सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ भार्गवतन्त्रम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
भार्गवतन्त्रस्य अध्यायाः

।। द्वादशोऽध्यायः ।।
[उत्सवविधिनिरूपणाध्यायः]
[उत्सवाङ्गभूताङ्कुरार्पणकालः]

उत्सवारम्भदिवसात् पूर्वमेवाङ्कुरार्पणम्।
तृतीयेऽहनि वा कुर्यात् पूर्वस्मिन् दिवसेऽपि वा ।। 12.1 ।।
  (आदी A. `उत्सवम्' M. `उत्सवविधिः' इति निर्दिष्टः। तदनन्तरमुभयत्र- `श्रीरामः' इत्यधिकः पाठः।)

[उत्सवक्रमे प्राकारादीनां शोधनं भूषणञ्च]

प्राकारं मन्दिरं चापि वलजं वीथिका अपि।
प्रपाभिस्तोरणैश्चान्यैर्मालिकाभिः समन्ततः ।। 12.2 ।।
  (a: M. प्राकार for प्राकारम्;)
  (c: A. प्रभा for प्रपा;)
शोधयेद्‌गोमयांभोभिः रङ्गबल्यक्षतादिभिः।
अन्यैश्च विविधैर्दृश्यैः भूषयेच्च गृहाण्यपि ।। 12.3 ।।
  (a: A.M. शोभयेत् for शोधयेत्;)

[यागमण्डपवेदिकुण्डकल्पनप्रकारः]

सम्भार्याः यागसम्भाराः उत्सवार्थं विशेषतः।
अन्तराले दिशामिन्द्रे कल्पयेद्यागमण्डपम् ।। 12.4 ।।
  (c: A.M. इष्टे for इन्द्रे;)
सप्तभिर्बाहुदण्डैश्च समन्ताच्चतुरश्रकम्।
तस्य मध्ये भवेद्वेदिः हस्तमात्रसमुच्छ्रया ।। 12.5 ।।
  (a: A. बहु for बाहु;)
  (b: A. समन्तं for समन्तात्;)
हस्तद्वयेन विस्तीर्णा कुण्डानि परितस्ततः।
यद्वैककुण्डं प्राग्भागे चतुरश्रं मनोहरम् ।। 12.6 ।।
प्राच्यामाहवनीयं स्यात् दक्षिणस्यां तु दक्षिणम्।
गार्हपत्यं प्रतीचीने सभ्यमन्यत्र कल्पयेत् ।। 12.7 ।।
तोरणादिक्रियाः सर्वाः पूर्वपन्न विशिष्यते।

[उत्सवार्थमाचार्यादिवरणादिकम्]

आचार्याणामृत्विजां च तथैव परिचारिणाम् ।। 12.8 ।।
वरणं चतुरः पूर्वं देशिकान् वरयेत् प्रभुः।
शोभयेद्भूषणैर्वस्त्रैः गन्धमाल्यादिभिः पुरा ।। 12.9 ।।

[उत्सवार्थ देवाधिवासप्रकारः]

अधिवासं प्रकुर्वीत पूर्वस्मिन् दिवसे निशि।
स्नापयित्वाथ देवीभ्यां शयने शाययेद्धरिम् ।। 12.10 ।।
  (c: A. स्थापo for स्नापo;)
तदर्थं कौतुकं बध्वा पश्चाच्छयनकल्पनम्।
कोणेषु स्थापयेद्दीपान् शय्याया देशिकोत्तमः ।। 12.11 ।।
  (d: T.M. शय्यायाम् for शय्याया;)
समिद्भिरष्टभिर्होमो नृसूक्तेन चरुं पुनः।
सर्पिषाष्टौ पुनर्हुत्वा मूलेन मुनिपुङ्गव ।। 12.12 ।।
स्तुत्वाथ देवदेवेशं वेदैर्वाद्यैश्च मङ्गलैः।
जपैश्च मूलमन्त्रस्य जागरेण नयेन्निशाम् ।। 12.13 ।।

[अधिवासानन्तरं मण्डपे देवस्य स्नपनामर्चनं च]

