सोपकुंभं सलक्षणम्।
वर्धन्या स्तापयेत्कुम्भं सर्वालङ्कारसंयुतम् ।। 11.11 ।।
वैनतेयं महाकुम्भे वर्धन्यो तु सुदर्शनम्।
अष्टष्वन्येषु चेन्द्राद्याः पूजनीया यथाविधि ।। 11.12 ।।

[गरुडाधिवासनाङ्गहोमक्रमः]

एकस्मिन्नेव कुर्वीत प्राक्कुण्डे वा महानसे।
मूर्तिहोमं बृहत्साम्ना गायत्र्या वा यथारुचि ।। 11.13 ।।
  (b: A. कुंभे for कुण्डे;)
  (c: A.M. ब्रह्म for बृहत्; A. om. साम्ना;)
तत्त्वसंहारजनने तत्त्वहोमादि पूर्ववत्।

[गरुडावाहनार्चनप्रकारः]

पटं विस्तार्य तदनु मन्दिराभिमुखं गुरुः ।। 11.14 ।।
प्रदर्श्य देवदेवाय तदन्वावाहनं चेरत्।
भगवन् पुण्डरीकाक्ष सर्व्श्वरजगन्मय ।। 11.15 ।।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते।
अस्वान्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः ।। 11.16 ।।
त्वदात्मनाद्य सर्वेषां न्यूनाधिक्योपशान्तये।
समालोकय नेत्राभ्यां सीतलाभ्यां पटस्थितम् ।। 11.17 ।।
  (a: A. त्वमात्मनोऽद्य for त्वदात्मनाद्य;)
सर्वदोषापहारिभ्यां वैनतेयं प्रसादय।
दर्शयित्वैवमाचार्यो व्याहृत्यावाहनं चरेत् ।। 11.18 ।।
  (b: A.M. प्रसीदय for प्रसादय;)
महाबल महाबाहो वैनतेय वयोधिप।
सन्निधत्स्व पटे तुभ्यं नमः प्रणवमूर्तये ।। 11.19 ।।
इति सम्प्रार्थ्य सान्निध्यं गायत्र्यैव तदीयया।
पूजयित्वार्ध्यपाद्याद्यैः निवेद्यान्नं चतुर्विधम् ।। 11.20 ।।
कुम्भाय च यथाशास्त्रं जपेन्मन्त्रं च गारुडम्।
वेदघोषैस्तूर्यघोषैर्जागरेण नयेन्निशाम् ।। 11.21 ।।

[उत्सवाङ्गध्वजारोहणविधिः]

ततः प्रभाते विमले समाराध्य खगेश्वरम्।
अलङ्कृत्य यथायोगं यानमारोप्य मङ्गलैः ।। 11.22 ।।
प्रादक्षिण्येन निनयेत् द्वजयष्टेः पुरो भुवि।
प्रासादाभिमुखं देवं विस्तार्य पटसंस्थितम् ।। 11.23 ।।
पुण्याहं वाचयेत् पश्चात् प्रोक्षयेत्कुम्भवारिभिः।
`गारुडेनै'व मन्त्रेण वर्धन्या परिषेचयेत्।। 11.24 ।।
स्वैः स्वैः मन्त्रैस्तथेन्द्रादिकुम्भप्रोक्षणमाचरेत्।
विन्यस्य `गारुडं'मन्त्रं सान्निध्यप्रार्थनं चरेत् ।। 11.25 ।।
उत्सवान्तं परमधाम्नः सन्निधत्स्व पटोदरे।
भगवन् पक्षिभूपाल पालयास्मान् विलोकय ।। 11.26 ।।
इति प्रार्थ्य खगेशानं मुहूर्ते सर्वमङ्गले।
मनःप्रह्लादने लग्ने ध्वजारोहणमाचरेत् ।। 11.27 ।।
उत्सवप्रतिमां तत्र यानमारोप्य चानयेत्।
अङ्गुष्ठघनमात्रेण पाशेन त्रिवृतेन च ।। 11.28 ।।
  (b: A. आहरेत् for आनयेत्;)
तान्तवेन च बध्नीयान्मन्त्रेण `पुरुषा'त्मना।
`सुपर्णोऽसी'ति मन्त्रेण ध्वजारोहणमुच्यते ।। 11.29 ।।
आरोप्य चैवं विहगं पूजयित्वा यथाविधि।
पायसान्नं तथाऽपूपं फलानि विविधानि च ।। 11.30 ।।
निवेद्य वैनतेयाया इन्द्रदीन् परितोऽर्चयेत्।
पूजयित्वा यथान्यायं बलिं दद्याद्विचक्षणः ।। 11.31 ।।
मखकौतुकमासाद्य प्रणम्याभ्यर्च्य देशिकः।
अनुज्ञां च समासाद्य पुष्पाण्यादाय शार्ङ्गिणः ।। 11.32 ।।
उदग्रवदनो भूत्वा समालोक्य खगेश्वरम्।
अस्माद्दिनात्समारभ्य यावत्तीर्थदिनान्तिकम् ।। 11.33 ।।
सन्निधिं कुरु पक्षीन्द्र राज्ञो जनपदस्य च।
ग्रामस्य यजमानस्य वैष्णवानां महात्मनाम् ।। 11.34 ।।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च।
अपमृत्युहरार्थाय वैनतेय प्रसीद ओम् ।। 11.35 ।।
इति पुष्पाञ्जिं सम्यक् विकिरेद्विहगोपरि।

