स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २७
वेदव्यासः
अध्यायः २८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
तथैव विष्णुना सर्वे पर्वताश्च प्रपूजिताः॥
सह्याचलश्च विंध्यश्च मैनाको गंधमादनः॥ २७.१ ॥

माल्यवान्मलयश्चैव महेंद्रो मंदरस्तथा॥
मेरुश्चैव प्रयत्नेन पूजितो विष्णुना तदा॥ २७.२ ॥

श्वेतः कृतः श्वेतगिरिर्निलाद्रिश्च तथैव च॥
उदयाद्रिश्च श्रृंगश्च अस्ताचलवरो महान्॥ २७.३ ॥

मानसाद्रिस्तथा शैलः कैलासः पर्वतोत्तमः॥
लोकालोकस्तथा शैलः पूजितः परमेष्ठिना॥ २७.४ ॥

एवं ते पर्वतश्रेष्ठाः पूजिताः सर्व एव हि॥
तथान्ये पूजितास्तेन सर्वे पर्वतवासिनः॥ २७.५ ॥

विष्णुना ब्रह्मणा सार्द्धं कृतं सर्वं यथोचितम्॥
अन्येहनि च संप्राप्ते वरयात्रा कृता तथा॥ २७.६ ॥

हिमाद्रिणा बंधुभिश्च पर्वतं गंधमादनम्॥
ययुः सर्वे सुरगणा गणाश्च बहवस्तथा॥ २७.७ ॥

प्रमथाश्च तथा सर्वे तथा चंडीगणाः परे॥
ये चान्ये बहवस्तत्र समायाता हिमालया॥ २७.८ ॥

शिवस्योद्वहनं विप्राः शिवेन परिभाविताः॥
परं हर्षं समापन्ना दृष्ट्वा तौ दंपती तदा॥ २७.९ ॥

पार्वतीसहितः शंभुः शंभुना सह पार्वती॥
पुष्पगन्धौ यथा स्यातां वागर्थाविव तत्त्वतः॥ २७.१० ॥

तथा प्रकृतिपुंसौ च ऐकपद्येन नान्यथा॥
दंपती तौ गजारूढौ शुशुभाते महाप्रभौ॥ २७.११ ॥

विमास्थस्तदा ब्रह्मा विष्णुश्च गरुडोपरि॥
ऐरावतगतश्चेंद्रः कुबेरः पुष्पकोपरि॥ २७.१२ ॥

पाशी च मकरा रूढो यमो महिषमेव च॥
प्रेतारूढो नैर्ऋतः स्यादग्निर्बस्तगतो महान्॥ २७.१३ ॥

मृगारूढोऽथ पवन ईशो वृषभमेव च॥
इत्येवं लोकपालाश्च सग्रहाः परमेष्ठिनः॥ २७.१४ ॥

स्वैः स्वैर्बलैः परिक्रांतास्तथान्ये प्रमथादयः॥
हिमाद्रिश्च महाशैल ऋषभो गंधमादनः॥ २७.१५ ॥

सह्याचलो नीलगिरिर्मंदरो मलयाचलः॥
कैलासो हि महातेजा मैनाकश्च महाप्रभः॥ २७.१६ ॥

एते चान्ये च गिरयः क्षीमंतो हि महाप्रभाः॥
सकलत्राश्च ते सर्वे ससुताश्च मनोरमाः॥ २७.१७ ॥

बलिनो रूपिणः सर्वे मेर्वाद्यास्तत्र पर्वताः॥
वरयात्राप्रसंगेन शिवार्चनपराभवन्॥ २७.१८ ॥

नंदिना ह्युपविष्टास्ते मेर्वाद्यास्तत्र पर्वताः॥
वरयात्रा कृता ते यथोक्ता च हिमाद्रिणा॥
सर्वैस्तैर्बंधुभिः सार्द्धं पुनरागमनं कृतम्॥ २७.१९ ॥

स्वकालयस्थो हिमवान्स रेजे हि महा यशा॥
शिवसंपर्कजेनैव महसा परमेम च॥
विख्यातो हि महाशैलस्त्रिषु लोकेषु विश्रुतः॥ २७.२० ॥

कन्यादानेन महता तुष्टो यस्य च शंकरः॥
ते धन्यास्ते महात्मानः कृतकृतत्यास्तथैव च॥ २७.२१ ॥

द्व्यक्षरं नाम येषां च जिह्वाग्रे संस्थितं सदा॥
शिवेति द्व्यक्षरं नाम यैर्हृदीरितमद्य वै॥
ते वै मनुष्यरूपेण रुद्रा एव न संशयः॥ २७.२२ ॥

