भार्गवतन्त्रम्/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ भार्गवतन्त्रम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
भार्गवतन्त्रस्य अध्यायाः

।। त्रयोदशोऽध्यायः ।।
[मण्डलल्पनपूर्वकपुष्पयागविधिनिरूपणाध्यायः]
[मण्डलकल्पनात् पूर्वं भगवतः आराधनम्]

श्रीरामः
प्रभातायां त्रियामायाम् आदित्येऽभ्युदिते गुरुः।
निर्वर्त्य नियमान् स्वीयान् भक्तैर्भागवतैः सह ।। 13.1 ।।
 (c: M; निर्वृत्य for निर्वत्य;)
आलयाभ्यन्तरं गत्वा संपूज्य च यथाविधि।
समाप्य बलिदानान्तम् आचार्यो मण्डपान्तेर ।। 13.2 ।।


[मण्डलवेदिकाकल्पनप्रकारः]

चक्राब्जं वर्त्तयेद्धीमान् वक्ष्यमाणेन वर्त्मना।
आयामसम विस्तारैवेदिकां परिकल्पयेत् ।। 13.3 ।।
पञ्चभिर्वा चतुर्भिर्वा हस्तैर्दृश्यां मनोहराम्।
गोमयाभ्योभिरालिप्य कुर्याद्दर्पणसन्निभाम् ।। 13.4 ।।
 (b: A. दृश्य for दृश्याम्;)

[मण्डलकल्पनार्थं सूत्रपातविधिः]

प्राञ्चि तिर्यञ्चि सूत्राणि दश सप्त च पातयेत्।
षट् पञ्च द्वे च कोष्ठानि सन्ति मध्येऽथ षट्त्रिषु ।। 13.5 ।।
 (a: A. प्रञ्चा for प्राञ्चि;)

[कर्णकादिपञ्चक्षेत्रविभागक्रमः]

मध्ये शङ्कुं स्थापयित्वा भ्रामयित्वाथ पञ्चधा।
भुवं विभज्य सूत्रेण मध्यमं कर्णिकापदम् ।। 13.6 ।।
द्वितीयं केसरदलं नाभीनां परिकल्पने।
तृतीयं च तुरीयं च द्वे चारक्षेत्रमुच्यते ।। 13.7 ।।
 (a: A. दले for दलं;)
  (b: A. नाभिन्नम् for नाभीनाम्;)
पञ्चमं नेमिभूरेषां बहिः कोष्ठानि मार्जयेत्।

[मण्डलद्वारक्षेत्रकल्पनप्रकारः]

त्रिधा तद्विभजेत्क्षेत्रं सूत्रभ्रमणवर्त्मना ।। 13.8 ।।
 (a: M.T. पञ्चमां for पञ्चमम्;)
  (d: A. वर्तना for वर्त्मना;)
कर्णिंकाक्षेत्रमानने सूत्रपातं चतुर्दिश।
तथाकृते चतुर्दिक्षु द्वारक्षेत्रं भविष्यति ।। 13.9 ।।

[मण्डले द्वादशाब्जनिर्माणस्थाननिर्देशः]

प्रत्यावरणभूभागे द्वादशाब्जानि कल्पयेत्।
कोणे कोणे भवेदेकं द्वे द्वे वलजपार्श्वयोः ।। 13.10 ।।

[मण्डलकोणेषु पाञ्चजन्यकल्पननिर्देशः]

चतुर्ष्वपि च कोणेषु बहिरावरणत्रयात्।
पाञ्चजन्यं सुरुचिरं कल्पयेच्छास्त्रवित्तमः ।। 13.11 ।।

[कर्णिकाक्षेत्रे द्वादशबिन्दुकल्पननिर्देशः]

कल्पयेत्कर्णिकाक्षेत्रे बिन्दुद्वादशकं बुधः।

[मण्डले अब्जस्य केसरादिपदनिर्माणप्रकारः]

सूत्रभ्रमणमार्गेण द्वितीयं विभजेत्त्त्रिधा ।। 13.12 ।।
प्रथमं केसरपदं द्वितीयं दलभूर्भवेत्।
तृतीयं नाभिवलयं केसरान् नवतिस्सषट् ।। 13.13 ।।
 (d: T. नाभिः for नवतिः;)
द्वादशाम्बुजरेखाश्च दलभूमौ प्रकल्पयेत्।
दिग्विदिग्भागकलिताश्चतत्रो विंशतिस्तथा ।। 13.14 ।।

[मण्डले अरकल्पनप्रकारः]

एकीकृत्य द्वयं क्षेत्रमररेखाः प्रकल्पयेत्।
अरद्वयं विदिक्षु स्यात् एकैकं दिक्षु कल्पयेत् ।। 13.15 ।।
 (b: c: T. कर for oअर;)
अम्भोजदलतुल्यानि नीलोत्पलनिभानि च।
मण्डलं शोभयेत्पञ्चविधैर्वर्णैर्यथाक्रमम् ।। 13.16 ।।
 (b: M.T. वा for च;)

