भार्गवतन्त्रम्/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ भार्गवतन्त्रम्
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
भार्गवतन्त्रस्य अध्यायाः

।। चतुर्विंशोऽध्यायः ।।
[अष्टाक्षरमन्त्रनिरूपणाध्यायः]
[रामस्य माहात्म्यकीर्तनं कार्तज्ञ्यज्ञापनञ्च]

अगस्त्यः
भगवन् सर्वलोकेश सर्वर्षिगणसेवित।
त्वमेव भगवान् विष्णुस्त्वं ब्रह्मा त्वं महेश्वरः ।। 24.1 ।।
त्वमादित्यस्त्वमग्निश्च च्द्रमास्त्वं पुरन्दरः।
वायुस्त्वं सर्वभूतात्मा नागराजोऽसि वासुकिः ।। 24.2 ।।
 (d: A. अपि for असि;)
अनन्तः फणिनामिन्द्रः स्रष्टा त्वं सर्वदेहिनाम्।
अन्तश्चरसि भूतानामादिमध्यान्तवर्जितः ।। 24.3 ।।
पुरुषस्त्वं परं ब्रह्म जगद्‌बीजं सनातनम्।
त्वां विना नैव पश्यामि परात्परतरं प्रभुम् ।। 24.4 ।।
कल्पान्ते सागरे क्षुब्धे संहृत्य निखिलं जगत्।
कुक्षौ वहसि देवेश शेषत्वं शेषमण्डले ।। 24.5 ।।
 (d: T. शेषे त्वं for शेषत्वं;)
त्वं यासि पक्षिराजेन श्रियं वहसि वक्षसि।
शेषं सर्वं जगदिदं शेषी त्वं परमेश्वर ।। 24.6 ।।
त्वयाद्यानुगृहीतोऽस्मि कटाक्षाभ्यां विलोकितः।
पूतोऽस्मि पुरुषेशान पुण्यलोकेऽस्मि कश्चन ।। 24.7 ।।
कृत्स्नस्य पञ्चरात्रस्य सारमग्राहिषं प्रभो।

[अष्टाक्षरमन्त्राधिकारित्वविषये जिज्ञासा]

कृपया ते दयासिन्धो शुश्रूषा काचिदस्ति मे ।। 24.8 ।।
तदप्यद्योपदेष्टव्यं रहस्यमपि दुर्लभम्।
अष्टाक्षराख्यमन्त्रस्य अधिकारी च तज्जपे ।। 24.9 ।।

[अष्टाक्षरमन्त्राधिकारिलक्षणम्]

श्रीरामः
सम्यक् पृष्टं मुनिश्रेष्ठ सर्वस्वं सङ्ग्रहेण ते।
उपदेक्ष्यामि तन्मन्त्रमधिकारी प्रपञ्च्यते ।। 24.10 ।।
 (d: M. प्रपञ्चते for प्रपञ्चयते;)
आत्मानं मन्यते शेषं शेषिणं परमेश्वरम्।
अनुकम्पास्य भूतेषु तैरप्येषोऽनुकम्प्यते ।। 24.11 ।।
 (d: M. oकम्पते for oकम्प्यते;)
निरीहः सर्वकार्येषु सोऽहमस्मिञ्जगत्रयम्।
मृत्युमप्यात्मनो मित्रं मन्यतेऽस्माद्विभेति सः ।। 24.12 ।।
क्षुधितो वा न तृषितः चिन्तयानः सद हरिम्।
वर्षं वातं च भानुं च सहजं मन्यते समम् ।। 24.13 ।।
कृच्छ्रेष्वप्यतिसंतुष्टो विनीतः क्षेमवृद्धिषु।
वनितासु भवेत् षण्डः जन्मान्धो दोषदर्शने ।। 24.14 ।।
परदोषप्रवचने मूको निन्दाप्रशंसने।
बधिरो वेदविद्‌गोष्ठ्याम् आनन्दाश्रुपरिप्लुतः ।। 24.15 ।।
किङ्करो हरिभक्तानां हरिसेवैकमानसः।
अधिकारी भवेदेषः ग्रहीतुं मनुमीदृशम् ।। 24.16 ।।
 (c: T. अधिकारे for अधिकारी;)

[शुद्धमिश्रयोः सामान्यभेदः]