किंचिद्दानेन संतुष्टः पत्रेणापि तथैव च॥
तोयेनापि हि संतुष्टो महादेवो निरन्तरम्॥ २७.२३ ॥

पत्रेण पुष्पेण तथा जलेन प्रीतो भवत्येष सदाशिवो हि॥
तस्माच्च सर्वैः प्रतिपूजनीयः शिवो मद्दाभाग्यकरो नृणामिह॥ २७.२४ ॥

एको महाञ्ज्योतिरजः परेशः परापराणां परमो महात्मा॥
निरंतरो निर्विकारो निरीशो निराबाधो निर्विकल्पो निरीहः॥ २७.२५ ॥

निरंजनो नित्यरूपो निरोधो नित्यानन्दो नित्यमुक्ताः सदेव॥
एवंभूतो देवदेवोऽर्च्चितश्च तैर्देवाद्यर्विश्ववेद्यो भवश्च॥
स्तुतो ध्यातः पूजितश्चिंतितश्च सर्वज्ञोऽसौ सर्वदा सर्वदश्च॥ २७.२६ ॥

यथा वरिष्ठो हिमवान्प्रसिद्धः सर्वैर्गुणैः सर्वगुणो महात्मा॥
विश्वेशवंद्यो हि तदा हिमालयो जातो गिरीणां प्रवरस्तदानीम्॥ २७.२७ ॥

मेनया सह धर्मात्मा यथास्थानगतस्ततः॥
सर्वान्विसर्जयामास पर्वतान्पर्वतेश्वरः॥ २७.२८ ॥

गतेषु तेषु हिमवान्पुत्रैः पौत्रैः प्रपौत्रकैः॥
राजा गिरीणां प्रवरो महादेवप्रसादतः॥ २७.२९ ॥

अथो गिरिजया सार्द्धं महेशो गन्धमादने॥
एकांते च मतिं चक्रे रमणार्थं स्वरूपवान्॥ २७.३० ॥

सुरतेनैव महता तपसा हि समागमे॥
द्वयोः सुरतमारब्धं तद्द्वयोश्च तदाऽभवत्॥ २७.३१ ॥

अनिष्टं महदाश्चर्यं प्रलयोपममेव च॥
तस्मिन्महारते प्राप्ते नाविंदंत सुखं परम्॥ २७.३२ ॥

सर्वे ब्रह्मादयो देवाः कार्याकार्यव्यवस्थितौ॥
रेतसा च जगत्सर्वं नष्टं स्थावरजंगमम्॥ २७.३३ ॥

सस्मार चाग्निं ब्रह्मा च विष्णुश्चाध्यात्मदायकः॥
मनसा संस्मृतः सद्यो जगामाग्निस्त्वरान्वितः॥ २७.३४ ॥

ताभ्यां संप्रेषितोऽपश्यद्रुचिरं शिवमांदिरम्॥
द्वारि स्थितं नंदिनं च ददर्शाग्रे महाप्रभम्॥ २७.३५ ॥

अग्निर्ह्रस्वस्तदा भूत्वा काश्मीरसदृशच्छविः॥
प्रविष्टोंतः पुरं शंभोर्नानाश्चर्यसमन्वितम्॥ २७.३६ ॥

अनेकरत्नसंवीतं प्रासादैश्च स्वलं कृतम्॥
तदंगणमनुप्राप्य उपविश्याह हव्यवाट्॥ २७.३७ ॥

पाणिपात्रस्य मे ह्यम्ब भिक्षां देह्यवरोधतः॥
तच्छ्रुत्वा वचनं तस्य पाणिपात्रस्य बालिका॥ २७.३८ ॥

यावद्दातुं च सारेभे भिक्षां तस्मै ततः स्वयम्॥
उत्थाय सुरतात्तस्माच्छिवो हि कुपितो भृशम्॥ २७.३९ ॥

रुद्रस्त्रिशूलमुद्यम्य भैरवो ह्यऽभवत्तदा॥
निवारितो गिरिजया वधात्तस्माच्छिवः स्वयम्॥
भिक्षां तस्मै ददौ वाचा अग्नये जातवेदसे॥ २७.४० ॥

पाणौ भिक्षां गृहीत्वाथ प्रत्यक्षं तेन चाग्निना॥
भिक्षिता कुपिता तं वै शशाप गिरिजा ततः॥ २७.४१ ॥

रे भिक्षो भविता शापात्सर्वभक्षो ममाशु वै॥
अनेन रेतसा सद्यः पीडां प्राप्स्यसि सर्वतः॥ २७.४२ ॥

