भार्गवतन्त्रम्/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ भार्गवतन्त्रम्
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
भार्गवतन्त्रस्य अध्यायाः

।। विंशोऽध्यायः ।।
[स्नपनविधिनिरूपणाध्यायः]
[स्नपनभेदनिर्देशः]

श्रीरामः
स्नपनं देवदेवस्य बहुधा परिकीर्त्यते।
तत्र ब्राह्मं विशेषं स्यात् सर्वकर्मसु योजयेत् ।। 20.1 ।।
अथवा वैष्णंव स्नानं यद्वा पुण्यं समाचरेत्।
श्रेष्ठमध्यकनिष्ठानि त्रिविधानि महामुने ।। 20.2 ।।
 (a: A. स्थानम् for स्नानम्;)

[ब्राह्मादिस्नपनलक्षणम्]

ब्राह्मं तु पञ्चविंशद्भिरष्टोनैर्मध्यमं भवेत्।
एतत्तु वैष्णवं प्रोक्तं पुण्यं तु नवभिर्घटैः ।। 20.3 ।।
 (b: M. अष्टोन्यैः for अष्टोनैः;)

[स्नपनपीठकल्पनप्रकारः]

स्नानमण्डपभूमध्ये कल्पयेद्वेदिकां गुरुः।
पञ्चहस्तसमायामविस्तारां लोचनप्रियाम् ।। 20.4 ।।
प्रागग्राण्युदगग्राणि चतुर्दश निपातयेत्।
चन्दनार्द्राणि सूत्राणि कोष्ठान्येकोनसप्ततिः ।। 20.5 ।।
 (b: M. निपादयेत् for निपातयेत्;)
तत्र ब्राह्मं च दैवं च मानुषं च पदत्रयम्।
एकान्तरान्तरं तेषु वीथ्यर्थं परिमार्जयेत् ।। 20.6 ।।
ब्राह्मे तु वीथिकां हित्वा नवैव कलशास्पदम्।
दैवे तु कलशाः स्थाप्या अष्टौ दिक्षु विदिक्षु च ।। 20.7 ।।
शिष्टानि परिमार्ज्यानि मानुषेऽष्टौ तथा भवेत्।
परिमार्ज्यानि शिष्टानि धान्यैः पीठं प्रकल्पयेत् ।। 20.8 ।।
 (b: M. षौ for oष्टौ;)
  (d: M. परि for प्रo;)

[ब्राह्मे पदे स्थापनीयानि स्नपनद्रव्याणि]

घृतमुष्णोदकं रंत्नं फलं लोहं यथाक्रमम्।
स्नानगन्धाक्षतयवं ब्राह्मेऽष्टौ मध्यतः क्रमात् ।। 20.9 ।।
 (d: A.M. ब्रह्म for ब्राह्म;)

[दैवपदे स्थाप्यानि स्नपनद्रव्याणि]

दिव्ये पदाष्टके स्थाप्यं पाद्यं दधि ततः परम्।
अर्घ्यं पाद्यं च पानीयं ततो मधुघटं न्यसेत् ।। 20.10 ।।
 (c: A.T. पयः for पाद्यम्;)

[मानुषे पदे स्थाप्यानि स्नपनद्रव्याणि]

मानुषे विन्यसेत् प्राच्यां गन्धोदकघटं गुरुः ।। 20.11 ।।
दक्षिणस्यामिक्षुरसं नारिकेलाम्बु वारुणे।
शान्तितोयमुदीचीने ज्वलने मङ्गलोदकम् ।। 20.12 ।।
 (b: M. वारिणे for वारुणे;)
सर्वौषधिरसं कुंभं यातुधाने निवेशयेत्।
सर्वगन्धोदकं वायौ रौद्रे मूलौषधिं न्यसेत् ।। 20.13 ।।
 (b: T. निवेदयेत् for oनिवेशयेत्;)

[रत्नोदकद्रव्यपरिगणनम्]

माणिक्यं पद्मरागं च नीलं वज्रं च पुष्यकम्।
प्रवालं मौक्तिकं चैव तथा मरकतं क्षिपेत् ।। 20.14 ।।
 (c: A. मलक for मौक्तिक;)
वैडूर्यं नव रत्नानि न्यसेद्रत्नोदके घटे।

