सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ भार्गवतन्त्रम्
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
भार्गवतन्त्रस्य अध्यायाः

।। चतुर्दशोऽध्यायः ।।
[विवाहोत्सवनिरूपणाध्यायः]
[पाणिग्रहणोत्सवप्रयोजनं विधिं च वर्णयितुं अगस्त्यस्य प्रार्थना]

अगस्त्यः
कथं नु देवदेवीयं पाणिग्रहणमङ्गलम्।
तत्कारयित्वा किं भूयात् तन्मह्यं ब्रूहि भार्गव ।। 14.1 ।।
 (a: A. तु for नु;)
  (d: A. मे for मह्यम्;)

[उद्वाहोत्सवस्य फलकीर्तनम्]

श्रीरामः
देवेन सह देवीनां शयने परिकल्पिते।
नोद्वाहकर्म कुर्वीत तत्कुर्यादन्यथा यदि ।। 14.2 ।।
सर्वकल्याणसम्पत्तिरायुर्वृद्धिश्च जायते।
अभिप्रेतार्थसिद्धिः स्याद्देवीकल्याणकारिणाम् ।। 14.3 ।।
नश्यन्ति सर्वदुःखानि पापैश्चापि न लिप्यते।
धनं धान्यं च लभते पाणिग्रहणकर्मकृत् ।। 14.4 ।।

[विवाहोत्सवक्रमे अङ्कुरार्पणदिनम्]

उद्वाहदिवसात्पूर्वम् अङ्कुरार्पणमाचरेत्।

[देवस्य देव्याश्च कल्याणमण्डपे आनयनम्]

कल्याणेऽहनि कर्तव्यं पृथक्कौस्तुकमङ्गलम ।। 14.5 ।।
देवं देवीं च भूषाद्यैरम्बरैः कुसुमादिभिः।
प्रसाधयित्वा शिबिकामारोप्य गृहधाम च ।। 14.6 ।।
प्रदक्षिणीकृत्य देवौ नयेत्कल्याणमण्डपम्।

[अङ्कुरार्पणविधिनिरूपणम्]

विष्वक्सेनं समाराध्य कर्मविघ्नोशान्तये ।। 14.7 ।।
 (a: A. `तौ' इत्येकं पदं देवौ इत्यतः पूर्वमधिकम्)
अङ्कुराण्यर्पयेत् सद्यो यद्वोद्वाहे प्रसन्नधीः।
ब्रह्मादिदेवानाराध्य पालिकास्वपि पञ्चसु ।। 14.8 ।।
 (b: A. यदु for यद्वोo;)
बीजपात्रं समादाय नमस्यामि दिशां पतीन्।
इति प्रार्थ्य समासीनो `या जाता' इति विद्यया ।। 14.9 ।।
इति बीजानि संजप्त्वा बीजावापं समाचरेत्।
मध्ये तु ब्रह्मजज्ञानं यत इन्द्रः पुरन्दरे ।। 14.10 ।।
 (c: A. ब्रह्मजि for ब्रह्मजo;)
योऽस्य कोष्ठ्यं यमदिशि `इमं मे वरुणे'भवेत्।
सोमो धेनुं तथा सोमे बीजावापस्सकृद्भवेत् ।। 14.11 ।।
 (b: A. वारुणे M. बरुणो for वरुणे;)
तूष्णीं द्विरन्यै ऋत्विग्भिस्तूष्णीं न्यसनमुच्यते।
`मूर्धानमि'ति मन्त्रेण मृद्भिराच्छाद्य देशिकः ।। 14.12 ।।
`इमं मे वरुणे'त्येव सेचयेच्छुद्धवारिभिः।

[देवस्य देव्याश्च हस्ते कौतुकबन्धप्रकारः]