इत्युक्तो भक्षयित्वाग्नी रेत ईशस्य हव्यवाट्॥
यत्र देवाः स्थिताः सर्वे ब्रह्माद्याश्चैव सर्वशः॥ २७.४३ ॥

आगत्याकथयत्सर्वं तद्रेतोभक्षणादिकम्॥
सर्वे सगर्भा ह्यभवन्निन्द्राद्या देवतागणाः॥ २७.४४ ॥

अग्नेर्यथा हविश्चैव सर्वेषामुपतिष्ठति॥
अग्नेर्मुखोद्भवेनैव रेतसा ते सुरेश्वराः॥ २७.४५ ॥

सगर्भाह्यभवन्सर्वे चिंतया चप्रपीडिताः॥
विष्णुं शरणमाजग्मुर्द्देवदेवेश्वरं प्रभुम्॥ २७.४६ ॥

॥देवा ऊचुः॥
त्वं त्राता सर्वदेवानां लोकानां प्रभुरेव च॥
तस्माद्रक्षा विधातव्या शरणागतवत्सल॥ २७.४७ ॥

वयं सर्वे मर्तुकामा रेतसानेन पीडिताः॥
असुरेभ्यः परित्रस्ता वयं सर्वे दिवौकसः॥ २७.४८ ॥

शरणं शंकरं याताः परित्रातुं कृतोद्वहाः॥
यदा पुत्रो हि रुद्रस्य भविष्यति तदा वयम्॥
सुखिनः स्याम सर्वे निर्भयाश्च त्रिविष्टपे॥ २७.४९ ॥

एवं विष्टभ्यमानानां सर्वेषां भयमागतम्॥
अनेन रेतसा विष्णो जीवितुं शक्यते कथम्॥ २७.५० ॥

त्रिवर्गो हि यथा पुंसां कृतो हि सुपरिष्कृतः॥
विपरीतो भवत्येव विना देवेन नान्यथा॥ २७.५१ ॥

तस्मात्तद्वै बलं मत्वा सर्वेषामपि देहिनाम्॥
कार्याकार्यव्यवस्थायां सर्वे मन्यामहे वयम्॥ २७.५२ ॥

तथा निशम्य देवानां परेशः परिदेवनम्॥
उवाच प्रहसन्वाक्यं देवानां देवतारिहा॥ २७.५३ ॥

स्तूयतां वै महादेवो महेशः कार्यगौरवात्॥ २७.५४ ॥

तथेति गत्वा ते सर्वे देवा विष्णुपुरोगमाः॥
तथा ब्रह्मादयः सर्व ईडिरे ऋषयो हरम्॥ २७.५५ ॥

ॐनमो भर्गाय देवाय नीलकंठाय मीढुषे॥
त्रिनेत्राय त्रिवेदाय लोकत्रितयधारिणे॥ २७.५६ ॥

त्रिस्वराय त्रिमात्राय त्रिवेदाय त्रिमूर्त्तये॥
त्रिवर्गाय त्रिधामाय त्रिपदाय त्रिशूलिने॥ २७.५७ ॥

त्राहित्राहि महादेव रेतसो जगतः पते॥ २७.५८ ॥

ब्रह्मणा तु स्तुतो यावत्तावद्देवो वृषध्वजः॥
प्रादुर्बभूव तत्रैव सुराणां कार्यसिद्धये॥ २७.५९ ॥

दृष्टस्तदानीं जगदेकबंधुर्महात्मभिर्देववरैः सुपूजितः॥
संस्तूयमानो विविधैर्वचोभिः प्रत्यग्रूपैः श्रुतिसंमतैश्च॥ २७.६० ॥

स्तुवतां चैव देवानामुवाच परमेश्वरः॥
त्रासं कुर्वंतु मा सर्वे रेतसानेन पीडिताः॥ २७.६१ ॥

वमनं वै भवद्भिश्च कार्यमद्यैव भोःसुराः॥
तथेति मत्वा ते सर्व इंद्राद्या देवतागणाः॥
वेमुः सर्वे तदा विप्रास्तद्रेतः शंकरस्य च॥ २७.६२ ॥

ऐकपद्येन तद्रेतो महापर्वतसन्निभम्॥
तप्तचामीकरप्रख्यं बभूव परमाद्भुतम्॥ २७.६३ ॥

सर्वे च सुखिनो जाता इंद्राद्या देवतागणाः॥
विना ह्यग्निं च ते सर्वे परितुष्टास्तदाऽभवन्॥ २७.६४ ॥

तेनाग्निनापि चोक्तस्तु शंकरो लोकशंकरः॥
किं मयाद्य महा देव कर्तव्यं देवतावर॥ २७.६५ ॥