[फलोदकद्रव्यपरिगणनम्]

कदलीबीजपूराम्रधात्रीबिल्वफलैस्सह ।। 20.15 ।।
नालिकेरं च पनसं मातुलुङ्गफलोदके।

[लोहोदकद्रव्याणि]

सुवर्णं रजतं ताम्रं सीसकं त्रपुकं तथा ।। 20.16 ।।
 (b: A.M. मातुलङ्गं for मातुलुङ्गम्;)
कांस्यमायससारं च सप्त लोहघटोदके।
प्रत्येकं निष्कमानानि विन्यसेत्कल्पतन्त्रवित् ।। 20.17 ।।

[मार्जनद्रयाणि]

स्नानकुंभे न्यसेद्धीमान् रजनीसूर्यवर्तिनीम्।
सहदेवीं शिरीषं च सदाभद्रं कुशाञ्चलम् ।। 20.18 ।।
मार्जनानि षडेतानि मुष्टिमात्राणि वै पृथक्।

[गन्धोदकद्रव्याणि]

चन्दनागरुकुष्ठानि मुरामांसी च कुङ्कुमम् ।। 20.19 ।।
 (c: M. काष्ठ for कुष्ठ;)
ह्रबेरमप्युशीरं च गिरिजं च तथा नव।
गन्धवस्तूनि तत्कुंभे विन्यसेत्पलमात्रतः ।। 20.20 ।।
 (a: A. श्री for ह्री;)
  (d: A.M. फल for पल;)

[षडक्षतद्रव्याणि]

नीवाराः वैणवाश्शाल्यः प्रियङ्गुष्षाष्टिकास्तथा।
गोधूमाः तण्डुलाश्चैते मुष्टिमात्राः षडक्षताः ।। 20.21 ।।
 (b: M. अष्टाष्टिका T. ग्वष्वाष्टिका for ष्षाष्टिका;)
  (c: M.T. गोधूम for गोधूमाः;)

[यवाम्बुद्रव्याणि]

यावश्च व्रीहयश्चापि वेणवश्च इमे त्रयः।
पृथक् कुडवमात्रेण यवाम्बु कलशे न्यसेत् ।। 20.22 ।।
 (c: M. कटुक for कुडव;)

[पाद्यद्रव्याणि]

तुलसीपद्मदूर्वाञ्च श्यामाकं चाक्षतं तथा।
विष्णुक्रान्तं बिल्वपत्रं मुष्टिमात्रं पृथक् पृथक्।। 20.23 ।।
पलमेकं चन्दनं च पाद्येऽष्टौ विनिवेशयेत्।

[अर्ध्यद्रव्याणि]

कुशाग्राक्षतसिद्धार्थतिलपुष्पफलानि च ।। 20.24 ।।
 (d: A. पल for फल;)
यवाः पृथङ्मुष्टिमात्राः पलमात्रं च चन्दनम्।
अष्टौ द्रव्याण्यर्ध्यकुंभे विन्यसेत् फलितं फलम् ।। 20.25 ।।
 (a: M. मात्रम् for मात्राः;)

[आचामभाजने निक्षेप्यद्रव्याणि]

एलालवङ्गतक्कोलजातिकर्पूरचम्पकाः।
चन्दनं कुसुमान्येवमष्टौ आचामभाजने ।। 20.26 ।।
पलार्धपरिमाणानि प्रत्येकं तत्र निक्षिपेत्।

[पञ्चगव्यद्रव्याणि]

गोमूत्रं गोमयं क्षीरं दधिसर्पिरिमानि वै ।। 20.27 ।।
चतुष्पलानि प्रत्येकं पञ्चगव्यघटे क्षिपेत्।

[कषायोदकद्रव्याणि]

कषायाम्बुघटे द्रव्याण्येतानि विनिवेशयेत् ।। 20.28 ।।
शमीपलाशकखदिरबिल्वाश्वत्थविकङ्कताः।
औदुम्बरश्च न्यग्रोधस्तेषामष्टौ त्वचः स्मृताः ।। 20.29 ।।

