विष्णुपुराणम्/चतुर्थांशः/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

कश्यपदुहिता सुमतिर्विदर्भराजतनया च केशिनी द्रे भार्य्ये सगरस्यास्ताम् ।। 4-4-1 ।।

ताभ्याञ्चापत्यार्थमाराधित और्व्वः परमेण समाघिना वरमदात् ।। 4-4-2 ।।

एका वंशधरमेकं पुत्रम्, अपरा षष्टिं पुत्रसहस्त्राणि जनयिष्यतीति, यस्या यदभिमतं गृह्यताम् । इत्युक्ते केशिनी पुत्रमेकम्, सुमतिः पुत्रसहस्त्राणि षष्टिं वब्र । तथेति च ऋषिणाभिहिते अल्पैरेवाहोभिरेकमसमञ्जसं नाम वंशधरं पुत्रमसूत केशिनी । विनतातनयायास्तु सुमत्याः षष्टीः पुत्र सहस्त्राण्यभवन् । तस्मादसमञ्जसोऽ शुमान् नाम कुमारो जज्ञ ।। 4-4-3 ।।

स तु असमञ्जा बाल्यादेवापवृत्तः । पिता चास्या चिन्तयत् अयमतीतबाल्यो बुद्धिमान् भविष्यतीति । अथ तत्रापि वयस्यतीते तज्वरितमेवैनं पिता तत्याज ।। 4-4-4 ।।

तान्यपि षष्टिः कुमारसहस्त्राणि असमञ्जसश्वरितमनुचक्रः ।। 4-4-5 ।।

ततश्वासमञ्जसश्वरितानुकारिभिः सागरैरपध्वस्तयज्ञादिसन्मार्गे जगति देवाः सकलविद्यामयमसंस्पष्ट मशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूतं कपिलर्षि प्रणम्य तदर्थमूचुः ।। 4-4-6 ।।

भगवन् ! एभिः सगरतनयैरसमञ्जसश्वरितमनुगम्यते, कथमेवमेभिरनुसरद्भि र्जगद्भविष्यतीत्यार्त्तजगतूपरि त्राणाय च भगवतोऽत्र शरीरग्रहणम् । इत्या कणर्य भगवान् अल्पैरेव दिनैरेते विनङ्क्षयन्ति इत्युक्तवान् ।। 4-4-7 ।।

तत्रान्तरे च सगरो हयमेधमारेभे । तत्र च ततपुत्रैरधिष्ठितमस्याश्व कोऽप्यपह्टत्य बुवो विवरं प्रविवेश ।। 4-4-8 ।।

ततश्वाश्वान्वषणाय तनयान् युयोज । ततस्त त्तनयाश्चाश्वखरपदवी मनुसरन्तोऽतिनिर्बन्धेन वसुधा तलमेकैको योजनं योजनमवनेश्चखान ।। 4-4-9 ।।

पाताले चाश्वं परिभ्रमन्तमवनीपतिनन्दनास्ते ददृशुः । नातिदूरस्थितञ्च भगवन्तमपघने शरतूकालेऽर्कमिव तैजोभिरनवरतमूद्ध्व मधश्चाशेषदिशश्चोद्भा सयमानं कपिलर्षिमपश्यन् ।। 4-4-10 ।।

ततश्चोद्यतायुधा दुरात्मायमस्मदपकारी यज्ञविघात कर्त्ता हयहर्त्ता ह्टन्यतां हन्यतां मित्यधावन् । ततश्च तेनापि भगवता किञ्चिदीषतूपरिवत्तितलोचनेन विलोकिताः स्वशरीरसमूत्थेनाग्रिना दह्यमाना विनेशुः ।। 4-4-11 ।।

सगरोऽप्यनुगम्याश्वानुसारि तत् पुत्रबलमशेषं परमर्षिकपिलतेजसा दग्धमंशुमन्तमसमञ्जसः पुत्रमश्वानयनाय चोदयामास ।। 4-4-12 ।।

स तु सगरतनयखातमार्गेम कपिलमुपगम्य भक्ति नम्रस्तथा तथा च तुष्टाव, यथैनं भगवानाह, गच्छैनं पितामहायाश्वं प्रापय, त्ररं वृणीष्व च । पुत्र ! पौत्रश्व ते स्वर्गादू गङ्गामानयिष्यतीति ।। 4-4-13 ।।

अथांशुमानपि ब्रह्मदण्डहतानामस्मत्पितृणां स्वर्गाय स्वर्गायोग्याना स्वर्गप्राप्तिकरं वरमस्माकं भगवान् प्रयच्छतु इत्याह ।। 4-4-14 ।।