[मण्डले वर्णकल्पनार्थमुपादानद्रव्याणि]

शालिपिष्टैर्गन्धचूर्णैः श्वेतवर्णो हरिद्रया।
पीतवर्मस्तु याज्ञीयैरङ्गारैर्नीलमुच्यते ।। 13.17 ।।
याज्ञीयैश्च दलैश्चूर्णैः श्यामलो वर्ण ईरितः।
कुङ्कुमैरेव रक्तं स्यादेवं पञ्चविधः स्मृतः ।। 13.18 ।।

[अब्जकर्णिकादीनां वर्णकल्पनविवेकः]

कर्णिकां पीतवर्णेन बन्दून् शुक्लेन कल्पयेत्।
पाटलैः कर्णिकारेखाः कृष्णैः केसरभूतलम् ।। 13.19 ।।
द्विधा कृत्वा पूर्वभागं श्वेतैर्भागमथोत्तरम्।
पीतैरग्रेऽर्जुनैर्बिन्दून् रक्तैश्च दलकोटिषु ।। 13.20 ।।
आद्यन्तयोस्तु पत्राणां सितैरक्तैश्च शोभनम्।
दलान्तवलयं रक्तैः भूषयेदथवार्जुनैः ।। 13.21 ।।
श्यामेन भूषयेन्नाभिमसितेनारभूतलम्।
अराणि रक्तवर्णेन तदन्तवलयं सितैः ।। 13.22 ।।
 (d: T. अन्ते for अन्त;)
असितैर्नेमिवसतिं सितैर्नेम्यन्तभूतलम्।
प्रथमावरणं कृष्णैर्द्वितीयावरणं सितैः ।। 13.23 ।।
तृतीयावरणं रक्तैः पद्मानि च यथापुरम्।
रक्तपीतासितसितैर्द्वाराणीन्द्रादिदिक्‌क्रमात् ।। 13.24 ।।
शङ्खानर्जुनवर्णेन मध्यरेखारुणामता।

[चक्रमण्डलस्य वर्णकल्पनप्रकारः]

श्वेतैः रक्तैश्च पीतैश्च स्यामैः कृष्णैश्च पञ्चभिः ।। 13.25 ।।
वर्णैर्वा कालकुसुमैः रञ्जयेच्चक्रमण्डलम्।

[मण्डले भगवतः आराधनम् अनुज्ञायाचनञ्च]

मण्डलं चित्रयित्वैवं प्रोक्ष्य पुण्याहवारिणा ।। 13.26 ।।
भद्रपीठं न्यसेदस्मिन् तस्मिन् देवं निवेशयेत्।
अर्ध्यपाद्यादिभिर्देवमर्चयित्वा प्रणम्य तम् ।। 13.27 ।।
भगवन् पुण्डरीकाक्ष सर्वलोकेश्वर प्रभो।
प्रीतयेऽनुष्ठितस्तेऽद्य ध्वजपूर्वो महोत्सवः ।। 13.28 ।।
 (c: M. प्रीयते for प्रीतये;)
मया च यजमानेन ऋत्विग्भिः साधकैरपि।
तत्र न्यूनातिरेकाभ्यां दुष्कृतं यदि जायते ।। 13.29 ।।
तद्दोषशान्तये पुष्पैर्यष्टुमिच्छामि सम्प्रति।
अनुजानीहि मां देव पूरयस्व क्रियामपि ।। 13.30 ।।
इति विज्ञाप्य देवेशं प्रारभेत्कुसुमार्चनम्।

[मण्डले तत्तद्देवानाम् आराधनस्थानविधिनिर्देशः]