[ध्वजारोहणाङ्गब्राह्मणसम्माननम्]

दद्याद्गोभूहिरण्यादि ब्राह्मणेभ्यस्तदा प्रभुः ।। 11.36 ।।
  (b: A. वितरेत् for विकिरेत्)
  (c: A. सुवर्ण for हिरण्य;)
  (d: M. तथा for तदा;)

[उत्सवप्रतिमापूजनक्रमः]

उत्सवप्रतिमां पश्चान्निनयेन्मण्डपान्तरम्।
पूजयेच्च यथान्यायं प्रापयेद्‌गर्भमन्दिरम् ।। 11.37 ।।

[भेरीताडनदेवाताह्वानप्रकारः]

आह्वानार्थमशेषाणां लोकानां देशिकोत्तमः।
देवानामपि सर्वेषां भेरीताडनमाचरेत् ।। 11.38 ।।
ध्वजपीठसमीपोर्वीं गोमयेन विशोधयेत्।
भूषभेद्रङ्गबल्लीभिः पीठं तत्र निवेशयेत् ।। 11.39 ।।
  (c: d: A. om.)
बलिबिम्बं समादाय तत्र न्यस्य समर्चयेत्।
पुरतस्तस्य बिम्बस्य धान्यपीठं प्रकल्पयेत् ।। 11.40 ।।
  (a: A.M. समानीय for समादाय;)
तत्र भेरीं च कोणं च विन्यस्य तदनन्तरम्।
स्नातं शुद्धाम्बरधरं सोर्ध्वपुण्ड्रं स्वलङ्कृतम् ।। 11.41 ।।
  (c: A. स्नानम् for स्नातम्;)
  (d: A. सलंकृतम् for स्वलंकृतम्;)
यज्ञोपवीतिनं पार्श्वे दक्षिणे गणिकाजनम्।
स्थापयेदिन्द्रदिग्भागे नृत्तविद्याविशारदम् ।। 11.42 ।।
गीतवादित्रकुशलान् उत्तरे स्थापयेद्‌बुधः।
पुण्याहवारिभिर्भेरीं तथा पारशवादिकान् ।। 11.43 ।।
प्रोक्षयित्वा महाभेरीं पूजयेद्भारतीमयीम्।
नवेन वाससा भेरीं वेष्टयेच्छब्दरूपिणीम् ।। 11.44 ।।
पुष्पादिभिरलङ्कुर्यात् गन्धैश्च विविधैरपि।
भेरीमध्येऽर्चयेद्देवीं त्रिगुणां भारतीमयीम् ।। 11.45 ।।
दक्षिणोत्तरयोर्विष्णुं लक्ष्मीं च परिपूजयेत्।
कोणे समर्चयेद्देवं वायुं कलशसंभव ।। 11.46 ।।
  (a: A. दक्षिणेतर for दक्षिणोत्तर)
ततो मूर्तित्रयं ध्यायन् शब्दतन्मात्रविद्यया।
कोणेन ताडयेद्भेरीं देवतानाम कीर्तयन् ।। 11.47 ।।
वैकुण्ठवासिनो ये च सत्यलोकनिवासिनः।
रुद्रलोकस्थिता ये च तथा स्वर्लोकवासिनः ।। 11.48 ।।
पातालादिषु लोकेषु ये वसन्ति महीतले।
अन्येऽपि ये च लोकेषु सर्वत्राह्वानमाचरेत् ।। 11.49 ।।
  (b: T. लोके for तले;)
ऋषीणामग्निकल्पानां देवानां दितिजन्मनाम्।
सर्वेषां च समाह्वानं परिवारपदान्वितम् ।। 11.50 ।।
  (b: A. देवतानां द्विजन्मनः;)
आयुधैः सह देवीभिः वाहनैश्च महोत्सवे।
आह्वानं कारयेद्धीमान् सेवार्थं मधुविद्विषः ।। 11.51 ।।
  (d: T. सर्वार्थम् for सेवार्थम्;)

[प्रत्याह्वानक्रमः]

प्रत्याह्वानं महाभेर्याः ताडनत्रयमाचरेत्।
तेषां नृत्तं स्वरं तालं त्रयं तत्र प्रकाशयेत् ।। 11.52 ।।

[उत्सवक्रमे देवताह्वानाङ्गबलिनिवेदनम्]

आहूय देवताः सर्वाः बलिबिम्बपुरस्सरम्।
ग्राममध्यं समासाद्य ब्रह्माणं सन्निवेशयेत् ।। 11.53 ।।
  (c: T. ग्रामबिम्बम् for ग्राममध्याम्;)
ग्रामस्य परितो वीथ्यां स्थण्डिलेषु यथाक्रमम्।
इन्द्रादिलोकपालांस्तान् बल्यर्थं सन्निवेशयेत् ।। 11.54 ।।
एवमाहूय मेधावी देवदेवस्य शार्ङ्गिणः।
उत्सवाय यतेताथ देशकालानुसारतः ।। 11.55 ।।

।। इति भार्गवतन्त्रे एकादशोऽध्यायः ।।