तञ्चाह भगवान्,--उक्तमेवैतन्मया पौत्रस्ते त्रिदिवादू गङ्गां भुवमानयिष्य तीति। तदम्भसा संस्पृष्टेष्वस्थि भस्मस्वेते स्वर्गमारोक्ष्यन्ति । भगवदूविष्ण पादाङ्ग ष्ठविनिर्गतजलस्य हि तन्माहात्म्यं यन्न केवलमभिसन्धिपूर्व्वकं स्त्रानाद्यु पभोगेषूपकारकम्, अनभिसंहितमप्यपेततूप्राणस्यास्थि-चर्म्म-स्त्रायु केशाद्यु तूसृष्टं शरी रजं यदूभूपतितं सद्यः शरीरिणां स्वर्ग नयतीत्युक्तः प्रणाम्य च भगवतेऽश्वमादाय पितामहयज्ञमाजगाम ।। 4-4-15 ।।

सगरोऽस्याश्वमादय तं यज्ञ समापयामास । सागरञ्चात्मजप्रीत्या पुत्रत्वे कल्पयामास ।। 4-4-16 ।।

तस्याप्यंशुमतो दिलीपः पुत्रोऽभवत् । दिलीपस्यापि --भगीरथः, योऽसौ गङ्गां स्वर्गादिहानीय भागीरथी संज्ञा चकार ।। 4-4-17 ।।

भगीरथात् श्रुतः, तस्यापि नाभागः, ततोऽप्यम्बरीषः, तस्मात् सिन्धुद्रीपः तस्याप्ययुताश्वः, ततूपुत्रऋतुपर्णो नलसहायोक्षह्टदयज्ञोऽभूत् ।। 4-4-18 ।।

ऋतुपर्ण-पुत्रः सर्व्वकामः । तत्तनयः सुदासः । सुदासात् सौदासोमित्रसहनामा ।। 4-4-19 ।।

योऽसावटव्यां मृगयागतो व्याघ्रदूयमपश्यत् ।। 4-4-20 ।।

ताभ्याञ्च तदू वनमपमृगं कृतम् ।। 4-4-21 ।।

स चाकं तयोर्वाणेन जघान ।। 4-4-22 ।।

म्रियमाणश्वासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभवत् ।। 4-4-23 ।।

द्रितीयोऽपि प्रतिक्रियां ते करिष्यामीत्युत्तवान्त र्धानं जगाम ।। 4-4-24 ।।

कालेन गच्छता स सौदासो यज्ञमयजत् । परि निष्ठितयज्ञ चाचार्य्यवशिष्ठे निष्कान्ते तद्रक्षो वशिष्ठरूपमास्थाय यज्ञावसाने मम समांसं भोजनं देयम्, तत् संष्कियतां क्षणादिहागमिष्यामीतुत्तवा निष्कान्तः ।। 4-4-25 ।।

भूयश्च सूदवेशं कृत्वा राजाज्ञया मानुषमांसं संस्कृत्य राज्ञ न्यवेदयत् ।
असावपि हिरण्यपात्र-स्थित मांसमादाय वशिष्ठागमनप्रतीक्षोऽभवत् ।। 4-4-26 ।।

आगताय च वशिष्ठाय निवेदितवान्, स चाचिन्तयत्, अहो! राज्ञोऽस्य दौःशील्यम्, येनैतन्मांसमस्माकं प्रयच्छति । किमेतदू द्रव्यजातमिति ध्यानपरोऽभूत्, अपश्यच्च तन्मानुषमांसम् । ततश्व यस्मादभोज्यमस्मदू विधानां तपस्विंनाम् अवगच्छ क्रोधकलुषीकृतचेता राजानं प्रति शाप मुतूससर्ज्ज, न्नपि भवान् मह्य ददाति, तस्मात्तवैवात्र लोलुपा बुद्धि र्भविष्यतीति ।। 4-4-27 ।।
अनन्तरञ्च तेनापि भगवतैवाभिहितोऽस्मीत्युक्तः किं किं मयैवाभि हितम् इति पुनरपि समाधौ तस्थौ ।। 4-4-28 ।।

समाधिविज्ञानावगतार्थश्वास्यानुग्रहं चकार, नात्यन्तमेतत्, द्रादशाब्दं भवतो भोजनं भविष्यतीति ।। 4-4-29 ।।