पुण्याहपूर्वं कृत्वैवं कुर्यात्कौतुकबन्धनम् ।। 14.13 ।।
सप्तवारं प्रतिसर'मस्त्रमन्त्रे'ण मन्त्रितम्।
`त्र्यम्बकेन' ऋचालिप्य चन्दनक्षोदवारिणा ।। 14.14 ।।
 (c: T. आलिख्य for आलिप्य;)
  (d: M. वारिणम् for वारिणा;)
`विश्वेत्ताते'ति मन्त्रेण हस्ते देवस्य दक्षिणे।
बन्धयेत् स्व-स्वमन्त्रेण देवीनामितरे करे ।। 14.15 ।।

[रक्षाविधिः]

स्पृष्ट्वा दक्षिणहस्तेन `यो ब्रह्मे'त्यभिमन्त्रयेत्।
`बृहत्सामे'ति मन्त्रेण रक्षा स्याद्धूपभस्मना ।। 14.16 ।।
 (d: M. धूम for धूप;)
त्रिकृत्वः प्रणमेद्देवं `पुण्डरीकाक्ष'विद्यया।

[शुभिकाबन्धनविधिः पुष्पमालिकाबन्धनविधिश्चः]

उल्लिख्याग्निं प्रतिष्ठाप्य `शुभिके शिर'इत्यृचा ।। 14.17 ।।
शुभिकां बन्धयेन्मूर्ध्नि दम्पतीनां यथाक्रमम्।
`यामाहरदि'ति ऋचा बन्धयेत्पुष्पमालिकाम् ।। 14.18 ।।
पादप्रक्षालनं विष्णोः तथा त्रीनि पदेति च।
`मयि मह' इति मन्त्रेण आत्मानमभिमर्शयेत् ।। 14.19 ।।

[पाणिग्रहणविधिनिरूपकक्रमे प्रोक्षणप्रकारः]

ततस्तु मृण्मये पात्रे साक्षते पुष्पसंयुते।
अर्हणायाम्बुनापूर्यं गृह्णीयात्करयोर्द्वयोः ।। 14.20 ।।
`अर्हणीया आप' इति प्रार्थ्य देवं ततः परम्।
`आमागन्नि'ति मन्त्रेण जपेत्पात्राम्बुदेशिकः ।। 14.21 ।।
 (c: A. आगामन् for आमागन्)
हस्ते तु देवदेवस्य `विरोजो दोह' इत्यृचा।
निनीय नीतमुदकं `समुद्रं' वेति चोच्चरन् ।। 14.22 ।।
 (b: A. देव for दोह;)
प्रोक्षयेत्कूर्चमादाय गां च दद्यात्तदा हरेः।
`युवं वस्त्रेति' मन्त्रेण वस्त्रेणाच्छादयेद्धरिम् ।। 14.23 ।।

[यज्ञोपवीतकल्पनं पादयोः अक्षतार्पणञ्च]

यज्ञोपवीतमन्त्रेण यज्ञसूत्रं प्रकल्पयेत्।
`इरावतीति'मन्त्रेण पादयोरक्षतार्पणम् ।। 14.24 ।।

[मधुपर्कनिवेदनापोशनक्रमः]

मधुपर्कं स्वर्णपात्रे गृहीत्वा तं त्रिरुच्चरन्।
`त्रय्यै' `आमागन्नित' च द्वाभ्यां तमभिमन्त्रयेत् ।। 14.25 ।।
 (b: A. ताम् for तम्;)
  (c: T. तुर्यै आगामन्निति च;)
`अमृतोपस्तरणम'सीत्यापोशनमथ स्मृतम्।
`यन्मधुने'ति च जपन् मधुपर्कं निवेदयेत् ।। 14.26 ।।
`अमृताधान'मन्त्रेण पुनरापोशनं मतम्।

[गोविसर्जनप्रकारः]

गां प्रदर्श्याथ हरये `गौर्गौ`र'सीति विद्यया ।। 14.27 ।।
 (a: A.M. अमृतापिधान for अमृताधान;)
प्रणवो चं चिकितुषे इति गामभिमन्त्रयेत्।
`ओमुत्सृजत'इत्युक्त्वा गां विसृज्य ततो गुरुः ।। 14.28 ।।
 (a: M.T. प्रणुवो for प्रणवो;)

[अन्ननिवेदनक्रमः]