ततः प्रभाते विमले दृष्टे भास्करमण्डले।
`उत्तिष्ठ' इति मन्त्रेण हरिमुत्थापयेद्‌गुरुः ।। 12.14 ।।
`इदं विष्णु'रितिश्रुत्या शिविकायां निवेशयेत्।
बहेयुर्ब्राह्मणाः यानम् ध्यायन्तो विहगाधिपम् ।। 12.15 ।।
नृत्तैश्च विविधैर्गेयैर्वाद्यैश्च विविधैरपि।
ब्रह्मघोषैस्तथा स्तोत्रैर्नीत्वा ग्रामप्रदक्षिणम् ।। 12.16 ।।
  (a: A. नृत्तैर्गेयैश्च विविधैः;)
  (b: A.M. वाद्यैर्नानाविधैरपि;)
मण्डपेऽलङ्कृते देवमवरोप्यासने शुभे।
उपचर्य यथायोगं सम्भारान् संभृतान् गुरुः ।। 12.17 ।।
  (b: T. आरोप्य for अवरोप्य;)
देवाय दर्शयेत् सर्वान् आनीतान् जनसंसदि।
अथ संस्नाप्य देवेशमभ्यर्च्य च निवेद्य च ।। 12.18 ।।
  (d: T. निवेश्य for निवेद्य;)
कृत्वा च नित्यहोमान्तं निनयेत् गर्भमन्दिरम्।

[उत्सवक्रमे प्रतिसरबन्धप्रकारः]

सायं प्रविश्य सदनं यजमानेन देशिकः ।। 12.19 ।।
प्रणम्य तमनुज्ञाप्य बद्‌ध्वा कल्याणकौतुकम्।
उत्सवस्नानबल्यर्चा प्रतिमास्वप्यनन्तरम् ।। 12.20 ।।
  (c: M. स्थान for स्नान;)
बद्ध्वा प्रतिसरं पश्चात् तेषां हस्ते यथाविधि।
उत्थाप्य बलिबिम्बं तत् प्रादक्षिण्येन मन्दिरम् ।। 12.21 ।।
  (b: A. स्वेषाम् for तेषाम्;)
यागमण्डपमानीय स्थापयेदासने हरिम्।

[कुंभन्यासः तत्र तत्तद्देवानामर्चनक्रमश्च]

वेदिकायां धान्यपीठे मध्ये कुंभुं च दक्षिणे ।। 12.22 ।।
  (d: A. मध्यo for मध्ये;)
करकं विन्यसेत्कुंभान् अष्टौ प्रागादिषु क्रमात्।
द्वारतोरणकुम्भानां प्रतिष्ठायामिवार्चनम् ।। 12.23 ।।
  (b: M. प्राणादिषु for प्रागादिषु;)
मूलमूर्तिं यजेत्कुम्भे वर्धन्यामस्त्रदेवता।
प्रागादिदिक्षु कुम्भेषु वासुदेवादयः स्मृताः ।। 12.24 ।।
आग्नेयादिषु कोणेषु पुरुषादीन् समर्चयेत्।
पुरुषश्च तथा सत्यः अच्युतोऽनन्त इत्यमी ।। 12.25 ।।
अभ्यर्चयेच्च विधिवत् हवींषि च निवेदयेत्।
बलिबिम्बं तथाभ्यर्च्य निवेद्य च यथाविधि ।। 12.26 ।।

[यागमण्डपे वेदपारायणादिक्रमः]

प्रागाद्याशासु सर्वासु ऋग्यजुः सामपाठकान्।
अथर्वाङ्गिरसाभिज्ञान् पाठयित्वा यथाक्रमम् ।। 12.27 ।।
तूर्यादिवाद्यघोषेण पूरिते च दिगन्तरे।

[यागमण्डपे तत्तद्धोमकुण्डेषु तत्तद्देवोद्देश्यकहोमक्रमः]