असावपि तु प्रगृह्योदकाञ्जलिं मुनिशापप्रदा नायोद्यतो भगवानस्मदू गुरुः नार्हस्येवं कुलदेवता भूतमाचार्य्यं शप्तु मिति स्वपत्न्या मदयन्त्या प्रसादितः । शस्याम्बुदरक्षार्थं तच्छापाम्बु नोर्व्व्या नाकाशे चिक्षेप, तेनैव स्वपादौ सिषेच ।। 4-4-30 ।।

तेन क्रोधश्वृतेनाम्भसा दग्धच्छायौ ततूपादौ कल्माषतामुपगतौ ।। 4-4-31 ।।

ततश्व स कल्माषपादसंज्ञामवाप, वशिष्ठशापाच्च षष्ठे काले राक्षसभावमुपेत्याटव्यां पर्य्यटन्ननेकशो मानुषानभक्षयत् ।। 4-4-32 ।।

एकदा तु कञ्चिन्मुनिमृतुकाले भार्य्यया सह सङ्गतं ददर्श ।। 4-4-33 ।।

तयोश्च तमतिभीषणां राक्षसमवलोक्य त्रासात् प्रधावितयोर्दम्पत्योर्ब्राह्ममं जग्राह ।। 4-4-34 ।।
ततः सा ब्राह्मणी बहुशस्तं याचितवती, प्रसीद इक्ष्वाकुकुलतिलकभूतस्त्वं महाराजमित्रसहः न राक्षसः । नार्हसि स्त्रीधर्म्मसुखाभिज्ञो मय्य
कृतार्थाया मिमं मद्भर्त्तारमत्तुम्, इत्येवं बहुप्रकारं तस्यां विल पन्त्यां व्याघ्रः पशुमिव तं ब्राह्मणमभक्षयत् ।। 4-4-35 ।।

ततश्वातिकोपसमन्विता ब्राह्मणी तं राजानं यस्मा देवं मय्यतृप्तायां त्वयायं--मतूपतिर्भक्षितः, तस्मात् त्वमप्यन्तमवलोपभोगप्रवृत्तौ प्राप्स्यसि इति शशा पाग्रिं प्रविवेश च ।। 4-4-36 ।।

ततस्तस्य द्रादशाब्दपर्य्यये विमुक्तशापस्य स्त्री विषयाभिलाषिणो मदयन्ती स्मारयामास । ततश्व परमसौ स्त्रीसम्भोगं तत्याज ।। 4-4-37 ।।

वशिष्ठश्व-अपुत्रिणा राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार । यदा च स्प्त वषोण्यसौ गर्भो न जज्ञे, ततस्तं गर्भमश्मना देवी जघान । पुत्राश्वा जायत । तस्य चाश्मक एव नामाभवत् । अश्मकस्य मूलको नाम पुत्रोऽभवत् । योऽसौ निः क्षत्त्रेऽस्मिन् क्ष्मातले क्रियमाणे स्त्रीभिर्विव स्त्राभिः परिवार्य्य रक्षितः । ततस्तं नारीकवचमुदाहरन्ति । मूलकादू दशरथः तस्मादिलिविलः, ततश्व विश्वसहः तस्माच्च खट्वाङ्गा दिलीपः । योऽसौ देवासुराणा रग्रामे देवताभिरंभ्यर्थितोऽसुरान्
जघान । स्वर्गे च कृतप्रियैर्देवैर्वरार्थं चोदितः प्राह,--यद्यवश्यं वरो ग्राह्यस्तन्ममायुः कथ्यतामिति । अनन्तरञ्चतैरुक्तम् एकमुहूर्त्तप्रमाण मायुः । इत्युक्तोऽस्ख लितगतिना विमानेन लघिमगुणो मर्त्त्यलोकमागम्याह, --यथा न ब्राह्मणेभ्यः सकाळादात्मापि मे प्रियतरः न चापि स्वघर्म्मो ल्लङ्घनं मया कदाचि दप्यनुष्ठितम्, न च सकलदेवमानुष-पशु-वृक्षादिकेऽप्यच्युतव्यतिरेकवती दृष्टिर्ममाभूत्, तथा तमेव देवं मुनिजनानुस्मृत भगवन्तमस्खलितगतिरद्य प्रापयेय मित्यशेषदेवगुरो भगवत्यनिर्द्देश्यवपुषि सत्तामात्रा त्मन्यात्मानं परमात्मनि वासुदेवे युयोज, तत्रैव लयमवाप ।। 4-4-38 ।।

तत्रापि श्रूयते श्लोको गीतः सप्तर्षिभिः पुरा ।
खट्वाङ्गने समो नान्यः कश्वदुर्व्व्यां भविष्यति ।।
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ।
त्रयोऽभिसंहिता लोका बुदूध्या दानेन चैव हि ।। 4-4-39 ।।