शुद्धो मिश्र इति द्वैधीं भजेत स मुनीश्वरः।
आद्यमेकायनं वेदं बह्मैकप्रतिपादकम् ।। 24.17 ।।
 (b: A. भजते for भजेत्;)
तेनैव संस्कृतः शुद्धः मिश्रस्त्रैय्या प्रकीर्तितः।
अष्टाक्षरस्त्रैविद्यानां शुद्धानां द्वादशाक्षरी ।। 24.18 ।।
 (b: A. त्रैधा for त्रैय्या;)
बलादिमन्त्रैरच्छिद्रं पञ्चकालप्रवर्तनम्।
एकाघ्ना निषेकादिसंस्कारश्च बलादिभिः ।। 24.19 ।।
द्वादशाक्षरविद्यैव तेषां विद्या न च त्रयी।
न सावित्री न मन्त्रोऽन्यः स्वाध्यायजपकर्मणोः ।। 24.20 ।।
मूलेषु निस्पृहाः सर्वे `द्वादशाक्षर'चिन्तकाः।
शावसूतकहीनास्ते केवलं मोक्षकामिनः ।। 24.21 ।।
कर्षणादिक्रियास्वेते कल्प्यन्ते नाधिकारिणः।
अज्ञानाद्यदि ताः कुर्युश्चयवन्ते नात्र शंसयः ।। 24.22 ।।
मन्त्रसिद्धान्तनिष्ठेन दीक्षितेन प्रतिष्ठितम्।
पूजार्थमात्मनो बिम्बं प्रतिगृह्य समचयेत्।। 24.23 ।।
बीजशक्त्यङ्गरहितं `द्वादशाक्षर'विद्यया।
कृत्वा प्रतिष्ठां तद्बिम्बं दापयन्मूलशाखिने ।। 24.24 ।।
न दीक्षा नैव देहस्य दहनादिविशोधनम्।
नाङ्गन्यासादिसकलं नेष्टमेकायनेऽर्ध्वनि ।। 24.25 ।।
 (c: A. oन्यासानि for oन्यासादि;)
एकायनप्रविष्टानां त्रैविद्यानामपीदृशः।
बीजशक्त्यङ्गरहितम् ऋषिच्छन्दो विवर्जितम् ।। 24.26 ।।
 (a: A. एकायनम् for एकायन;)
स्वरूपमेव मन्त्रस्य जपः स्वाध्यायकर्मणोः।

[दीक्षया योग्यतोत्पादनं मुख्या दीक्षा च]

दीक्षया जायते योग्यः त्रैविद्यः देवपूजने ।। 24.27 ।।
चक्राब्जमण्डले दीक्षा तस्य मुख्या प्रकीर्तिता।
अनुकल्पा भवेद्दीक्षा केवलं वह्निसन्निधौ ।। 24.28 ।।
दीक्षितो देवदेवस्य कर्षणादिक्रियां चरेत्।
नाधिकारी भवेद्यस्तु दीक्षाविरहितो द्विजः ।। 24.29 ।।
तस्माद्धर्यर्चनाकाङ्क्षी दीक्षेत हरिसन्निधौ।
कुंभे च मण्डले चाग्नौ हरिमावाह्य पूजयेत् ।। 24.30 ।।
मायासूत्रं च निर्भिद्य पूतो भवति मानवः।
नेत्रबन्धाद्विनिर्मुक्तो दृष्ट्वा चक्राब्जमण्डलम् ।। 24.31 ।।
विकीर्णस्वर्णकुसुमो लब्धपुण्ड्राह्वयो गुरोः।
अधीत्य सकलान् मन्त्रान् अष्टाक्षरपुरस्सरान् ।। 24.32 ।।
 .(a:T.विकीर्णम्, for विकीर्ण;)
  (b: M. पुण्ड्रांश्च यो for पुण्ड्राह्वयो;)
विद्यां हर्यर्चनमयीम् अभिषिक्तो घटोदकैः।
अर्हर्यर्चयितुं विष्णुं प्रतिष्ठातुं यथाविधि।। 24.33 ।।
महोत्सवादिकं कर्तुं नित्यनैमित्तिकादिकम्।
एषा मुख्या भवेद्दीक्षा जघन्या वक्ष्यते शृणु ।। 24.34 ।।
 (c: M. एष for एषा;)

[जघन्यायाः दीक्षायाः स्वरूपम्]

स्थण्डिलं प्रतिमां विष्णोः कुंभमर्चिश्च पूजयेत्।
अथवा तु यथालाभं केवलं वा हुताशनम् ।। 24.35 ।।
 (b: M. अग्नि for अर्चिः;)
  (c: A. oत्र for तु;)
  (c: T. लोभम् for लाभम्;)
जुहुयाद्धेतिराजेन बाहुमूले समङ्कितः।
पाञ्चजन्येन वा साकं ततो नामादिपूर्ववत् ।। 24.36 ।।
 (c: A. व्यातं for साकम्;)
लब्ध्वा गुरोर्यथाशास्त्रं भूयादेषोऽर्चनाविधौ।
नित्ये नैमित्तिके कामये कर्षणादिषु कर्मसु ।। 24.37 ।।
 (b: A. मन्त्रदोष for भूयादेषो;)
एषा दीक्षा द्वितीया स्यात् पञ्चसंस्कारलक्षणा।
इमेऽधिकारिणः प्रोक्ताः वासुदेवार्चनाविधौ ।। 24.38 ।।
एते ह्यष्टाक्षरान् जप्तुम् इतरान् अपि वा मनून्।
नान्येऽधिकारिणस्तैषां कीर्तने स्मरणेऽपि वा ।। 24.39 ।।