[शान्तिकुंभद्रव्याणि मङ्गलोदकद्रव्याणि]

तुलसीवेणुनीवारयवाश्च श्वेतसर्षपाः।
तिलाश्च षट् शान्तिकुंभे द्रव्याणि परिकल्पयेत् ।। 20.30 ।।
प्रत्येकं मुष्टिमात्राणि चूर्णिताश्च त्वचस्तथा।
इन्द्रवल्यङ्कुराश्वत्थपल्लवं च कुशेशयम् ।। 20.31 ।।
 (d: T. वल्लबम् for पल्लवम्;)
एकपत्राम्बुजं कुष्ठं कुंकुमं रोहिणीद्रुमम्।
पुण्यास्सुमनसश्चाष्टौ यूथिका मल्लिका अपि ।। 20.32 ।।
त्रीण्युत्पलानि जातिश्च चम्पकं केतकी तथा।
द्रव्याणि पञ्चदश च न्यसेत् मङ्गलपाथसि ।। 20.33 ।।

[सर्वौषधिजलद्रव्याणि]

मांसी कुष्ठं हरिद्रे द्वे मुरा शैलेयचम्पके।
मुस्ता वचा च कर्पूरं प्रत्येकं पलमात्रकम् ।। 20.34 ।।
विष्ट्वा सर्वौषधिजले दशैतानि विनिक्षिपेत्।

[सर्वगन्धोदकद्रव्याणि]

कर्पूरं कुंकुमं कुष्ठं मांसी मलयजं मुरा ।। 20.35 ।।
 (c: A. कोष्ठम् for कुष्ठम्;)
प्रियङ्गुकेसरं मुस्ता तमालं नागकेसरम्।
मूलद्वयं च कच्चोरं सुरसर्पिककेसरम् ।। 20.36 ।।
उशीरं तगरं लोध्रं तथैव हरिचन्दनम्।
अगरूद्वासितं कुष्ठं कालेयं ग्रन्थिपल्लवम् ।। 20.37 ।।
 (c: A. अगरू द्वौ सितं कोष्ठम्;)
  (M. काष्टं for कुष्ठम्;)
मुकुलं चम्पकस्येति प्रत्येकं पलसम्मितम्।
चूर्णीकृत्य न्यसेत्तत्र सर्वगन्धोदके घटे ।। 20.38 ।।

[मूलौषधिद्रव्याणि]

व्याघ्री सिंही बलाकाग्नी शरपुंखा शतावरी।
बिल्वमूलं वचा शुण्ठी कोरण्डं शतमूलिका ।। 20.39 ।।
 (a: A. व्याघ्री सिंहा बलाचाग्नि;)
प्रत्येकं पलमानाः स्युः पिष्ट्वा कुंभे विनिक्षिपेत्।
मूलौषध्यः इमाः प्रोक्ताः देवस्नपनकर्मणि ।। 20.40 ।।
 (d: T. स्तवन for स्नपन;)

[मकरन्दादिस्नपनद्रव्यपरिमाणम्]

मकरन्ददधिक्षीरपञ्चगव्यघृतान्यपि।
प्रत्येकं द्रोणमानीय यद्वा शिवमथाढकम् ।। 20.41 ।।
द्रव्यकुंभानि सर्वाणि तत्प्रमाणानि कल्पयेत्।

[चूर्णकुंभद्रव्याणि]

चूर्णकुंभं निशाचूर्णैः कण्ठदध्नैः प्रपूरयेत् ।। 20.42 ।।

[मृत्तिकोदकद्रव्याणि]

पुण्यक्षेत्रे नदीतीरे पर्वते पुलिने ह्रदे।
निर्झरे सङ्गमेऽशोष्ये वेदिकोर्वरयोस्तथा ।। 20.43 ।।
शालिक्षेत्रे देवखाते वृषशृङ्गे च हस्तिनः।
वराहधृष्टे वल्मीके कुलीरावसथे तथा ।। 20.44 ।।
 (a: A. देवघाते,M. देवघाते वा for देवखाते;)
नलिन्यां दीर्घिकायां च स्थिताश्चैकोनविंशतिः।
पृथक् च मुष्टिमात्राभिः पूरयेन्मृत्तिकोदकम् ।। 20.45 ।।

