विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

क्रोष्टुश्व यदुपुत्रस्यात्मजो वृजिनीवान् । ततश्व स्वाहिः, ततो रुषद्रुः, रुषद्रोश्वित्ररथः, तत्तनयः शशविन्दुश्वतुर्द्दशमहारत्रश्वक्रवर्त्त्यभवत् ।। ४-१२-१ ।।

तस्य च शतसहस्त्रं पत्रीनामभवत् । दशलक्ष सह्खयाश्व पुत्राः । तेषाञ्च पृथुयशाः, पृथकर्म्मा, पृथुजयः, पृथुदानः, पृथुकीर्त्तिः, पृथुश्ववाः, षटू पुत्राः प्रधानाः । पृथुश्ववसः पुत्रस्तमः, तस्मादुशनाः । यो वाजिमेधानां शतमा जहार । तस्य च शितेषुर्नाम पुत्रोऽभूत्, तस्यापि रुक्मवचः, ततः। परावृत्, परावृतो रुकमेषु-पृथुरुक्म-ज्यामघ-पालित-हरित-संज्ञाः पञ्चात्मजा
बभूवुः । अत्राद्यापि ज्यामघस्य श्लोको गीयते ।। ४-१२-२ ।।

भार्य्यावश्यास्तु ये केचिदू भविष्यन्त्यथवा मृताः ।
तेषान्तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ।।
अपुत्रा तस्य सा पत्री शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्य्यामविन्दत ।।
स त्वैकदातिप्रभूत-तुरग-सम्मर्द्देनातिदारुणो महाहवे युध्यमानः
सकलमेवारातिचक्रमजयत् । तज्वारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोषं स्वमधिष्ठ परित्यज्य दिशः प्रविद्रुतम् ।। ४-१२-३ ।।

तस्मिश्व विद्रुतेऽतित्रासाल्लोलायतलोचनयुगलं त्राहि तात भ्रात रित्याकुलविलापविधुरं राजकन्या रत्रमद्राक्षीत् ।। ४-१२-४ ।।

तद्दर्शनाज्व तस्यामनुरागानुगतान्तरात्मा स भूपोऽ चिन्तयत् ।। ४-१२-५ ।।

साध्विदं ममापत्यविरहितस्य बन्ध्याभर्त्तुः साम्प्रतं विधिनापत्यकारणां कन्यारत्रमुपपादितम्, तदेतत् समुदूहामि । अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ।। ४-१२-६ ।।
तथैव देव्याहमनुज्ञातः समुदूक्ष्यामीति । अथैनां रथमारोप्य स्वनगरमागच्छत् ।। ४-१२-७ ।।

विजयिनञ्च राजानमशेषणौरभृत्यपरिजनामात्य समवेता शैव्या द्रष्टुम धिष्ठानद्रारमागता ।। ४-१२-८ ।।

सा च अवलोक्य राज्ञः सव्यपार्श्वर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधर पल्लवा राजानमवोचत्--अतिचपलचित्तात्र स्यन्दने केयमारोपिता इति ।
असावप्यनालोचितोत्तरवचनोऽतिभयात् तामाह--स्नुषा ममेयमिति ।। ४-१२-९ ।।

नाहं प्रसूता पुत्रण नान्या पत्न्यभवत् तव ।
स्नुषासम्बन्धवाच्यैषा कतमेन सुतेन ते ।। ४-१२-१० ।।

इत्यात्मेर्ष्याकोप-कलुषित-वचनमुषितविवेकतया दुरुक्तपरिहारार्थमिदमव नी पतिराह--।। ४-१२-११ ।।

यस्ते जनिष्यत्यात्मदजः,तस्येयमनैगतमेव भार्य्या निरूपिता । इत्या कर्ण्योद्भूतमृदुहासा तथेत्याह प्रविवेश च राज्ञा सहाधिष्ठानमिति ।। ४-१२-१२ ।।

अनन्तरञ्चातिशुद्धलग्रहोरांशकावयवोक्त-कृतपुत्र जन्मालापगुणाद वयसः
परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ।। ४-१२-१३ ।।

कालेन च पुत्रमजीजनत् । तस्य च विदर्भ इति पिता नाम चक्र ।
स च तां स्नुषामुपयेमे ।। ४-१२-१४ ।।

तस्याञ्चासौ क्रथ-कौशिकसंज्ञौ पुत्रावजनयत् । पुनश्व तृतीयं रोमपादसज्ञ कुमारमजीजनत् । रोम पादादू बभ्रुः, बभ्रोः पुत्रो धृतिः । कौशिकस्यापि चेदिः पुत्रोऽभूत्, यस्य सन्ततौ चैद्या भूपालाः । क्रथस्य स्नुषापुत्रस्य पुत्रः कुन्तिरभवत् ।। ४-१२-१५ ।।

कुन्तेर्वृष्णिः, वृष्णोर्निर्वृतिः, निवृतेर्दशार्हः ततश्व व्योमा, तस्मादपि जीमूतः, तस्यापि वंशकृतिः, ततो भीमरथः, तस्मादू नवरथः, ततश्व दशरथः, तस्य शकुनिः, तत्तनयः करम्भिः, करम्भेर्देवरातोऽभवत् । तस्माद
देवक्षत्त्रः तस्य मधुः, मधोरनवरथः, अनवरथात् कुरुवत्सः, ततश्वा नुरथः, ततः पुरुहोत्रो जज्ञ । ततश्व अंशः, ततश्व सत्वतः, सत्वतादेते सात्वताः ।। ४-१२-१६ ।।