`भूतं सेति' वदन् धीमान् अन्नं तस्मै निवेदयेत्।
`ओं कल्पयत' इत्युच्चैः ब्रूयाद्देशिकसत्तमः ।। 14.29 ।।

[भगवते देव्याः दानप्रकारः]

ततो नूतनवस्त्रेण परिधाय `युवास्विति'।
दिव्यैराभरणैर्माल्यैरलङ्कृत्य श्रियं भुवम् ।। 14.30 ।।
प्राणानायम्य संकल्प्य दाता भूषणभूषिताम्।
स्वगोत्रनामकथितां देवीमुदकपूर्वकम् ।। 14.31 ।।
 (b: M.T. भूषितः for भूषिताम्;)
सुवर्णोर्वीयुतां दद्यात् विष्णवे च स्वयंभुवे।
कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् ।। 14.32 ।।
 (a: सुवर्णोर्वीयं ताम् for सुवर्णोर्वीयुताम्;)
  (d: A. स्वर्ण for सर्व;)
दास्यामि विष्मवे तुभ्यं ब्रह्मलोकजिगीषया।
इत्युक्त्वा दक्षिणं हस्तं गीतवादित्रनिस्वनैः ।। 14.33 ।।
`देवस्य त्वेति' मन्त्रेण तां गुरुः परमात्मनः।
अर्पयेद्दक्षिणे हस्ते सहिरण्योदकं करम् ।। 14.34 ।।
प्रणवोनाथ युञ्जीत देवेन कमलां भुवम्।
ततः पाणिगृहीतायाः देव्या देवस्य मूर्धनि ।। 14.35 ।।
 (a: A. प्रणवेन च for प्रणवेनाथ;)
`ध्रवं तेति' प्रकीर्यन्ते कुसुमान्यक्षतान्यपि।
`अभ्रातृध्नीमिति' ऋचं जप्त्वा पश्चात् स्वयंभुवे ।। 14.36 ।।
`अघोरचक्षुषा' देवीं दर्शयेत्कलशोद्भव।
कर्तव्यान्यपि कर्माणि पालनीयास्तथा प्रजाः ।। 14.37 ।।
 (d: A. प्रजास्तथा for तथा प्रजाः;)
आवाभ्यामिति संकल्पस्तयोस्तं च विचिन्तयेत्।
दर्भं संगृह्य तदनु जपन्निदमहं त्विति ।। 14.38 ।।
भ्रुवोर्मध्येन संस्पृश्य प्राच्यां दिशि विसर्जयेत्।
ततो`जीवां रुदन्तीति' जप्त्वा वेदविदो द्विजान् ।। 14.39 ।।
 (a: M.T. संमृज्य for संस्पृश्य;)
`व्युक्षक्रूरमि'ति श्रुत्या स्नानीयाय नियोजयेत्।
`अर्यम्न' इति मन्त्रेण दर्भेण वलयं श्रियः ।। 14.40 ।।
 (a: A.M. प्युत्क्षुत्क्रूरम् for व्युक्षक्रूरम्;)
`निधाय खेन स' इति युगच्छिद्रं निवेशयेत्।
`शं ते हिरण्यम्' इत्युक्त्वा स्वर्णं छिद्रे पिधाय च ।। 14.41 ।।
 (d: A.M. स्वर्ण for स्वर्णम्;)
द्विजाहृतदलैर्देवीम् अब्लिङ्गाभिश्च पञ्चभिः।
स्नापयित्वा'ग्निमूर्धेति' प्लोतवस्त्रेण मार्जयेत् ।। 14.42 ।।
`परित्वा' `गीर्वणा' द्वाभ्यां वस्त्राभ्यां छादनं श्रियः।
`द्वादशाक्षरमन्त्रेण' नमः प्रणवविद्यया ।। 14.43 ।।
 (d: M.T. मिश्रया for विद्यया;)
सुवर्णं बन्धयेत्कण्ठे सर्वमङ्गलसंयुतम्।
`आशासान सौमनसम्' इति योक्त्रण बन्धयेत् ।। 14.44 ।।
 (c: M.T. आशासाना for अशासान;)

