सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ भार्गवतन्त्रम्
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
भार्गवतन्त्रस्य अध्यायाः

।। दशमोऽध्यायः ।।
[प्रतिष्ठाक्रमे प्रतिमापीठस्थापनादिनिरूपणाध्यायः]
[गर्भगृहे भगवदानयनम् आधारशिलास्थापनञ्च]

श्रीरामः
प्रभातायां तु शर्वर्यां निर्मले भास्करोदये।
शुभे मुहूर्ते सम्प्राप्ते मञ्चादुत्थापयेद्धरिम् ।। 10.1 ।।
अर्चयेद्गन्धपुष्पाद्यैः अलङ्कुर्याद्विशेषतः।
गर्भमन्दिरमासाद्य तत्राधारशिलां क्षिपेत् ।। 10.2 ।।
आयामसमविस्तारां यद्वा वृत्तां मनोहराम्।
सुधया तां दृढीकृत्य रत्नन्यासं समाचरेत् ।। 10.3 ।।

[आधारपीठगर्ते बीजरत्नन्यासक्रमः]

यवो ब्रीहिश्च निष्पावः प्रियङ्गुतिलमाषकाः।
नीवाराः शालयश्चाष्टौ गर्ते प्रागादि विन्यसेत् ।। 10.4 ।।
प्रथमावरणे पश्चात् द्वितीयावरणे तथा।
वज्रमौक्तिकवैडूर्यवालजस्फटिकान्यपि ।। 10.5 ।।
पुष्परागं चन्द्रकान्तम् इन्द्रनीलं क्रमान्न्यसेत्।
तृतीयावरणे स्वर्णरजतायस्त्रपूणि च ।। 10.6 ।।
ताम्रसीसककांस्यानि कच्छपं स्वर्णनिर्मितम्।
क्रमेण निक्षिपेद्गर्ते मध्यगर्ते विनिक्षिपेत् ।। 10.7 ।।
शालिबीजं पारदं च नवरत्नानि काञ्चनम्।
एवं विन्यस्य मेधावी विष्णुगायत्रिविद्यया ।। 10.8 ।।
अपिधाय स्त्रीशिलया श्रीसूक्तेन यथादृढम्।
सुधया तां दृढीकृत्य पुण्याहप्रोक्षणं चरेत् ।। 10.9 ।।

[पिण्डिकायां लक्ष्म्याः आवाहनमर्चनं च]

आवाहयेत् पिण्डिकायां लक्ष्मीं कमलवासिनीम्।
अर्चयेद्गन्धपुष्पाद्यैः पिण्डिकाधिष्ठितां श्रियम् ।। 10.10 ।।

[बिम्बार्थं पीठार्थं रत्नन्यासार्थं च स्वीकार्याः शिलाः]

बिम्बं पुंशिलया कुर्यात् पीठं स्त्रीशिलया भवेत्।
रत्नन्यासस्तु कर्तव्यो नपुंसकशिलोपरि ।। 10.11 ।।

[गर्भगृहे पिण्डिकायुक्तबिम्बस्य निवेशः तत्स्थापनञ्च]

नवेन वाससाच्छाद्य पिण्डिकां यागसद्मनि।
हरिमभ्यर्च्य विधिवत् अग्नीनपि विसर्जयेत् ।। 10.12 ।।
  (c: M; विविधद for विधिवत्;)
द्वारतोरणकुम्भस्थान् पालिकाधिष्ठितानपि।
सोमकुंभस्थितं देवं विसृज्य तदनन्तरम् ।। 10.13 ।।
महाकुंभोपकुंभांश्च धारयेयुश्च मूर्तिपाः।
आचार्यः पुरतो यायात् गृहीत्वा करकं शुभम् ।। 10.14 ।।
अग्रतः सेचयेन्मार्गं गलन्त्या वारिधारया।
गर्भगेहं विमानस्य नीत्वा तत्र निवेशयेत् ।। 10.15 ।।
  (b: M. गलन्त्यो for गलन्त्या;)
आचार्यो ऋत्विजश्चान्ये देवमुत्थाप्य मङ्गलैः।
वेदैर्वाद्यैश्च विविधैर्गच्छेयुर्मन्दिरं प्रति ।। 10.16 ।।
अन्तः प्रवेशयेद्देवं पिण्डिकायां निवेशयेत्।
शुभे मुहूर्ते सम्प्राप्ते ब्रह्मसूत्रं विलोकयन् ।। 10.17 ।।
`आत्वा हार्षं प्रतिष्ठासि' `ध्रुवाद्यौ'रिति विद्यया।
आचार्यः पुरतः स्थित्वा स्थापयेत्सर्वविद्यया ।। 10.18 ।।

