विष्णुपुराणम्/चतुर्थांशः/अध्यायः १
मैत्रेय उवाच।
॥ अथ चतुर्थांशे प्रथमोऽध्यायः ॥
(वैवस्वतमनुवंशवर्णनम्)
मैत्रेय उवाच
भगवन् यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥
वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो ॥२॥
श्रीपराशर उवाच
मैत्रेय श्रूयताम् अयम् अनेक-यज्व-शूर-वीर-धीर-भूपाल-अलङ्कृतो ब्रह्मादिः मानवो वंशः ॥३॥
तदस्य वंशस्य आनुपूर्वीम् अशेष-वंश-पाप-प्रणाशनाय मैत्रेयैतां कथां शृणु ॥४॥
तद्यथा सकलजगताम् आदिः अनादिभूतः सः ऋग्यजुस्सामादिमयो भगवान् विष्णुः तस्य ब्रह्मणो मूर्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥५॥
ब्रह्मणश्च दक्षिण-अङ्गुष्ठ-जन्मा दक्षप्रजापतिः दक्षस्यापि अदितिः अदितेः विवस्वान् विवस्वतो मनुः ॥६॥
मनोः इक्ष्वाकु-नृग-धृष्ट-शर्याति-नरिष्यन्त-प्रांशु-नाभाग-दिष्ट-करूष-पृषध्र-आख्या दश पुत्रा बभूवुः ॥७॥
इष्टिं च मित्रावरुणयोर्मनुः पुत्रकामः चकार ॥८॥
तत्र तावदपह्नुते होतुः अपचारात् इला नाम कन्या बभूव ॥९॥
सैव च मित्रावरुणयोः प्रसादात् सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥१०॥
पुनश्च ईश्वरकोपात् स्त्री सती सा तु सोमसूनोः बुधस्याश्रमसमीपे बभ्राम ॥११॥
सानुरागाच्च तस्यां बुधः पुरूरवसम् आत्मजम् उत्पादयामास ॥१२॥
जातेऽपि तस्मिन् अमिततेजोभिः परमर्षिभिः इष्टिमय ऋङ्मयो यजुर्मयः साममयोऽथर्वणमयः सर्ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोऽन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथावदिष्टः तत्प्रसादात् इला पुनरपि सुद्युम्नोऽभवत् ॥१३॥
तस्यापि उत्कल-गयत्-विनतसंज्ञाः त्रयः पुत्रा बभूवुः ॥१४॥
सुद्युम्नस्तु स्त्रीपूर्वकत्वात् राज्यभागं न लेभे ॥१५॥
तत्पित्रा तु वसिष्ठवचनात् प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥१६॥
तदन्वयाश्च क्षत्त्रियास्सर्वे दिक्षु अभवन् । पृषध्रस्तु मनुपुत्रो गुरुगोवधात् शूद्रत्वम् अगमत् ॥१७॥
मनोः पुत्रः करूषः, करूषात् कारूषाः क्षत्रिया महाबलपराक्रमा बभूवुः ॥१८॥
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत् तस्मात् बलन्धनः पुत्रोऽभवत् ॥१९॥
बलन्धनात् वत्सप्रीतिः उदारकीर्त्तिः ॥२०॥
वत्सप्रीतेः प्रांशुरभवत् ॥२१॥
प्रजापतिश्च प्रांशोरेकोऽभवत् ॥२२॥
ततश्च खनित्रः ॥२३॥
तस्माच्चक्षुषः ॥२४॥
चक्षुषाच्च अतिबलपराक्रमो विंशोऽभवत् ॥२५॥
ततो विविंशकः ॥२६॥
तस्माच्च खनिनेत्रः ॥२७॥
ततश्चातिविभूतिः ॥२८॥
अतिविभूतेः अतिबलपराक्रमः करन्धमः पुत्रोऽभवत् ॥२९॥
तस्मादपि अविक्षित् ॥३०॥
अविक्षितोऽपि अतिबलपराक्रमः पुत्रो मरुत्तो नामा अभवत् ।
यस्य इमौ अद्यापि श्लोकौ गीयेत् ॥३१॥
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥३२॥
अमाद्यदिन्द्रस्सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ॥३३॥
स मरुत्तश्चक्रवर्त्ती नरिष्यन्तनामानं पुत्रमवाप ॥३४॥
तस्माच्च दमः ॥३५॥
दमस्य पुत्रो राजवर्द्धनो जज्ञे ॥३६॥
राजवर्द्धनात् सुवृद्धिः ॥३७॥
सुवृद्धेः केवलः ॥३८॥
केवलात् सुधृतिरभूत् ॥३९॥
ततश्च नरः ॥४०॥
तस्माच्चन्द्रः ॥४१॥
ततः केवलोऽभूत् ॥४२॥
केवलाद्बन्धुमान् ॥४३॥
बन्धुमतो वेगवान् ॥४४॥
वेगवतो बुधः ॥४५॥
ततश्च तृणबिन्दुः ॥४६॥
तस्याप्येका कन्या इलविला नाम ॥४७॥
ततश्चालम्बुषा नाम वराप्सरास्तृणबिन्दुं भेजे ॥४८॥
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥४९॥
हेमचन्द्रश्च विशालस्य पुत्रोऽभवत् ॥५०॥
ततश्चन्द्रः ॥५१॥
तत्तनयो धूम्राक्षः ॥५२॥
तस्यापि सृञ्जयोऽभूत् ॥५३॥
सृञ्जयात् सहदेवः ॥५४॥
ततश्च कृशाश्वो नाम पुत्रोऽभवत् ॥५५॥