[उद्वाहहोमप्रकारः]

उद्वाहहोमं कुर्वीत उत्तराशामुखो गुरुः।
परिस्तीर्य यथान्यायं पुरस्तात् तन्त्रमाचरेत् ।। 14.45 ।।
समिद्भिश्चरुणा चाज्यैर्होम उद्वाहकर्मणि।
समिद्भिराज्यैर्जुहुयात् `देव्याः सूक्तेन' षोडश ।। 14.46 ।।
चरुणा `विष्णुगायत्र्या' चतुर्विंशाहुतिर्भवेत्।
`श्रीसूक्तस्तु' श्रियो देव्याः `भूसूक्त'स्तु भुवो भवेत् ।। 14.47 ।।
अन्यासां यदि देवीनां तासां मूलेन षोडश।

[लाजाहोमप्रकारः प्रायश्चित्ताहुत्यादिप्रकारश्च]

ततः `पुरुषसूक्तेन' लाजहोमं समाचरेत् ।। 14.48 ।।
 (a: A. यति for यदि;)
अनलं त्रिःपरिक्रम्य लाजशेषं सकृद्गुरुः।
जुहुयात्प्रणवेणाग्नौ `पञ्च वारुणिकैः' पुनः ।। 14.49 ।।
प्रायश्चित्ताहुतिं हुत्वा द्वादशाक्षरविद्यया।
पूर्णाहुतिविधानं स्यात् ब्राह्मणानपि भोजयेत् ।। 14.50 ।।
तोंषयित्वाथदेवेशं देवीं चाभ्यर्च्य देशिकः।
पुण्याहं वाचयेत्पश्चात् मधुपर्कं निवेदयेत् ।। 14.51 ।।
नीराजयेत्तदाशीश्च पिण्डिकाक्षेपणं तथा।

[विवाहोत्सवक्रमे दैनन्दिनकृत्यम्]

प्रत्यहं भोजयेद्विप्रान् स्नापयेच्च यथाविधि ।। 14.52 ।।
 (a: M.T. तथा for तदा;)
उत्सवं चान्वहं कुर्यात् प्रातः सायं यथाविधि।
अग्नौ च जुहुयान्नित्यं सन्ध्ययोरुभयोरपि ।। 14.53 ।।
 (b: M.T. सार्यं प्रातः for प्रातः सायम्;)
पालिकादेवतास्सर्वाः पूजयेदन्वहं गुरुः।

[विवाहोत्सवक्रमे चतुर्थदिनकृत्यम्]

चतुर्थेऽहनि सम्प्राप्ते तुर्ययामे यथाविधि ।। 14.54 ।।
 (d: M.T. तथा निशि for यथाविधि;)
उद्वाहशेषहोमं तत् कारयेत्कमलापतेः।
सर्पिषा `दम्पतीमन्त्रैः' कुर्यादष्टोत्तरं शतम् ।। 14.55 ।।
प्रायश्चित्ताहुतिं कुर्यात् `पञ्चोपनिषदा' पुनः।
पूर्णाहुतिं ततः कुर्यात् `मूलमन्त्रेण' देशिकः ।। 14.56 ।।
 (a: M.T. पञ्चोपनिषदा कुर्यात्;)
  (b: M.T. प्रायश्चित्ताहुतिं पुनः;)
सैलादिपूगं ताम्बूलं प्रणवेन निवेदयेत्।
ताम्बूलं दक्षिणां चापि ब्राह्मणेभ्यः प्रदापयेत् ।। 14.57 ।।

[विवाहोत्सवक्रमे पञ्चमदिनकृत्यम्]

पञ्चमे दिवसे तैलाभ्यंगं तयोर्भवेत्।
महाहविर्निवेद्याथ कारयेदुत्सवं महत् ।। 14.58 ।।

[इतरासां देवीनां विवाहविधिः]

उद्वाहानन्तरं देवं देवीसहितमर्चयेत्।
देवीनामितरासां च विवाहविधिरीदृशः ।। 14.59 ।।

।। इति भार्गवतन्त्रे चतुर्दशोऽध्यायः ।।