भार्गवतन्त्रम्/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ भार्गवतन्त्रम्
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
भार्गवतन्त्रस्य अध्यायाः

।। एकोनविंशोऽध्यायः ।।
[जीर्णोद्धारविधिनिरूपणाध्यायः]
[जीर्णोद्धारावसरः]

धाम्नो वा कौतुकानां वा वैकल्येऽवयवादिषु।
सन्धातुं यदि शक्येत तदा सन्धानमाचरेत् ।। 19.1 ।।
[संधानानर्हे बिम्बादौ विधिः]

अशक्ये तुच्छिते धाम्नि बिम्बे त्यक्त्वा पुनः सृजेत्।
पूर्वद्रव्यं पुनः सृष्टौ योग्यं संयोज्य कल्पयेत् ।। 19.2 ।।
 (M.T. कोशयोः आदौ `बालालयम्' इत्यधिकः पाठः)
  (a. M. तुच्चिते T. तूच्छ्रिते for तुच्छिते;)
अयोग्यं तुच्छितं धीमान् अगाधे निक्षिपेज्जले।
भिन्नं वा स्फुटितं बिम्बं भूतिकामो न पूजयेत् ।। 19.3 ।।
 (c: M.T. बिम्बम् for भिन्नम्;)
[सन्धानावसरे भगवतः आराधनस्थलम्।]

लघुसाध्येऽङ्गसन्धाने कुंभे शक्तिं निवेशयेत्।
अनन्तजीर्णे बिम्बादौ बालबिम्बेऽर्चयेद्धरिम् ।। 19.4 ।।

[अजीर्णधामबिम्बत्यागनिषेधः]

अजीर्ण धाम बिम्बं वा त्यक्त्वा नान्यत्र कल्पयेत्।
कल्पने तु महान् दोषः आचार्ययजमानयोः ।। 19.5 ।।

[विमानादिजीर्णोद्धारक्रमे शक्त्यावाहनव्यवस्था]

सन्धाने तु विमानस्य शक्तिमावाहयेद्‌ध्रुवे ।। 19.6 ।।
ध्रुवबेरस्य सन्धाने कुम्भे वा बालकौतुके।
वैकल्ये परिवाराणां तेषामावाहनं ध्रुवे ।। 19.7 ।।
अङ्गबिम्बाङ्गसन्धाने तत्रापि परिवारवत्।
एवं सर्वं समालोच्य जीर्णोद्धारं समाचरेत् ।। 19.8 ।।
 (c: A. आलोक्य for आलोच्य;)

[बालालयकल्पनविवेकः]

दिशश्च विदिशश्चापि मध्ये माधवसद्मनः।
सावकाशेऽभिरुचिते बालसद्म प्रकल्पयेत् ।। 19.9 ।।
पञ्चवा बाहुदण्डेन सप्त संकुचिते त्रिकम्।
चतुरश्रं मनोहारि कल्पयेत् बालसद्म तत् ।। 19.10 ।।
यस्यां दिश्यभवद्‌द्वारं मन्दिरे पूर्वनिर्मिते।
तस्यां बालालये चापि बलजं परिकल्पयेत् ।। 19.11 ।।

[बालाबिम्बकल्पनप्रकारः]

लोहजं दारुजं यद्वा शैलजं वा मनोहरम्।
बालबिम्बं प्रकप्येत यथा प्राचीनमन्दिरे ।। 19.12 ।।
उत्सेधो बालबिम्बस्य वृद्धौ पञ्चभिरङ्गुलैः।
साकं हस्तेन हानौ तु विंशत्याङ्गुलिभिर्भवेत् ।। 19.13 ।।
पूर्ववत्कल्पयेद्‌बिम्बं नान्यथा कलशोद्भवः।

[अङ्गवैकल्यशान्त्यर्थं होमक्रमः]

एवं प्रकल्प्य मेधावी बालबिम्बं च मन्दिरम् ।। 19.14 ।।
शुभे काले तु सम्प्रति पूजयित्वा द्विजोत्तमान्।
आशिषो वाचयित्वा च दत्त्वा तेभ्योऽपि दक्षिणाम् ।। 19.15 ।।
 (b: A. भोजयित्वा for पूजयित्वा;)
भूसुरैस्तैरनुज्ञातः आचार्य वरयेत्पुरा।
तं प्रणम्य यथाशास्त्रं मण्डयित्वाभिपूजयेत् ।। 19.16 ।।
 (b: A. परम् M.पुरम् for पुरा;)

[बालबिम्बस्थापनक्रमे आचार्यवरणक्रमः]

ततः शास्त्रविदाचार्यः अङ्गवैकल्यशान्तये।
दूर्वाभिर्मधुयुक्ताभिः सहस्रं होममाचरेत् ।। 19.17 ।।
 (c: M. संयुक्ताभिः for युक्ताभिः;)
व्याहृत्या सर्पिषा पश्चात् `पञ्चोपनिषदा' शतम्।
हुत्वा पूर्णाहुतिं कुर्यात् तेन शान्तिर्न संशयः ।। 19.18 ।।
 (b: c: om. A;)