प्रागाद्याशासु कुण्डेषु वासुदेवादिकान् यजेत् ।। 12.28 ।।
तीर्थावसानिकं तत्र सान्निध्यं प्रार्थयेदपि।
एवमभ्यर्चिते कुम्भे भगवत्यखिलेश्वरे ।। 12.29 ।।
  (c: M. कुण्डौ for कुम्भे;)
  (d: M. om. भगवत्य;)
सर्पिराद्यैर्भवेद्धोमः तत्तन्मन्त्रैर्यथाक्रमम्।
सर्पिभिः कुसुमैर्धूपद्रव्यैश्च समिधा पुनः ।। 12.30 ।।
पयसा चापि दध्ना च तिलव्रीहियवैरपि।
कुण्डाधिदैवतैर्मन्त्रैः पृथगष्टोत्तरं शतम् ।। 12.31 ।।
अष्टविंशतिरष्टौ वा होमः प्रागादिपूर्ववत्।
एवं हुत्वाथ विधिवत् नृसूक्तेन चरुं पुनः ।। 12.32 ।।
प्रतिकुण्डं ब्रह्मकुण्डे पायसेन घृतेन वा।
ब्रह्मादिदेवानुद्दिश्य जुहुयात् कलशोद्भव ।। 12.33 ।।
ब्रह्मणे चाथ रुद्राय प्रजानां पतये तथा।
इन्द्राय च महेन्द्राय भानवे जातवेधसे ।। 12.34 ।।
  (d: M. जातवेदसे for जातवेधसे;)
धर्मराजाय मरुते कुबेराय च यातुने।
वरुणाय ऋषिभ्यश्च वेदेभ्यः पुष्पधन्वने ।। 12.35 ।।
  (b:A. धातुने for यातुने;
  (d: M.T. oजन्मने for धन्वने;)
विश्वेभ्यश्चापि देवेभ्यः छन्दोभ्यः कालमूर्तये।
धरण्यै अद्रिराजाय नदीभ्यो वनमूर्तये ।। 12.36 ।।
भूतेभ्यश्च पशुभ्यश्च ओषधीभ्यः श्रियै तथा।
अप्सरोभ्यश्च लोकेभ्यः समुद्रेभ्योऽम्बराय च ।। 12.37 ।।
  (a: b: M. om;)
गन्धर्वेभ्यश्च यक्षेभ्यः पार्षदेभ्यश्च चक्रिणे।
चण्डादिद्वारपालेभ्यः सर्वेभ्यश्चापि विष्णवे ।। 12.38 ।।
  (b: T. छत्रिणे for चक्रिणे;)
  (d: M. सर्पेभ्यः for सर्वेभ्यः;)
प्रणवाद्यग्निजायान्तं उक्त्वा होमं समाचरेत्।
ततस्तु मूलमन्त्रेण हुत्वेदं विष्णुरित्यृचा ।। 12.39 ।।
  (b: T. उक्त for उक्त्वा;)

[उत्सवक्रमे बलिदानप्रकारः]

कृत्वा तु स्विष्टकृद्धोमं बलिदानं समाचरेत्।
माषान्नं घृतसंसिक्तमादाय परिचारकाः ।। 12.40 ।।
धूपं दीपं तथा गन्धं पुष्पाणि सुरभीणि च।
अन्यानि पूजाद्रव्याणि वेदवाद्यपुरस्सरम् ।। 12.41 ।।
यानमारोप्य बल्यर्चां तया साकं बलिं चरेत्।
प्रथमं यागशालायां प्रतिद्वारं बलिं क्षिपेत् ।। 12.42 ।।
चण्डादिद्वारपालानां दद्यान्नित्योत्सवे यथा।
ग्राममध्यं समासाद्य ब्रह्मणे वितरेद्बलिम् ।। 12.43 ।।
प्रागादीशानपर्यन्तम् इन्द्रादीनां बलिं क्षिपेत्।
बलिशिष्टं महापीठे निक्षिपेत्पीठमूर्धनि ।। 12.44 ।।
  (c: T. पीठम् for शिष्टम्;)
तोयपूर्वोत्तरं दद्याद्बलिं कलशसंभव।
तत्र देवं समभ्यर्च्य निनयेद्यागमन्दिरम् ।। 12.45 ।।

[उत्सवप्रसङ्गे वीथिकासु भगवतः परिक्रमणप्रकारः]