[प्रतिसरबन्धः शयनक्रमश्च]

अङ्कुराण्यर्पयेत्पूर्वं कुर्यात्प्रतिसरं करे।
एकबेरे मूलबेरे बाहुल्ये स्नानकौतुके ।। 20.46 ।।
शय्यायां शाययेद्‌बिम्बं स्नानीयमितरद्यदि।
कूर्चद्वारेण शयनं प्रातरुत्थाप्य देशिकः ।। 20.47 ।।
 (b: M. शानीयमितरद्यपि T. इतराणि for इतरद्यo;)

[स्नानमण्डपे स्नपनबिम्बस्थापनं कलशस्थापनादिकं च]

द्वारतोरणकुंभादीन् समभ्यर्च्य यथापुरम्।
द्वारेष्वध्ययनं नृत्तं गीतं वाद्यं प्रवर्तयेत् ।। 20.48 ।।
स्नपनप्रतिमां पश्चात् स्थापयेत्स्नानमण्डपे।
पुण्याहं वाचयेत्पश्चात् प्रोक्षयेत्कलशानपि ।। 20.49 ।।
स्नानीयान्यपि वस्तूनि कलशस्थापनं चरेत्।
`इन्द्रं नत्वे'ति मन्त्रेण तन्तुभिर्वेष्टनं भवेत् ।। 20.50 ।।
 (c: A. वत्त्वा for नत्वा;)
तत्तत्स्थानेषु कलशान् स्थापये'न्मूलविद्यया'।
`सर्वमन्त्रेण' कुंभेषु द्रव्यैरम्बुप्रपूरणम् ।। 20.51 ।।
कूर्चेन पल्लवन्यासो यथानेत्रमनोहरः।
`अस्त्रमन्त्रेण' तान् कुंभान् शरावैरपिधापयेत् ।। 20.52 ।।
नारिकेलफलैः तेषामलङ्कारः शुभोदयः।
वासोभिर्वेष्टयेत्कुम्भान् मण्डयेच्चन्दनाक्षतैः ।। 20.53 ।।
 (a: A.M. नालिकेर for नारिकेल;)

[स्नपनकलशेषु तत्तद्देवानामावहनादिक्रमः]

वेदतुर्यादिघोषैश्च घोषिते च दिगन्तरे।
देवतावाहनं कुर्यात् कलशेषु गुरूत्तमः ।। 20.54 ।।
घृतकुंभे वासुदेवः पुरुषश्चोष्णवारिणि।
फलतोये तु सत्यः स्यात् स्नानेऽच्युत उदाहृतः ।। 20.55 ।।
 (c: M. सत्यम् for सत्यः;)
अनन्त अक्षते कुंभे केशवो मणिवारिणि।
लोहे नारायणो देवो माधवो गन्धवारिणि ।। 20.56 ।।
यवोदके तु गोविन्दः पाद्ये विष्णुः प्रकीर्तितः।
मधुहन्ताऽर्ध्यकलशे आचामे तु त्रिविक्रमः ।। 20.57 ।।
वामनः पञ्चगव्ये च श्रीधरो दधिभाजने।
दुग्धकुंभे हृषीकेशः पद्मनाभो मधुन्यपि ।। 20.58 ।।
दामोदरः कषायाम्भस्येवं कृत्वाथ मानुषे।
गुडकुम्भे वराहस्स्यान्नृसिंहश्चैक्षवोदके ।। 20.59 ।।
 (c: T. नृसिंह for वराह;)
श्रीधरो नालिकेरोदे हयास्यः शान्तिवारिणि।
वासुदेवो मङ्गलोदे सर्वौषध्यां सङ्कर्षणः ।। 20.60 ।।
प्रद्युम्नः सर्वगन्धाप्सु मूलौषध्यामनिरुद्धः।
एवं ब्राह्मे तु कुंभानां देवताः परिकीर्तिताः ।। 20.61 ।।
चूर्णकुभे भवेल्लक्ष्मीः मृत्तिकाकलशे मही।
एवमावाहयेद्धीमान् योगपीठपुरस्सरम् ।। 20.62 ।।
तत्तन्नामचतुर्थ्यैव नमः प्रणवयुक्तया।
अष्टावरं समुच्चार्य तत आवाहनं चरेत्।। 20.63 ।।
 (c: A.M. अष्टौ for अष्टo;)
अर्घ्यादि प्रणवान्तं तं समभ्यर्च्य यथाविधि।