[पिण्डिकाप्रतिमयोः संयोजनम् अष्टबन्धकल्पनप्रकारश्च]

ब्रह्मसूत्रं गुरुर्दृष्ट्वा समतां च विलोकयेत्।
अष्टबन्धेन बध्नीयात् लाङ्गलेन दृढं यथा ।। 10.19 ।।
  (a: A. गुरुम् for गुरुः)
  (b: M. विलोकयन् for विलोकयेत्;)
सार्धमेकं चूर्णभागं भागमेकं च गुग्गुलम्।
अर्धभागां तथा लाक्षां कुरुविन्दं तदर्धकम् ।। 10.20 ।।
मधूच्छिष्टं तदर्धं तु तूलं सर्पिश्च गैरिकम्।
यथेष्टं योजयेद्धीमान् यथामृदु भवेत्तथा ।। 10.21 ।।
  (b: M. तैलम् for तूलम्;)

[मूलबिम्बे परिवारदेवताबिम्बेषु च भगवतः आवाहनम्]

पुण्याहं वाचयेत् पश्चात् प्रोक्षयेदपि पिण्डिकाम्।
बिम्बं च वासुदेवस्य पश्चादावाहनं चरेत् ।। 10.22 ।।
  (b: A. पण्डिकान् for पिण्डिकाम्)
ध्यायेत्परात्परं विष्णुं हृत्पद्मे कर्णिकोपरि।
आवाहयेत्ततो बिम्बे योगपीठपुरस्सरम् ।। 10.23 ।।
आवाह्य मूलमन्त्रेण वर्धनीस्थेन वारिणा।
परिषिच्य षडर्णेन प्रोक्षयेत्कुंभवारिभिः ।। 10.24 ।।
ऋत्विक्षु शान्तिमन्त्राणि पठत्सु ब्राह्मणेष्वपि।
घोषयत्सु ब्रह्मघोषं तौर्यनृत्तादिमङ्गलैः ।। 10.25 ।।
  (c: M. घोषयेत्स for घोषयत्सु)
द्वादशाक्षरमन्त्रेण ब्रह्मकूर्चोदकोक्षणम्।
उपकुंभाष्टकजलैस्तथा वै स्व स्व विद्यया ।। 10.26 ।।
तत्तत्कुंभगतां शक्तिं तत्तन्मन्त्रेण योजयेत्।
कुंभतोयावशेषेण परिवारान् प्रकल्पयेत् ।। 10.27 ।।
  (a: T. बिम्ब for कुंभ;)
अष्टाक्षरस्य मन्त्रस्य न्यासं बिम्बे समर्पयेत्।
सान्निध्यं सर्वदा तत्र प्रार्थयेद्देशिकोत्तमः ।। 10.28 ।।
एवमावाह्य देवेशं प्रोक्ष्य शक्तिं निवेश्य च।
परिवारान् यथास्थानम् स्थापयित्वा यथाविधि।। 10.29 ।।
आवाहनप्रोक्षणादि सर्वं कर्म समाप्य च।
अभ्यर्च्य देवदेवेशमुपचारैः पृथग्विधैः ।। 10.30 ।।
महाहविर्निवेद्याथ स्थापितेषु यथाक्रमम्।
बलिं दद्यात् यथाशास्त्रमेकबेरे त्वयं विधिः ।। 10.31 ।।

[बहुबेरप्रतिष्ठाविधौ ध्रुवादिबिम्बानां स्थाननिर्देशः]

बहुबेरप्रतिष्ठायां विशेषोऽस्त्यत्र कश्चन।
दिव्यमानुषयोः सन्धौ ध्रुवबिम्बनिवेशनम् ।। 10.32 ।।
  (b: T. om. अस्ति;)
ब्राह्मे पदेऽर्चनापीठं कर्मार्चा मध्यमे पदे।
तत्रैव मखबिम्बं च सौम्ये स्नपनकौतुकम् ।। 10.33 ।।
  (d: A. कौतुके for कौतुकम्;)
तीर्थबिम्बं च याम्ये तु शय्यार्थबलिकौतुके।
लौकिकं बिम्बमन्यच्च बाह्यभूमौ निवेशयेत् ।। 10.34 ।।
  (a: A. याम्येषु for याम्ये तु;)