मखकौतुकमाराध्य रथं वा शिविकादिकम्।
आरोप्य समलङ्कृत्य ब्राह्मणैः स्वस्तिवाचकैः ।। 12.46 ।।
निष्क्रम्य मन्दिरात्तस्मात् सर्वावरणभूमिकाः।
परिक्रमेद्वीथिकाश्च विद्वद्भिर्वेदपाठकैः ।। 12.47 ।।
  (a: M.T. मन्दिरम् for मन्दिरात्;)
  (c: M.T. विथिकाम् for वीथिकाः;)
शास्त्रविद्भिश्च कविभिः तथा पौराणिकैरपि।
मौहूर्तिकैर्भिषग्भिश्च गद्यपद्यविमिश्रकम् ।। 12.48 ।।
  (d: M.T. गद्यं पद्यं विमिश्रकम्;)
पठद्भिश्च स्तुतिपरैः नानाभाषाविशारदैः।
नृत्यद्भिश्चापि गायद्भिः गाणिक्येन च नृत्यता ।। 12.49 ।।
  (c: T. नृत्यद्भिश्च विo for नृत्यद्भिश्चापि;)
वेदान्तिभिश्च यतिभिः योगिभिर्भगवन्‌मयैः।
ब्रुवद्भिर्भगवच्छास्त्रं माहात्म्यं च पुनः पुनः ।। 12.50 ।।
  (a: A. वेदविद्भिः for वेदान्तिभिः;)
नानावाद्यरतैः पुंभि स्त्रीभिश्चाक्षिमनोहरैः।
सर्वालङ्कारयुक्ताभिर्गमयेद्वीथिकां हरिम् ।। 12.51 ।।
छत्रं च वालव्यजनं तालवृन्तं च शोभनम्।
पताकादीपिकास्स्तंभाः प्रदीपाश्च विशेषतः ।। 12.52 ।।
गन्धोद्‌गारीणि धूपानि तोरणं च गवाक्षिकम्।
पताकाहस्तिनश्चाश्वा वाद्यानि विविधानि च ।। 12.53 ।।
  (b: M.T. गवाक्षितम् for गवाक्षिकम्;)
अन्यैश्च मङ्गलैः साकं परिक्रम्य प्रदक्षिणम् ।

[वीथिपरिक्रमणानन्तरं मन्दिरे भगवत आराधनम्]

मन्दिराभ्यन्तरे यानादवरोप्यासने शुभे ।। 12.54 ।।
निवेश्य प्राङ्मुखं देवमुपचारैः पृथग्विधैः।
उपचर्य ततः स्नाप्य निवेद्य च महाहविः ।। 12.55 ।।
नीराज्य परमेशानं निनयेन्मङ्गलावनिम्।
आरोप्य शयने देवम् अर्चयित्वा यथोचितम् ।। 12.56 ।।
शय्योपचारमखिलम् नृत्तगीतादिभिः सह।
श्रिया धरण्या द्वाभ्यां वा स्वापयेत्पुरुषोत्तमम् ।। 12.57 ।।

[भगवतः दैनन्दिनोत्सवक्रमः]

ततः प्रभाते तं देवम् उत्थाप्य शयनाद्गुरुः।
अर्चयित्वा यथाशास्त्रं कुम्भादीन् यागमन्दिरे ।। 12.58 ।।
बलिबिम्बं समभ्यर्च्य हुत्वा वह्नौ यथापुरा।
बलिं च पूर्ववद्दत्वा यात्रां कुर्यात् यथा निशि ।। 12.59 ।।
  (b: M. पुरम् for पुरा;)
सायं प्रातः प्रतिदिनं पूजनं हवनं बलिः।
यात्रा च विधिवत्कार्या स्नपनं च यथाक्रमम् ।। 12.60 ।।
दिवसे दिवसे कुर्यादुत्सवं शार्ङ्गधन्वनः।
देवीभ्यां वा श्रिया वापि विना वा केवलं हरेः ।। 12.61 ।।
  (श्लोकादनन्तरं A. कोषे `सर्वालङ्कारयुक्ताभिः गमयेत् वीथिकां हरिम्' इत्येका पंक्तिः अधिका।)

[भगवतः मङ्गलोत्सवक्रमः]