[अग्निहोममन्त्राणां निर्देशः]

अग्निं संस्कृत्य विधिवत् तत्राराध्य श्रियः पतिम् ।। 20.64 ।।
 (a: M. प्रापण for प्रणव;)
`मधुवाता' `मधुनक्तं' `मधुमान्नो' `वनस्पति'।
`वेदाहं' `विष्णोर्नुकं' च `ओषधयः संवदन्ते' ।। 20.65 ।।
नारायणानुवाकश्च तथा `या ओषधीरिति'।
विष्णुगायत्रिया चापि `तद्विष्णोरि'त्यनन्तरम् ।। 20.66 ।।
`न ते विष्णुरि'ति श्रुत्या `विष्णोः कर्मेति' मन्त्रतः।
`दधिक्राव्णेति'यजुषा `आप्यायस्वेति' वै ऋचा ।। 20.67 ।।
`मधुवाता' `ओषधयस्त्वं' `विष्णुर्या फलिनी'रिति।
`शन्नोदेवीश्च' सावित्री त्रातारमिति देशिकः ।। 20.68 ।।
 (b: A.M. फलीरिति for फलिनीरिति;)
महाव्याहृतिभिः पश्चात् `गन्धद्वाराम'नन्तरम्।
शतधारं वसूनां च ततो घृतं मिमिक्षिरे ।। 20.69 ।।
सर्पिषा जुहुयादेतैर्मन्त्रैः सम्पातमाहरेत्।
सेचयेच्चापि कुंभेषु देवमग्नेर्विसर्जयेत् ।। 20.70 ।।

[ब्राह्मस्नपनविधिनिर्देशः]

ऋत्विग्भिः सहितः कुंभान् शान्तिमन्त्रैश्च पञ्चभिः।
अभिमन्त्र्यास्त्रमन्त्रेण वस्त्रेणाच्छाद्य देशिकः ।। 20.71 ।।
दन्तकाष्ठं गन्धतैलं दद्यादामलकं ततः।
गण्डूषाचमने च द्वे देवायार्ध्यादि दापयेत् ।। 20.72 ।।
पौरुषेणैव सूक्तेन कलशैः स्नापयेद्धरिम्।
वस्त्रयज्ञोपवीतादि नैवेद्यान्तं समर्चयेत् ।। 20.73 ।।
 (b: M. स्थापयेत् for स्नापयेत्;)
पूर्वं कूर्चेन सम्प्रोक्ष्य पश्चात्कुंभाभिषेचनम्।
एतद्‌ब्राह्मं भवेत् स्नानम्

[वैष्णव-स्नपनविधिनिर्देशः]
वैष्णवं शृणु वक्ष्यते ।। 20.74 ।।
ब्राह्मे दैवे च तान्कुंभान् संस्थाप्यावाह्य पूर्ववत्।
वैष्णवेनैव सूक्तेन जुहुयात् षोडशाहुतीः ।। 20.75 ।।
अन्ते च विष्णुगायत्र्या हुत्वा सम्पातसेचनम्।
अन्यत् सर्वं यथापूर्वं न विशेषोऽस्ति कश्चन ।। 20.76 ।।

[पुण्यस्नपनविधिनिर्देशः]