[प्रतिष्ठाङ्गभूतकर्मसम्पादनस्थाननिर्देशः]

सुमुहूर्ते शुभे लग्ने स्थापयेद्ध्रुवकौतुकम्।
तत्त्वसंहारजनने तत्त्वन्यासादि कर्म च ।। 10.35 ।।
शान्त्यन्तमखिलं कर्म गर्भगेहे समाचरेत।
अन्येषामङ्गबिम्बानां सर्वं तद्यागमन्दिरे ।। 10.36 ।।

[प्रतिष्ठाक्रमे कुम्भन्यासविधिः]

प्रतिष्ठासमये प्राप्ते कुम्भानुत्थाप्य देशिकः।
पश्चात्तदङ्गबिम्बैश्च प्रादक्षिण्येन मन्दिरम् ।। 10.37 ।।
अन्तःप्रविश्य विन्यस्य कुम्भानपि यथाविधि।

[मूलबिम्बे शक्तिनिवेशप्रकारः]

आवाहयेन्मूलबेरे परमात्मानमव्ययम् ।। 10.38 ।।
पञ्चोपनिषदैर्मन्त्रैः तत्प्रकारमितः श्रृणु।
सदाविष्णुं महाविष्णौ तं विष्णौ विनिवेशयेत् ।। 10.39 ।।
  (b: A.M. इह for इतः;)
हृत्पुण्डरीके तं विष्णुं तं च स्वाञ्जलिपङ्कजे।
ध्रुवबिम्बब्रह्मरन्ध्रात् बिम्बे तं विनिवेशयेत् ।। 10.40 ।।
  (d: A. विनियोजयेत् for विनिवेशयेत्;)
परिषिञ्चेत्ततो बिम्बं वर्धनीस्थेन वारिणा।
महाकुम्भप्रोक्षणं च `द्वादशाक्षर'विद्यया ।। 10.41 ।।
उपकुम्भाम्बुभिः पश्चात् प्रोक्षयेत्स्वस्वविद्यया।
शक्तीस्तत्तत्कुम्भगताः मूलबेरे निवेशयेत् ।। 10.42 ।।
अपिधाय ब्रह्मरन्ध्रं प्रणवेन समाधिना।
मन्त्रन्यासं ततः कुर्यात् सर्गसृष्ट्यादिकर्मवित् ।। 10.43 ।।
  (d: A. सर्वसृष्ट्यादितन्त्रवित्; M. तत्त्व for कर्म;)

[कर्मबिम्बादिषु शक्त्यावाहनक्रमः]

सर्वेषां कर्मबिम्बानां मूलादावाहनं मतम्।
कुम्भतोयावशेषेण प्रोक्षणं परिकल्पयेत् ।। 10.44 ।।
ब्रह्मादिपरिवाराणामन्येषां प्राङ्गणे सताम्।
चण्डादीनां श्रियादीनां बलिपीठावसानिकम्।। 10.45 ।।
महाकुम्भं समाहृत्य देशिको ब्राह्मणैः सह।
स्वस्वमन्त्रेण सम्प्रोक्ष्य कर्मजालं समापयेत् ।। 10.46 ।।
अर्चयेद्देवदेवेशं नैवेद्यान्तं यथापुरम्।

[गुर्वादिभ्यो दक्षिणादानादिनिर्देशः]

पूजयेद्यजमानोऽपि प्रतिष्ठासमये गुरुम् ।। 10.47 ।।
सौवर्णकुसुमैर्वस्त्रैः केयूरैरङ्गुलीयकैः।
कुण्डलैः कटकैर्यज्ञसूत्रैश्च सुमनोहरैः ।। 10.48 ।।
पट्टवस्त्रैर्दुकूलैश्च सस्वर्णैरुत्तरीयकैः।
उष्णीषैर्गन्धपुष्पैश्च भूषयेद्विविधैरपि ।। 10.49 ।।
घटोध्नीर्गास्सवस्साश्च धरणीं सस्यशालिनीम्।
स्वर्णनिष्कसहस्रं च दद्यात्तस्मै स्वयं प्रभुः ।। 10.50 ।।
  (d: A. प्रभुः स्वयम् for स्वयं प्रभुः;)
अशक्तश्चेत्त्त्रिपादं वा दलं वा पादमेव वा।
यद्वा निष्कशतं दद्यात् गुरवे दक्षिणां प्रभुः ।। 10.51 ।।
तदर्धम् ऋत्विजां दद्यात् तदर्धं परिचारिणाम्।
प्रतिष्ठायां तु देवस्य भोजयेद्‌ब्राह्मणान् बहून् ।। 10.52 ।।
  (a: M. अर्थम् for अर्धम्;)
  (b: M. अर्थम् for अर्धम्;)
लक्षं वाप्ययुतं वापि सहस्रं वा यथाबलम्।
सर्वाशक्तः शतं विप्रान् भोजयेद्यज्ञसिद्धये ।। 10.53 ।।
भोजयित्वा द्विजान् नित्यं प्रतिष्ठादिवसे प्रभुः।
दक्षिणां वितरेभ्यो ताम्बूलपरिमण्डिताम् ।। 10.54 ।।
त्रयीविद्भ्यः शास्त्रविद्भ्यः स्तोतृभ्यश्च विशेषतः।
इतरेभ्यो द्विजेभ्यश्च देयैव द्विजदक्षिणा ।। 10.55 ।।