तद्ब्रूहि मे प्रभोऽद्य त्वं येनाहं सर्वदा सुखी॥
भविष्यामि च येनाहं देवानां हव्यवाहकः॥ २७.६६ ॥

तदोवाच शिवः साक्षाद्देवानामिह श्रृण्वताम्॥
रेतो विसृज्यतां योनौ तदाग्निः प्रहसन्नवि॥ २७.६७ ॥

उवाच शंकरं देवं भवत्तेजो दुरासदम्॥
इदमुल्बणवत्तेजो धार्यते प्राकृतैः कथम्॥ २७.६८ ॥

ततः प्रोवाच भगवानग्निं प्रति महेश्वरः॥
मासिमासि प्रतप्तानां देहे तेजो विसृज्यताम्॥ २७.६९ ॥

तथेति मत्वा वचनं महाप्रभः स जातवेदाः परमेण वर्चसा॥
समुज्ज्वलंस्तत्र महाप्रभावो ब्राह्मे मुहूर्त्ते हि सचोपविष्टः॥ २७.७० ॥

तदा प्रातः समुत्थाय प्रातः स्नानपराः स्त्रियः॥
ययुः सदा ऋषीणां च सत्यस्ता जातवेदसम्॥ २७.७१ ॥

दृष्ट्वा प्रज्वलितं तत्र सर्वास्ताः शीतकर्षिताः॥
तप्तुकामास्तदा सर्व्वा ह्यरुधत्या निवारिताः॥ २७.७२ ॥

तया निवारिताश्चापि तास्तेपुः कृत्तिकाः स्वयम्॥
यावत्तेपुश्च ताः सर्व्वा रेतसः परमाणवः॥
विविशू रोमकूपेषु तासां तत्रैव सत्वरम्॥ २७.७३ ॥

नीरेतोग्निस्तदा जातो विश्रांतः स्वयमेव हि॥ २७.७४ ॥

ततस्ता ऋषिभार्या हि ययुः स्वभवनं प्रति॥
ऋषिभिस्तु तदा शप्ताः कृत्तिकाः खेचराभवन्॥ २७.७५ ॥

तदानीमेव ताः सर्वा व्यभिचारेण दुःखिताः॥
तत्ससर्जुस्तदा रेतः पृष्ठे हिमवतो गिरेः॥ २७.७६ ॥

एकपद्येन तद्रेतस्तप्तचामीकरप्रभम्॥
गंगायां च तदा क्षिप्रं कीचकैः परिवेष्टितम्॥ २७.७७ ॥

षण्मुखं बालकं ज्ञात्वा सर्वे देवा मुदान्विताः॥
गर्गेणोक्तास्तदंते वै सुखेन ह्रियतामिति॥ २७.७८ ॥

शंभोः पुत्रः प्रसादेन सर्वो भवति शाश्वतः॥
गंगायाः पुलिने जातः कार्त्तिकेयो महाबलः॥ २७.७९ ॥

उपविष्टोथ गांगेयो ह्यहोरात्रोषितस्तदा॥
शाखो विशाखोऽतिबलः षण्मुखोऽसौ महाबलः॥ २७.८० ॥

जातो यदाथ गंगायां षण्मुखः शंकरात्मजः॥
तदानीमेव गिरिजा संजाता प्रस्नुतस्तनी॥ २७.८१ ॥

शिवं निरीक्ष्य सा प्राह हे शंभो प्रस्नवो महान्॥
संजातो मे महादेव किमर्थस्तन्निरीक्ष्यताम्॥
सर्वज्ञोऽपि महादेवो ह्यब्रवीत्तामथाज्ञवत्॥ २७.८२ ॥

नारदस्तत्र चागत्य प्रोक्तवाञ्जन्म तस्य तत्॥
शिवाय च शिवायै च पुत्रो जातो हि सुंदरः॥ २७.८३ ॥

तदाकर्ण्य वचो विप्रा हर्षनिर्भरमानसाः॥
बभूवुः प्रमथाः सर्वे गंधर्वा गीततत्पराः॥ २७.८४ ॥

अनेकाभिः पताकाभिश्चैलपल्लवतोरणैः॥
तथा विमानैर्बहुभिर्बभौ प्रज्वलितो महान्॥
पर्वतः पुत्रजननाच्छंकरस्य महात्मनः॥ २७.८५ ॥

तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः रक्षोगंधर्वयक्षाश्च अप्सरोगणसेविताः॥ २७.८६ ॥

एकपद्येन ते सर्वे सहिताः शंकरेण तु॥
द्रष्टुं गांगेयमधिकं जग्मुः पुलिनसंस्थितम्॥ २७.८७ ॥