`द्वादशाक्षर'वर्णेशान् बिन्दुषु द्वादशस्वपि ।। 13.31 ।।
कर्णिकायां वासुदेवमावाह्याभ्यर्चनं ततः।
अर्ध्यं पाद्यं तथाचामं स्नानं वस्त्रोपवीतकम् ।। 13.32 ।।
 (d: A.M. स्नान for स्नानम्;)
गन्धं पुष्पं भूषणं च उपचारा नव स्मृताः।
प्रत्यक्षरं च कुसुमैरर्चयेत्कलशोद्भव ।। 13.33 ।।
अङ्गानि हृदयादीनि कुसुमैरञ्जलिस्थितैः।
फलं भवतु मे पुष्पैर्नम इत्यन्तमुच्चरन् ।। 13.34 ।।
 (a: M. हृदयानीति for हृदयादीनि;)
भूषणानि ततोद्दिश्य श्रीवत्सप्रभृतीनि च।
सुदर्शनाद्यायुधानि पुष्पैभ्यर्चनं चरेत् ।। 13.35 ।।
केसरेषु श्रियाद्यष्टौ तथा पुष्पैस्समर्चनम्।
ततो द्वादशशक्तीश्च यजेत दलभूमिषु ।। 13.36 ।।
 (a: A. दृष्टौ for द्यष्टौ;)
दलान्तवलये शक्तीर्व्याप्त्याद्यास्तास्समर्चयेत्।
नाभिभागेऽर्वयेद्विष्णुमावाह्य कुसुमैर्बुधः ।। 13.37 ।।
विष्ण्वादीन् द्वादशारेषु कुसुमैः परिपूजयेत्।
अरान्तवलये देवान् मत्स्यादीन् नेमिभूतले ।। 13.38 ।।
शङ्खादीन्यायुधान्यष्टौ प्रथमावरणे बहिः।
केशवादीन् द्वादशाब्जे द्वितीयावरणाम्बुजे ।। 13.39 ।।
 (d: T. वरणेऽम्बुजे for oवरणाम्बुजे;)
वासुदेवादयोऽभ्यर्च्यास्तृतीयावरणे तथा।
आदित्या द्वादशाराध्या पद्मेषु द्वादशस्वपि ।। 13.40 ।।
 (d: M; पदेषु for पद्मेषु;)
पूर्वद्वारे खगेशानं दक्षिणे तु सुदर्शनम्।
गदामपांपतिद्वारे सोमे शङ्खं समर्चयेत् ।। 13.41 ।।
 (c: M. गताम् for गदाम्;)

[मण्डले भगवतः पुष्पार्चनविधिः]

ततः `पुरुषसूक्तेन' तथा `नारायणेन'च।
`पञ्चोपनिषदै'र्मन्त्रैर्देवस्य चरणाम्बुजे ।। 13.42 ।।
पुष्पार्चनं प्रकुर्वीत धूपदीपौ प्रदर्शयेत्।
वेदैश्चापि तथा साङ्गैः स्तोत्रयेज्जगदीश्वरम् ।। 13.43 ।।
अन्नं निवेदयेत्तस्मै पायसादिचतुर्विधम्।

[मण्डलार्चनक्रमे होमविधिः]

आग्नेये हवनं कुण्डे स्थण्डिले वा महानसे ।। 13.44 ।।
समिदाज्यचरुप्रायैः शतमष्टोत्तरं भवेत्।
`मूलेन' जुहुयादग्नौ पूर्णाहुत्यवसानकम् ।। 13.45 ।।
 (d: M.T. अवसानिकम् for अवसानकम्;)

[मण्डलस्थदेवोद्वासनादिक्रमः]

प्रदक्षिणं प्रणामं च कृत्वा स्तुत्वा श्रियः पतिम्।
मण्डलस्थान् समुद्वास्य प्रथमावरणं नयेत् ।। 13.46 ।।
सेवार्थम् आगतान्देवान् स्थानं गन्तुं नियोजयेत्।
अन्यांश्च मानवान् सर्वान् परिक्रम्य प्रदक्षिणम् ।। 13.47 ।।
नित्यैरभ्यन्तरैस्सार्धं सततं नित्यसेवकैः।
मन्दिराभ्यन्तरं देवं निनयेद्देशिकोत्तमः ।। 13.48 ।।

[महोत्सवान्ते गुरोः सम्माननम्]

एवं महोत्सवं कृत्वा सम्पूज्य गुरुमृत्विजः।
अलङ्कृत्य विशेषेण मनः प्राह्लादनैर्धनैः ।। 13.49 ।।
तं गुरुं यानमारोप्य सर्वमङ्गलसंयुतम्।
ग्रामं प्रदक्षिणीकृत्य तद्‌गृहं प्रापयेत्प्रभुः ।। 13.50 ।।

[महोत्सवफलश्रुतिः]

एवं महोत्सवं कुर्वन् इह सर्वत्र मोदते।
परत्र च विशेषेण किं वा भूयादितः परम् ।। 13.51 ।।
अश्वमेधसहस्त्राणि वाजपेयायुतानि च।
अप्तोर्यामार्बुदं कृत्वा यत् फलं जायते नृणाम् ।। 13.52 ।।
अनेन सर्वं देवस्य मखेन भवति ध्रुवम्।
केवलं देवदेवं तं सेवतां च महोत्सवे ।। 13.53 ।।
फलमिष्टं करतले भवत्येव न संशयः।
किं पुनस्तत्र युक्तानां कैङ्कर्यनिरतात्मनाम् ।। 13.54 ।।
 (c: M. यत्नानाम् for युक्तानाम्;)

।। इति भार्गवतन्त्रे त्रयोदशोऽध्यायः ।।