[अष्टाक्षरमन्त्रोद्धारप्रकारः]

अष्टाक्षरमनुं वक्ष्ये सावधानमनाः शृणु।
आदौ तु छन्दसामादिर्विघ्नेशस्तदनन्तरम् ।। 24.40 ।।
ओतदेहेन जीवात्मा तृतीयो वर्ण ईरितः।
विष्णुना सह विघ्नेशः चतुर्थः कलशोद्भ ।। 24.41 ।।
विष्णुं विभ्रन् महाज्वालः पञ्चमो मारुतस्ततः।
स विष्णुः सुमुखः षष्ठादनन्तर उदीरितः ।। 24.42 ।।
 (a: M. नहाज्वाल for महाज्वालः;)
अवसाने मरुद्भाति प्राणो भूतभृतां सदा।
एष तेऽष्टक्षरो मन्त्रो यथावदुदितो मया ।। 24.43 ।।
 (a: T. सदां for मरुत्;)
  (b:A.भूता for भृताम्; M. मरुत् for सदा;)

[अष्टाक्षरमन्त्रस्य ऋष्यादिनिर्देशः]

ऋषिर्नारायणो देवो देवता चास्य कीर्तितौ।
छन्दस्तु देवी गायत्री बीजं विष्णुः सबिन्दुकः ।। 24.44 ।।

त्रिभिः पदैश्च भूयोऽपि षडङ्गानि महामुने।
समस्ते कथितो भावः व्यस्ते वक्ष्यामि तच्छृणु ।। 24.45 ।।
 (a: T. पञ्चै for पदैः;)
भरद्वाजः कौशिकश्च जमदग्निरुदीरितः।
वसिष्ठः कस्यपश्चात्रिरगस्त्यः ऋषयः क्रमात् ।। 24.46 ।।
द्वितीयाद्यास्तारकस्य परमेष्ठी ऋषिर्भवेत्।
छन्दांसि प्रणवादीनां गायत्र्यादीनि चाञ्चले ।। 24.47 ।।
विराट् च देवता वच्मि क्रमादेषां धरो ध्रुवः।
सोम आपस्तथाऽग्निश्च षष्ठो वरुण ईरितः ।। 24.48 ।।
प्रत्यूहश्च प्रभातश्च देवा अष्टौ यथाक्रमम्।
नाभ्यादिहृदयान्तेषु न्यसनीयाश्च भूमिषु ।। 24.49 ।।

[अष्टाक्षरमन्त्रजपात् पूर्वं ध्येयं भगवत्स्वरूपम्]

चतुर्भुजमुदाराङ्गं शंखचक्रधरं विभुम्।
कालमेघप्रतीकाशं पद्मपत्रनिभेक्षणम् ।। 24.50 ।।
 (d: M. निभेषक्षम् for निभेक्षणम्;)
किरीटहारकेयूरकाञ्चीकटकमण्डितम्।
श्रीवत्सकौस्तुभोरस्कं कुण्डलाङ्गुलिभूषणम् ।। 24.51 ।।
पीताम्बरेण संवीतं यज्ञसूत्रोपशोभितम्।
ललाटे चोर्ध्वतिलकं श्वेतया मृदुमृत्स्नया ।। 24.52 ।।
श्रिया भूम्या च सततं वालव्यजनवीजितम्।
प्रफुल्लवारिजमुख मेघगम्भीरनिःस्वनम् ।। 24.53 ।।
एवं ध्यात्वा जपेन्मन्त्रं चतुर्वर्गफलप्रदम्।

[अष्टाक्षमन्त्रोपयोगः तस्य फलश्रुतिश्च]

अनेन सकलाः देवाः साध्याः सन्ति न संशयः ।। 24.54 ।।
कुर्यादनेन मन्त्रेण प्राणायामं द्विजोत्तमः।
सर्वपापविनिर्मुक्तो महायोगी भवेद्‌ध्रुवम् ।। 24.55 ।।
 (b: A.M. प्राणायामान् for प्राणायामम्;)
अङ्गानिवेदाश्चत्वारः शास्त्राणि विविधान्यपि।
सर्वमष्टाक्षरे मन्त्रे स्वयमेव प्रतिष्ठितम् ।। 24.56 ।।
एतज्जपन् सदा ध्यायन् सर्वपापात् प्रमुच्यते।
किमन्यैर्बहुभिर्मन्त्रैः सर्वमेतेन सिध्यति ।। 24.57 ।।

।। इति भार्गवतन्त्रे चतुर्विंशोऽध्यायः ।।