ततो वृषभमारुह्य ययौ गिरिजया सह॥
अन्यैः समेतो भगवान्सुरैरिंद्रादिभिस्तथा॥ २७.८८ ॥

तदा शंखाश्च भेर्यश्च नेदुस्तूर्यीण्यनेकशः॥ २७.८९ ॥

तदानीमेव सर्वेशं वीरभद्रादयो गणाः॥
अन्वयुः केलिसंरब्धा नानावादित्रवादकाः॥
वादयन्तश्च वाद्यानि ततानि विततानि च॥ २७.९० ॥

केचिन्नृत्यपरास्तत्र गायकाश्च तथा परे॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्तनम्॥ २७.९१ ॥

एवंविधास्ते सुरसिद्धयक्षा गंधर्वविद्याधरपन्नगा ह्यमी॥
शिवेन सार्द्धं परिहृष्टचित्ता द्रष्टुं ययुस्तं वरदं च शांकरिम्॥ २७.९२ ॥

यावत्समीक्षयामासुर्गांगेयं शंकरोपमम्॥
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रयम्॥ २७.९३ ॥

तत्तोजसावृतं बालं तप्तचामीकरप्रभम्॥
सुमुखं सुश्रिया युक्तं सुनसं सुस्मितेक्षणम्॥ २७.९४ ॥

चारुप्रसन्न वदनं तथा सर्वागसुंदरम्॥
तं दृष्ट्वा महदाश्चर्यं गांगेयं प्रथितात्मकम्॥ २७.९५ ॥

ववंदिरे तदा बालं कुमारं सूर्यवर्चसम्॥
प्रमथाश्च गणाः सर्वे वीरभद्रादयस्तथा॥ २७.९६ ॥

परिवार्योपतस्थुस्ते वामदक्षिणभागतः॥
तथा ब्रह्मा च विष्णुश्च इंद्रश्चापि सुरैर्वृतः॥ २७.९७ ॥

ऋषयो यक्षगंधर्वाः परिवार्य कुमारकम्॥
दंडवत्पितिता भूमौ केचिच्च नतकंधराः॥ २७.९८ ॥

प्रणेमुः शिरसा चान्ये मत्वा स्वामिनमव्ययम्॥
अवाद्यंत विचित्राणि वादित्राणि महोत्सवे॥
एवमभ्युदये तस्मिन्नृषयः शांतिमापठम्।. २७.९९ ॥

एतस्मिन्नंतरे यातः शंकरो गिरिजापतिः॥
अवतीर्य वृषाच्छीघ्रं पार्वत्या सहसुव्रताः॥ २७.१०० ॥

पुत्रं निरैक्षत तदा जगदेकबंधुः प्रीत्या युतः परमया सह वै भवान्या॥
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः प्रहृष्टः॥ २७.१०१ ॥

उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा॥
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता॥ २७.१०२ ॥

तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः॥
जयशब्देन महता व्याप्तमासीन्नभस्तलम्॥ २७.१०३ ॥

ऋषयो ब्रह्मगोषेण गीतेनैव च गायकाः॥
वाद्यैश्च वादकाश्चैव उपतस्थुः कुमारकम्॥ २७.१०४ ॥

स्वमंकमारेप्य तदा गिरीशः कुमारकं तं प्रभया महाप्रभम्॥
बभौ भवानीपतिरेव साक्षाच्छ्रिया युतः पुत्रवतां वरिष्ठः॥ २७.१०५ ॥

दंपती तौ तदा तत्र ऐकपद्येन नंदतुः॥
अभिषिच्यमान ऋषिभिरावृतः सुरसत्तमैः॥ २७.१०६ ॥

कुमारः क्रीडयामास उत्संगे शंकरस्य च॥
कंठे स्थितं वासुकिं च पाणिभ्यां समपीडयत्॥ २७.१०७ ॥

मुखं प्रपीडयित्वाऽसौ पाणीनगणयत्तदा॥
एकं त्रीणिदशाष्टौ च विपरीतक्रमेण च॥ २७.१०८ ॥

प्रहस्य भगवाञ्छंभुरुवाच गिरिजां तदा॥ २७.१०९ ॥

मंदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदंच परमां गिरिजासमेतः॥
प्रेम्णा सगद्गदगिरा जगदेकबंधुर्नोवाच किंचन तदा भुवनैकभर्ता॥ २७.११० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कार्त्तिकेयस्वामिकुमारोत्पत्तिवर्णनंनाम सप्तविंशोऽध्यायः॥ २७ ॥ छ ॥