सोमदत्तः कृशाश्वाज्जज्ञे योऽश्वमेधानां शतमाजहार ॥५६॥
तत्पुत्रो जनमेजयः ॥५७॥
जनमेजयात् सुमतिः ॥५८॥
एते वैशालिका भूभृतः ॥५९॥
श्लोकोऽप्यत्र गीयते ॥६०॥
तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तोऽतिधार्मिकाः ॥६१॥
शर्यातेः कन्या सुकन्या नामाभवत् यामुपयेमे च्यवनः ॥६२॥
आनर्तनामा परमधार्मिकः शर्यातिपुत्रोऽभवत् ॥६३॥
आनर्तस्यापि रेवतनामा पुत्रो जज्ञे योऽसौ आनर्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥६४॥
रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठोऽभवत् ॥६५॥
तस्य रेवती नाम कन्याभवत् ॥६६॥
स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ॥६७॥
तावच्च ब्रह्मणोऽन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥६८॥
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन् मुहूर्तमिव मेने ॥६९॥
गीतावसाने च भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥७०॥
ततश्चासौ भगवानकथयत् कथय योऽभिमतस्ते वर इति ॥७१॥
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोऽभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥७२॥
ततः किञ्चिदवनतशिराः सस्मितं भगवानब्जयोनिराह ॥७३॥
य एते भवतोऽभिमता नैतेषां साम्प्रतं पुत्रपौत्रापत्यापत्यसन्तति अस्त्यवनीतले ॥७४॥
बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥७५॥
साम्प्रतं महीतलेऽष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ॥७६॥
आसन्नो हि कलिः ॥७७॥
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥७८॥
भवतोऽपि पुत्र-मित्र-कलत्र-मन्त्रि-भृत्य-बन्धु-बल-कोशादयः समस्ताः कालेनैतेन अत्यन्तमतीताः ॥७९॥
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥८०॥
भगवन्नेवमवस्थिते मयेयं कस्मै देयेति ॥८१॥
ततस्स भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरम्भोजयोनिराह ॥८२॥
ब्रह्मोवाच
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥८३॥
कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अजन्मनाशस्य सदैकमूर्तेरनामरूपस्य सनातनस्य ॥८४॥
यस्य प्रसादादहमच्युतस्य भूतः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ॥८५॥
तद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुस्समस्तम् ॥८६॥
पाकाय योऽग्नित्वमुपैति लोकान् बिभर्ति पृथ्वीवपुरव्ययात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥८७॥
करोति चेष्टाश्श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ॥८८॥
यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मकस्संह्रियतेऽन्तकारी पृथक् त्रयस्यास्य च योऽव्ययात्मा ॥८९॥
यस्मिञ्जगद्यो जगदेतदाद्यो यश्चाश्रितोऽस्मिञ्जगति स्वयम्भूः ।
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन विष्णुर्नृपतेऽवतीर्णः ॥९०॥
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥९१॥
तस्मै त्वमेनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वरोऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥९२॥
पराशर उवाच
इतीरितोऽसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ॥९३॥
कुशस्थलीं तां च पुरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षःस्थलायातुलधीर्नरेन्द्रः ॥९४॥
उच्चप्रमाणामिति तामवेक्ष्य स्वलाङ्गलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥९५॥
तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा ॥९६॥
॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे प्रथमोऽध्यायः ॥
।