अथ पुण्यं प्रवक्ष्यामि स्नपनं शार्ङ्गधन्वनः।
दिव्यं च मानुषं त्यक्त्वा ब्राह्मे नवघटास्पदम् ।। 20.77 ।।
घृतं ब्राह्मे न्यसेत् कुंभं प्राच्यां पाद्यघटं न्यसेत्।
अर्घ्यकुंभं पदे याम्ये आचामाम्बु च वारुणे ।। 20.78 ।।
पञ्चगव्यमुदीचीने आग्नेये दधिभाजनम्।
नैर्ऋते तु पयः कुंभं मारुते मधुभाजनम् ।। 20.79 ।।
कषायमीशकोणे च द्रव्यदेवाश्च पूर्ववत्।
अद्भयः सम्भूत इति च वेदाहं च प्रजापिः ।। 20.80 ।।
 (b: M. वेदा for देवा;)
यो देवेभ्यः ऋचं ब्राह्मं यद्वाग्देवीं ततः परम्।
....................चत्वारि श्रद्धयेति च ।। 20.81 ।।
 (c: om. A.T.M;)
नवभिर्जुहुयादग्नौ संपाताज्येन सेचयेत्।
अन्यत्सवं यथापूर्वं कथितं कलशोद्भव ।। 20.82 ।।

[हरिद्रामृत्तिकास्नपनमन्त्रनिर्देशः]

`श्री सूक्तेन' भवेद्धोमो हरिद्रास्नानकर्मणि।
हवनं `भूमिसूक्तेन' मृत्तिकास्नपने सति ।। 20.83 ।।

[महास्नपनभेदाः]

वासुदेवं पारमेष्ठ्यं प्राजापत्यमिति त्रिधा।
महास्नपनमेतत्तु प्रायश्चित्तेषु कर्मसु ।। 20.84 ।।

[वासुदेवस्नपनविधिः]

ब्राह्माणां द्रव्यकुंभानामष्टावष्टौ समन्ततः।
शुद्धोदकुंभाः संस्थाप्याः तेषां संख्या शतद्वयम् ।। 20.85 ।।
द्रव्यकुंभार्चनं पूर्वं कथितं कलशोद्भव।
सर्वशुद्धोदकुंभानां देवो नारायणः स्मृतः ।। 20.86 ।।
शुद्धोदकेषु सर्वेषु मौक्तिकं राजतं तु वा।
विन्यसेद्धोममन्त्रस्तु पूर्वमेवोदितं मुने ।। 20.87 ।।
तैर्हुत्वा सर्पिषा पश्चात् द्वादशाक्षरविद्यया।
सहस्रमष्टसहितं हुत्वा सम्पात होमयेत् ।। 20.88 ।।
 (d: A. सम्पातमाहरेत् for सम्पात होमयेत्;)
अन्यत् सर्वं यथापूर्वं कारयेत्कर्मकोविदः।
एतत्तु वासुदेवाख्यं स्नपनं सर्वकामदम् ।। 20.89 ।।
 (d: M.T. कर्म for सर्वo)

[पारमेष्ठ्यस्नपनविधिः]

पारमेष्ठ्यमथो वक्ष्ये यथावदवधारय।
वैष्णवानां तु कुंभानां परितोऽष्टौ पृथक् पृथक् ।। 20.90 ।।
(d: T. ष्टौऽष्टौ for ऽष्टौ;)
एतेषामुदकुंभानां षट्‌त्रिंशत् सहिताः शतम्।
पूर्ववत् सकलं कृत्वा वैष्णवोक्तविधानतः ।। 20.91 ।।
 (a; A. एके for एतेo;)
नारायणार्चनं कुर्यात् मूलेनैव घटाम्बुषु।
वैष्णवेनैव सूक्तेन गायत्र्यन्तं यथापुरम् ।। 20.92 ।।
 (b: M.T. मूलेनोप for मूलेनैव;)
हुत्वा मूलेन मनुना होमश्चाष्टसहस्रकम्।
अन्यत् सर्वं यथापूर्वम् प्राजापत्यमथ शृणु ।। 20.93 ।।
 (b: T. अष्टौ for अष्ट;)

[प्राजापत्यस्नपनविधिः]