खट्वाङ्गतो दीर्घबाहुः पुत्रोऽभवत् । ततो रघुः, तस्मादप्यजः, अजादू दशरथः, दशरथस्यापि श्रीभगवान् अब्जनाभो जगत्स्थित्यर्थमात्मांशेन राम
लक्ष्मण-भरत-शत्रुघ्ररूपिणा चतुर्द्धा पुत्रत्वमयासीत् ।। 4-4-40 ।।

रामोऽपि बाल एव विश्वामित्रयज्ञरक्षणाय गच्छंस्ताड़कां जघान ।। 4-4-41 ।।

यज्ञे च मीरीचमिषुपाताहतं दूरं चिक्षेप, सुबाहुप्रमुखाश्व क्षयमनयत् । सन्दर्शनमात्रेणैवाहल्या मपापां चकार । जनकगृहे च माहेश्वरं चापमनायासैनैव बभञ्ज सीताञ्चयोनिजां जनकाराजतनयां वीर्य्यशुल्कां लेभे ।। 4-4-42 ।।

सकलक्षत्रयकारिणमशेषहैहयकुलकेतुभूतञ्च परशुराममपास्तवीर्य्य-बला वलेपं चकार ।। 4-4-43 ।।

पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्य्या समन्वितो वन विवेशा ।। 4-4-44 ।।

विराध-खर-दूषणादीन् कबन्ध-वालिनौ च जघान । बद्ध्वा चाम्भोनिधिम् अशेषराक्षसकुलक्षयं कृत्वा दशाननापह्टतां तदूधापहतकलङ्कामप्यनलप्रवेश शुद्धामशेषदेवेशसस्तूयमानां सीतां जनकराजतनयामयो ध्यामानिन्ये ।। 4-4-45 ।।

भरतोऽपि गन्धर्व्वविषयसाधनायोग्रगन्धर्व्वकोटीस्तिस्त्रो जघान । शत्रुघ्नेमाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसेश्वरो निहतो मथुरा च निवेशिता ।

इत्येवमाद्यतुलबलपराक्रमविक्रमणोरति दुष्टनिवर्हणौस्यास्य जगतो निष्पा दितस्थितयो राम-लक्ष्मण-भरत-शत्रुघ्राः पुनर्द्दिवमारूढाः । योऽपि तेषु भगवदंशेष्वनुरागिणः कोशलनगरजनपदास्तेऽपि तन्मनसस्ततूसलोकतामवापुः ।। 4-4-46 ।।

रामस्य तू कुश-सवो पुत्रौ, लक्ष्मणस्याङ्गद-चन्द्रकेतू, तक्ष-ष्करौ भरतस्य, सुबाहु-शूरसेनौ च शत्रघ्रस्य ।। 4-4-47 ।।

कुशस्यातिथिः, अतिथेरपि निषधः पुत्रोऽभवत् । निषधस्यापि नलः, तस्यापि नभाः, नभसः पुण्डरीकः, तत्तनयः क्षेमधन्वा, तस्य च देवानीकः । तस्याप्यहीनगुः (ततो रूपः) ततो रुरुः, तस्य च पारिपात्रः, पारिपात्राद्दलः, दलाच्छलः, तस्याप्यु कूथः, उकूथादू वजूनाभः, तस्मात शङ्खनाभः, ततो व्युत्थिताश्वः, ततश्व विश्वसहो जज्ञे । हिरण्यनाभ स्ततो महायोगीश्वरजैमिनिशिष्यः । यतो याज्ञवल्क्यो योगमवाप ।
हिरण्यनाभस्य पुत्रः पुष्यः, तस्मादू ध्रु वसन्धिः, ततः सुदर्शनः, तस्माद ग्रिवर्णः ततश्व शीघ्रः ततोऽपि मरुः पुत्रोऽभूत् ! योऽसौ योगमास्थायाद्यापि कलापग्राममाश्रितस्तिष्ठति । आगामियुगे सूर्य्यवंशक्षत्रप्रवर्त्तयिता भविष्यतीति प्रसुश्रु तस्तस्यात्मजः,तस्यापि सुगन्धिः, ततश्वामर्षः, तस्य महस्वान् ततो विश्रुतवान् ततो बृहदूबलः, योऽर्ज्जुनतनयेनाभिमन्युना भारतयुद्धे क्षयमनीयत ।। 4-4-48 ।।

एते हीक्ष्वाकुभूपालाः प्राधान्येन मयोदिताः ।
एतेषाञ्चरितं श्वृण्वन् सर्व्वपापैः प्रमुच्यते ।। 4-4-49 ।।