[बालबिम्बप्रतिष्ठाराधनक्रमः]

अङ्कुराण्यर्पयेत्पश्चात् बध्वा प्रतिसरं ततः।
जलाधिवासाद्यखिलं कर्म कुर्यात् यथापुरम् ।। 19.19 ।।
बालालयस्य मध्ये वा दिव्ये वा मानुषेऽपि वा।
हस्तमात्रोन्नतां वेदिं कृत्वा तस्यां निवेशयेत् ।। 19.20 ।।
 (c: A. हव्य for हस्त;)
`मूलमन्त्रेण' विधिवत् रत्नन्यासं न कारयेत्।
प्रोक्षयेच्च यथापूर्वं ततो मूलालयं व्रजेत् ।। 19.21 ।।
मूलबिम्बं समाराध्य कुंभं न्यस्याग्रतो हरेः।
तत्र तस्मात् समावाह्य संहारक्रममाश्रयन् ।। 19.22 ।।
 (b: A. कुंभान् for कुंभम्;)
  (c: A. तत्रस्थास्तत्समावाह्य;)
अभ्यर्च्य कुम्भमर्ध्यार्वेदवाद्यपुरस्सरम्।
आदाय कुंभमर्चाभिः अन्याभिः सह देशिकः ।। 19.23 ।।
प्रादक्षिण्येन तद्धाम्नः बालसद्म प्रविश्य च।
कर्मार्चादीनि बिम्बानि तत्र स्थाने निवेशयेत् ।। 19.24 ।।
ततः कुंभगतां शक्तिं बालबिम्बे नियोजयेत्।
पूर्ववत्सकलं कुर्यात् सान्निध्यं याचयेत्ततः ।। 19.25 ।।
भगवन् पुनरुद्धारः तव धाम्नश्च वर्ष्मणः।
यावत्समाप्यते तावत् सान्निध्यमिह आचर ।। 19.26 ।।
 (d: A.M. इह सान्निध्यम् for सान्निध्यमिह;)
इति प्रार्थ्य ततो देवम् अङ्गैः साकं समर्चयेत्।
वैकल्यरहितान् सर्वान् परिवारम् समर्चयेत् ।। 19.27 ।।
 (c: d: om. A;)
F(c:d: om A;)
विकलानर्पयेद्देवान् देवपादारविन्दयोः।
लुप्तानामपि पीठानां परिवारवदिष्यते ।। 19.28 ।।
 (d: परिहार for परिवार;)
आश्रितानां तु पार्थक्यं भक्तानां परिवारवत्।
देवीनां च श्रियादीनां सर्वासां परिवारवत् ।। 19.29 ।।
 (c: d: om A;)
नित्यं नैमित्तिकं काम्यं यथापूर्वं समाचरेत्।
अथवा नित्यमेव स्यात् जीर्णोद्धारसमाप्तये ।। 19.30 ।।
महोत्सवं प्रकुर्वीत यद्यन्नित्यं पुरातनम्।
स्थण्डिले बलिदानं स्यात् सतायां पीठमस्तके ।। 19.31 ।।
 (d: A.M. सत्तायाम् for सतायाम्; T. पीत forपीठं;)

[जीर्णबिम्बप्रक्षेपप्रकारः]

एवं समाप्य मेधावी गत्वा गभगृहं गुरुः।
हैमं लाङ्गलमादाय मोचयेत्पीठबन्धनम् ।। 19.32 ।।
कुशैः काशैस्तृणैश्चान्यैः तथा गोवालनिर्मितः।
रज्जुभिर्वेष्टयेद्विम्बं रथमारोपयेत्ततः ।। 19.33 ।।
 (b: M.T. गसिल for गोवाल;)
ग्रामं प्रदक्षिणीकृत्य समुद्रं वा सरोवरम्।
अगाधं चाप्यशोष्यं च सलिलं यत्र नित्यशः ।। 19.34 ।।
तत्र गत्वा क्षिपेद्विम्बं यद्वा भूमौ खनेदपि।

[संस्कारानन्तरं पुनः प्रतिष्ठाक्रमः]

ततः स्नात्वा विधानेन सन्धाने यदि कर्मणि ।। 19.35 ।।
सन्धानाय गुरुर्दद्यात् बिम्बं देवस्य शार्ङ्गिणः।
कारयित्वा पुनः सृष्टिं सन्धानं वा यथाविधि ।। 19.36 ।।
जलाधिवासाद्यखिलं सर्वं कर्म यथापुरम्।
पुनः सृष्टौ प्रकुर्वीत सन्धाने नैतदिष्यते ।। 19.37 ।।
सम्प्रोक्षणं प्रकुर्वीत बालशक्तिं निवेशयेत्।
एवं सम्प्रोक्ष्य विधिवत् कर्मबिम्बैः समन्वितम् ।। 19.38 ।।
 (d: T. संधाने नैतदिष्यते;)
अभ्यर्चयेद्यथापूर्वं भगवन्तं मुनीश्वर।

।। इति भार्गवतन्त्रे एकोनविंशोऽध्यायः ।।