पुण्यस्नपनवत् कार्यम् अष्टावष्टौ समन्ततः।
तेषां तथाकृतेऽम्बूनां द्विसप्तति घटास्तथा ।। 20.94 ।।
 (c: T. कृतो for कृते;)
वैष्णवेन षडर्णेन विष्णोरावाहनं भवेत्।
विशेषयजनं तेन अष्टोत्तरसहस्रकम् ।। 20.95 ।।
अभिषिच्य द्रव्यकुंभैः तैस्तैस्तेषामुपोदकैः।
स्नापयित्वा मण्डयित्वा समभ्यर्च्य यथाविधि ।। 20.96 ।।
प्रणम्य च परिक्रम्य स्तुत्वा स्तोत्रैरनेकधा।
मन्दिराभ्यन्तरं पश्चात् गमयेत्स्नानकौतुकम् ।। 20.97 ।।
एकबेरविधानं चेत् स्नपनं मूलकौतुके।

[कौबेरस्नपनविधिः]

कौबेरं स्नपनं वक्ष्ये शृणुष्व कलशोद्भव ।। 20.98 ।।
 (d: T. कमलोद्भव for कलशोद्भव;)
घृतं मध्ये दध्यनले पीयूषं नैर्ऋते पदे।
मकरन्दं गनधवदे शर्करा शाङ्करे पदे ।। 20.99 ।।
 (a: T. मध्य for दध्य;)
नृसिंहः शर्करादेवः इतरेषां यथापुरम्।
`ब्रह्मजज्ञानमि'ति च `अयाश्चाग्नेति' विद्यया ।। 20.100 ।।
 (c: A. ब्रह्मजि for ब्रह्मज;)
`असुन्वन्ते'ति च ऋचा `चानोनियुनि' (?)मन्त्रतः।
`तमीशानमि'तीत्येवं सर्वमन्यत् यथापुरम् ।। 20.101 ।।
 (b: M.T. चानोनियुदिति for चानोनियुनि;)

[कल्याणस्नपनप्रकारः]

अनेनैव प्रकारेण चत्वारिंशच्छुभोदकैः।
स्नानं कल्याणमुदितं व्याहृत्यावाहनं हरेः ।। 20.102 ।।
तयैव जुहुयादग्नौ अष्टोत्तरसहस्रकम्।

[अपराजितस्नपनस्य ऐन्द्रस्नपनस्य च स्वरूपम्]

एकेन घृतकुंभेन स्नानं स्यादपराजितम् ।। 20.103 ।।
 (d: M. अपराजितेः for अपराजितम्;)
उपकुंभाष्टकयुतमैन्द्रमेतन्मुनीश्वर।
`अपराजितमन्त्रेण' होमः स्यादपराजिते ।। 20.104 ।।
 (a: A. कुंभोदक for कुंभाष्टक)
  (d: M. अपराञिम् for अपराजिते;)
ऐन्द्रे शुद्धोदकुंभानां देवस्त्रैलोक्यमोहनः।
होमस्त्रैलोक्यमन्त्रेण अष्टोत्तरसहस्रकम् ।। 20.105 ।।
अन्यत्सर्वं यथापूर्वं कर्तव्यं कर्मकोविदैः।

[स्नपनजलस्नानादिफलश्रुतिः]

एवं ते स्नपनं प्रोक्तं सप्रकारं महामुने ।। 20.106 ।।
 (b: T. कोविदः for कोविदैः;)
देवस्नानाम्बुभिः स्नातः नरके न निमज्जति।
तत्तीर्थं पाति यो भक्त्या पुनर्जन्म न विद्यते ।। 20.107 ।।
पादुकां शिरसा विभ्रन् वैकुण्टै किङ्करो भवेत्।
चूर्णं धृत्वा तु शिरसि मोदते दिवि देववत् ।। 20.108 ।।
 (a: M.T. विभ्रत् for विभ्रन्;)
  (c: A. च for तु;)

[स्नपने पादुकातीर्थादिप्रदाननिर्देशः]

पादुकातीर्थचूर्णानि गृहीत्वा देशिकोत्तमः
सिषेविषुभ्यः सर्वेभ्यो भक्तेभ्योऽपि प्रदापयेत् ।। 20.109 ।।
 (c: T. विषेविविषुम्भ for सिषेविषुभ्यः;)

।। इति भार्गवतन्त्रे विंशोऽध्यायः ।।