[दक्षिणारहितयागस्य फलराहित्यकथनम्]

दक्षिणारहितो यज्ञः प्रभवे न फलप्रदः।
तस्माद्‌द्विजेभ्यः सर्वेभ्यः वितरेद्दक्षिणां प्रभुः ।। 10.56 ।।

[प्रतिष्ठाकर्मणः समाप्तौ देशिकस्य गृहानयनम्]

एवं संस्थाप्य देवेशं सर्वमङ्गलसंयुतम्।
ऋत्विग्भिः सह सन्तुष्टं भोजनेन धनेन च ।। 10.57 ।।
गीतवादित्रधोषेण छत्रचामरबीजनैः।
स्वस्तिब्रूवाणैर्विप्रैश्च देशिकं निनयेद्‌गृहम् ।। 10.58 ।।

[प्रतिष्ठासम्पादकस्य सहायकानां च कृते फलकीर्तनम्]

एवं यः स्थापयेद्देवं यजमानो महीतले।
तस्य वंशर्द्धिरतुला धनेन धनदोपमः ।। 10.59 ।।
  (b: M. तर्ह्येवं रार्धिरतुला;)
विद्यावान् बलवान् धीमान् भूयाच्चापि महीपतिः।
विनश्यन्ति च विघ्नानि पापाः यान्ति क्षयं ध्रुवम् ।। 10.60 ।।
अतुला श्रीश्च तस्य स्यात् दीर्घायुश्च भविष्यति।
अमरैः स्तूयते नित्यं पुण्यकृद्भिश्च पूज्यते ।। 10.61 ।।
उपकुर्वन्ति ये मर्त्याः तेषां पुण्यं न तर्क्यते।
बहुना किं देवलोके वसन्ति दिवि देववत् ।। 10.62 ।।
पठतां च त्रयीं शास्त्रं वासो भूयात्त्त्रिविष्टपे।
वाद्यवादनशक्तानां गीतनृत्तादि कुर्वताम् ।। 10.63 ।।
गन्धर्वलोके वसतिरन्नपानादिदायिनाम्।
न पुनर्जननं तेषां यानछत्रादिधारिणाम् ।। 10.64 ।।
यानाधिकारिणो देवाः देवलोके न संशयः।
आचार्याणामृत्विजां च तथैव परिचारिणाम् ।। 10.65 ।।
  (a: M. यानादिधारि for यानाधिकारि)
कर्मिणां न पनर्जन्म स्थापितो यैर्जनार्दनः।
कामनारहितं कर्म कारितं यैस्तु मानवैः ।। 10.66 ।।
  (a: M. कर्म for कर्मि;)
  (b: M. स्थापितैर्यो जनार्दनः;)
तेषां त्रिविष्टपे वासः पुनरावृत्तिवर्जितः।

[यागदर्शनस्य माहात्म्यम्]

केवलं दर्शनं विष्णोः सर्वकामफलप्रदम् ।। 10.67 ।।
किं पुनः फलमिच्छद्भिः यागकाले विशेषतः।

[प्रतिष्ठान्ते भगवतः स्नपनस्य महोत्सवस्य च निर्देशः]

एवं संस्थाप्य मेधावी वासुदेवं सनातनम् ।। 10.68 ।।
स्नापयित्वा प्रतिष्ठान्ते ध्वजपूर्वं महोत्सवम्।
कुर्यात्तत्प्रीतये भूयाच्छार्ङ्गिणः परमात्मनः ।। 10.69 ।।

।। इति भार्गवतन्त्रे दशमोऽध्यायः ।।