एवं महोत्सवे विष्णोर्वर्धमाने महामुने।
देवीभ्यां सह वा लक्ष्म्या कारयेन्मङ्गलोत्सवम् ।। 12.62 ।।
पूजादिबलिदानान्तमनुष्ठाय यथाविधि।
अलङ्कृत्य च देवीभ्यां यानमारोप्य मण्डपम् ।। 12.63 ।।
अन्यं नीत्वावरोप्याथ हेमर्सिहासने शुभे।
निवेश्य प्राङ्मुखं देवं स्नापयेन्मङ्गलोदकैः ।। 12.64 ।।
धान्यपठिस्य पुरतः मुसलं चाप्युलूखलम्।
शुद्धोदकेन संक्षाल्य मूलमन्त्रं समुच्चरन् ।। 12.65 ।।
स्थापयित्वा नवैर्वस्त्रैः परिवेष्ट्य च पल्लवैः।
कुसुमैश्चन्दनैर्द्रव्येः अलङ्कृत्य मनोहरम् ।। 12.66 ।।
हरिद्रां तत्र निक्षिप्य श्रियं त्रैलोक्यमातरम्।
ध्यायन्नभ्यर्चयेत् गन्धपुष्पधूपादिभिः क्रमात् ।। 12.67 ।।
ततो मङ्गलवादिन्यो देवदास्यः स्वलङ्कृताः।
आवहन्युर्निशां सर्वां यथासूक्ष्मं यथाविधम् ।। 12.68 ।।
  (c: M.T. वअहन्युः for आवहन्युः;)
सौवर्णादिमयं कुंभं सूत्रवस्त्रादिवेष्टितम्।
धान्यराशौ समावेश्य निशाचूर्णेन पूरयेत् ।। 12.69 ।।
  (d: T. निशा.....चर्णयेत्;)
सौवर्णलक्ष्मीप्रतिमां रत्नानि च निवेशयेत्।
कूर्चं च पल्लवं चापि शरावेण पिधापयेत् ।। 12.70 ।।
तत्र श्रियं समावाह्य साङ्गं पूजां समाचरेत्।
मूलमन्त्रेण विधिवत्तैश्चूर्णैरभिषेचयेत् ।। 12.71 ।।
श्रीसूक्तविद्ययाभ्यर्च्य यथाविधि यथापुरम्।
महाहविर्निवेद्यान्ते देशिकेन्द्रश्च ऋत्विजः ।। 12.72 ।।
  (c: M. अन्तैः for अन्ते;)
प्रदक्षिणीकृत्य हरिं विकिरेत् कुसुमाञ्जलिम्।
स्तोत्रयेद्विविधैः स्तोत्रैः मनःप्रह्लादनैरपि ।। 12.73 ।।
  (b: T.M. प्रकिंरेत् for विकिरेत्;)

[मङ्गलोत्सवक्रमे जलद्रोण्यां भगवतः स्नपनप्रकारः]

कस्मिंश्चित् दिवसे पश्चात् कारिते मङ्गलोत्सवे।
स्नापयेत्सह देवीभ्यां जलद्रोण्यां जगद्‌गुरुम् ।। 12.74 ।।
अपराह्णे तु सम्प्राप्ते शिबिकायां जगद्गुरुम्।
श्रीभूमिभ्यां समारोप्य नदीतीरं नयेद्गुरुः ।। 12.75 ।।
मण्डपे वा प्रपायां वा सर्वालङ्कारसंयुते।
भेरीमृदङ्गादिरवैः पूरिते च दिगन्तरे ।। 12.76 ।।
ऋग्यजुस्सामवेदानां घोषेण परिमण्डिते।
नृत्यन्तीनां तु दासीनां गीतिस्वननिनादिते ।। 12.77 ।।
  (b: M. घोषणे for घोषेण;)
शास्त्रश्रवणसक्तानां परस्परजिगीषुणाम्।
अन्योन्याक्रोशविन्यस्तपारुष्यनिनदान्विते ।। 12.78 ।।
दृश्यैश्च दीपिकास्तम्भैर्दर्पणैश्च विराजिते।
कदलीक्रमुकस्तम्भैः सफलैः परिमण्डिते ।। 12.79 ।।
लम्बमानैः पुष्पसरैः मुक्तादामभिरन्विते।
अतिस्वच्छेन वस्त्रेण सविताने मनोहरे ।। 12.80 ।।
तत्र मध्ये धान्यपीठं परिकल्प्य मनोहरम्।
सौवर्णीं वा राजतीं वा जलद्रोणीं निवेशयेत् ।। 12.81 ।।
कुङ्कुमक्षोदकर्पूरकस्तूरीरेणुमिश्रितैः।
चन्दनक्षोदभरितैरम्बुभिः परिपूरयेत् ।। 12.82 ।।
पुण्याहवाचनं कृत्वा ब्राह्मणैर्वेदपारगैः।
प्रोक्षयेत्तां जलद्रोणीमाधारादि विचिन्तयेत् ।। 12.83 ।।
गङ्गाद्यास्सरितस्तत्र मन्त्रैरावाहयेज्जले।
पूजयेच्च निवेद्यान्तं तास्सर्वास्तीर्थदेवताः ।। 12.84 ।।
`अघमर्षणसूक्तं' तत् जपेयुः सामवारुणम्।
अत्थाप्य देवं देवीभ्यां जलद्रोण्यां निवेशयेत् ।। 12.85 ।।
तत्र देवं समभ्यर्च्य सौवर्णान्यक्षतान्यपि।
परितो विकिरेद्दिक्षु चास्त्रमन्त्राभिमन्त्रितान् ।। 12.86 ।।
तत उत्थाप्य देवेशं देवीभ्यां सिंहविष्टरे।
विन्यस्याभ्यर्च्य विधिवन्निवेद्य च महाहविः ।। 12.87 ।।
यानमारोप्य विधिवत् प्रापयेन्मङ्गलावनिम्।

[भगवतः मृगयोत्सवविधिः]

अन्यस्मिन् दिवसे कुर्यान्मृगयां शार्ङ्गधन्वनः ।। 12.88 ।।
रात्रौ प्रशस्ता देवस्य मृगया भुनिपुङ्गव।
बल्यन्तमखिलं कृत्वा तुरगे वारणेऽपि वा ।। 12.89 ।।
आरोप्य देवं भूषाद्यैरलङ्कृत्य मनोहरम्।
शार्ङ्गं च सायकं तूणीं यथास्थानं निवेशयेत् ।। 12.90 ।।
उष्णीषं कवचं चापि कल्पयेत्कनकाम्बरम्।
कमनीयतमं सर्वं वाहनं च परिच्छदम् ।। 12.91 ।।
  (a: M. उष्णीं for उष्णीषम्;)
सायुधैः परिवारैश्च मङ्गलैरखिलैः सह।
अरण्यभागमखिलं नीत्वा तत्र प्रपाभुवि ।। 12.92 ।।
अभ्यर्चयेद्यथायोगं नैवेद्यान्तं मधुद्विषम्।
ततः प्रदक्षिणीकृत्य यथापूर्वं निवेशयेत् ।। 12.93 ।।
  (b: A. oद्विषः for oद्विषम्;)

[तीर्थयात्रार्थम् अनुज्ञाप्रार्थनं प्रतिसरबन्धनं च]

अर्धरात्रे तु सम्प्राप्ते गत्वा गर्भगृहं गुरुः।
प्रणम्य यजमानेन प्रार्थयेत्पुरुषोत्तमम् ।। 12.94 ।।
तीर्थयात्रा त्वया कार्या श्वः प्रभाते सुरोत्तम।
तत्र प्रतिसरारंभं त्वमनुज्ञातुमर्हसि ।। 12.95 ।।
प्रार्थ्यैवं तीर्थबिम्बस्य बध्नीयात्कौतुकं करे।
शाययित्वार्चयित्वा च प्रातरुत्थाप्य तं पुनः ।। 12.96 ।।
अभ्यर्च्य विधिवत्सर्वं कर्म बल्यन्तमाचरेत्।

[तीर्थयात्राक्रमे भगवतः अभिषेकक्रमः]

तीर्थबिम्बं समादाय निवेश्य मुखमण्डपे ।। 12.97 ।।
स्थापयित्वाग्रतस्तस्य धान्यपीठं प्रकल्पयेत्।
स्थापितान् यागशालायां कुंभानादाय देशिकः ।। 12.98 ।।
  (a: M. om. तस्य;)
परिषिच्य च वर्धन्या तैः कुंभैरभिषेचयेत्।
प्रोक्षणं मूलमन्त्रेण नृसूक्तेनाभिषेचनम् ।। 12.99 ।।
  (b: M. कुंभे for कुंभै;)
एकबेरे मूलबेरं तैः कुम्भैरभिषेचयेत्।
पूर्वादिमध्यकुम्भान्तमभिषेकक्रमः स्मृतः ।। 12.100 ।।
वस्त्रादिदीपपर्यन्तम् अभ्यर्च्य च निवेद्य च।

[तीर्थं प्रति भगवतः आनयनम् तत्र स्नपनक्रमश्च]

सर्वमङ्गलसंयुक्तम् आरोप्य मखकौतुकम् ।। 12.101 ।।
हस्त्यादि वा रथं यानं तीर्थबिम्बपुरस्सरम्।
नदीतीरं समुद्रं वा तटाकं वाथवा सरः ।। 12.102 ।।
गमयित्वोत्सवाङ्गेन कल्पिते तत्र मण्डपे।
अवरोप्यासने यानान्निविष्टं तीर्थकौतुकम् ।। 12.103 ।।
स्नापयेन्नवभिः कुंभैरर्चितैश्च यथाविधि।
तीर्थेषु सरिदादीनां गङ्गाद्यावाहनं चरेत् ।। 12.104 ।।

[तीर्थयात्राक्रमे तीर्थबिम्बाद्यलाभे विकल्पाः]

तीर्थबिम्बमलाभे तु चक्रं वा त्रिर्निमज्जयेत्।
चक्रेण तीर्थे कर्तव्ये सति नद्यादि वारिभिः ।। 12.105 ।।
  (c: d. 106. om. A;)
कूर्चाग्रपतितैर्धीमान् प्रोक्ष्य कल्याणकौतुकम्।
सरित्सु चक्रमादाया चक्रमन्त्रेण मज्जयेत् ।। 12.106 ।।
अलाभे चापि चक्रस्य कूर्चेनैव समाचरेत्।

[तीर्थस्नानफलकीर्तनम्]

स्नान्ति ये देवदेवेन ते नरा मुक्तकल्मषाः ।। 12.107 ।।
यान्ति ध्रुवं सुदुष्प्रापं शाश्वतं कमलापतेः।

[तीर्थस्नपनानन्तरं भगवतः अर्चनमानयनञ्च]

ततो मण्डपमानीय समभ्यर्च्य यथाविधि ।। 12.108 ।।
प्रादक्षिण्येन गमनं प्रापणं मङ्गलावनेः।

[उत्सवक्रमे ब्राह्मणभोजनविधानम्]

सहस्रं वा शतं वापि लक्षं वापि यथावसु ।। 12.109 ।।
भोजनं ब्राह्मणानां तु प्रत्यहं च महोत्सवे।

[उत्सवान्तस्नपनं हविर्निवेदनं तत्तद्धोमप्रकारः अग्निविसर्जनं च]

तद्रात्रौ स्नपनं कुर्यात् उत्सवान्तोचितं क्रमात् ।। 12.110 ।।
हविर्निवेदनान्तं तु समाराध्य यथाविधि।
यागमण्डपमासाद्य होमं कृत्वा यथापुरम् ।। 12.111 ।।
शान्तिहोमं ततः कुर्यात् संपाताज्यं न चाहरेत्।
प्रायश्चित्ताय जुहुयात् पञ्चोपनिषदा शतम् ।। 12.112 ।।
अग्नीन् विसर्जयेत् पश्चात् पालिकातोरणास्थितान्।

[गरुडाराधनम् तदुद्वासनम् ध्वजावरोहणञ्च]

देवमारोप्य यानादौ ध्वजस्तंभं समानयेत् ।। 12.113 ।।
  (b: T. पालिकान्तो for पालिकातो;)
  (d: M. स्तम्बम् for स्तम्भम्;)
वैनतेयं समभ्यर्च्य निवेद्य च महाहविः।
संहारक्रममाश्रित्य पटात्तार्क्ष्यं तमुद्वसेत् ।। 12.114 ।।
सन्निधाने तु बिम्बस्य ध्वजं तमवरोहयेत्।

[उत्सवप्रसंगे आवाहितानां देवानामुद्वासनविधिः]

आवाहितांस्ततो देवान् स्थाने स्थाने स्थितानपि ।। 12.115 ।।
केवलेनैव तूर्येण बलिं दत्त्वा गुरूत्तमः।
उद्वास्य नामभिः स्वैः स्वैः मूकैः परिकरैः सह ।। 12.116 ।।

[आलये तत्तत्स्थाने उत्सवादिबिम्बानां निवेशः आराधकस्य गमनं च]

प्रविश्य धाम देवस्य गर्भगेहे निवेशयेत्।
उत्सवस्नानबल्यर्चातीर्थबिम्बानि पूर्ववत् ।। 12.117 ।।
अष्टाक्षरं ततो मन्त्रं सहस्रं वा शतावरम्।
जप्त्वा प्रणम्य देवेशमनुज्ञाप्य समाव्रजेत् ।। 12.118 ।।

।। इति श्री भार्गवतन्त्रे द्वादशोऽध्यायः ।।