विष्णुपुराणम्/चतुर्थांशः/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४


श्रीपराशर उवाच
यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः १
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे २
तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन् ३
वृष्टस्यापि वार्ष्टकं क्षत्त्रमभवत् ४
नाभागस्यात्मजो नाभागसंत्रोभवत् ५
तस्याप्यंबरीषः ६
अंबरीषस्यापि विरूपोभवत् ७
विरूपात्पृषदश्वो जज्ञे ८
ततश्च रथीतरः ९
अत्रायं श्लोकः
एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः
रथीतराणां प्रवराः क्षत्त्रोपेता द्विजातयः इति १०
क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ११
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदंडाख्यास्त्रयः पुत्रा बभूवुः १२
शकुनिप्रमुखाः पंचाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः १३
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः १४
स चेक्ष्वाकुरष्टकायाश्श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास १५
स तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रांतोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत्
श्षॐ च मांसमानीय पित्रे निवेदयामास १६
इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह
अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः १७
ततश्चासौ विकुक्षिर्गुरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः १८
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतश्शाशास १९
शशादस्य तस्य पुरंजयोनाम पुत्रोभवत् २०
तस्येदं चान्यत् २१
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् २२
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवंतं विष्णुमाराधयांचक्रुः २३
प्रसन्नश्च देवानामनादिनिधनोखिलजगत्परायणो नारायणः प्राह २४
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम् २५
पुरंजयो नाम राजर्षेश्शशादस्य तनयः क्षत्त्रियवरो यस्तस्य शरीरेहमंश्नो स्वयमेवावतीर्य तानश्षोआ!नसुरान्निहनिष्यामि तद्भवद्भिः पुरंजयोऽसुरवधार्थमुद्योगं कार्यतामिति २६
एतच्च श्रुत्वा प्रणम्य भगवंतं विष्णुममराः पुरंजयसकाशमाजग्मुरूचुश्चैनम् २७
भोभोः क्षत्त्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभंगो न कार्य इत्युक्तः पुरंजयः प्राह २८
त्रैलोक्यनाथो योयं युष्माकमिंद्र ः! शतक्रतुरस्य यद्यहं स्कंधाधिरूढो युष्माकमरातिभस्सह योत्स्ये तदहं भवतां सहायः स्याम् २९
इत्याकर्ण्य समस्तदेवैरिंद्रे ण च बाढमित्येवं समन्विच्छितम् ३०
ततश्च शतक्रतोर्वृषरूपधारिणः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चराचरगुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ३१
यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप ३२
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ३३
पृथुरनेनसः ३४
पुथोर्विष्टराश्वः ३५
तस्यापि चांद्रो युवनाश्वः ३६
चांद्र स्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ३७
शावस्तस्य बृहदश्वः ३८
तस्यापि कुवलयाश्वः ३९
योसावुदकस्य महर्षेरपकारिणं दुंदुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जघान दुंदुमारसंज्ञामवाप ४०
तस्य च तनयास्समस्ता एव दुंदुमुखनिश्वासाग्निना विप्लुष्टा विनेशुः ४१
दृढाश्वचंद्रा श्वकपिलाश्वाश्च त्रयः केवलं शो!षिताः ४२
वृढाश्वाद्धर्यश्वः ४३
तस्माच्च निकुंभः ४४
निकुंभस्यामिताश्वः ४५
ततश्च कृशाश्वः ४६
तस्माच्च प्रसेनजित् ४७
प्रसेनजितो युवनाश्वोभवत् ४८
तस्य चापुत्रस्यातिनिर्वेदान्मुनीनामाश्रममंडले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता ४९
तस्यां च मध्यरात्रौ निवृत्तायां मंत्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ५०
सुप्तेषु तेषु अतीव तृट्परीतस्स भूपालस्तमाश्रमं विवेश ५१
सुप्तांश्च तानृषीन्नैवोत्थापयामास ५२
तच्च कलशमपरिमेयमाहात्म्यमंत्रपूतं पपौ ५३
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मंत्रपूतं वारि पीतम् ५४
अत्र हि राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति
इत्याकर्ण्ये स राजा अजानता मया पीतमित्याह ५५
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे ५६
प्राप्तसमयश्च दक्षिणांगुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ५७
स चासौ राजा ममार ५८
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ५९
अथागत्य देवराजोब्रवीत् मामयं धास्यतीति ६०
ततो माधातृनामा सोभवत्
वक्त्रे चास्य प्रदेशिनी न्यस्ता देवेंद्रे ण न्यस्तातां पपौ ६१
तां चामृतस्राविणीमास्वाद्याह्नैव स व्यवर्द्धत ६२
ततस्तु मांधाता चक्रवर्त्ती सप्तद्वीपां महीं वुभुजे ६३
तत्रायं श्लोकः ६४
यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति
सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ६५
मांधाता शतबिंदोर्दुहितरं बिंदुमतीमुपयेमे ६६
पुरुकुत्समंबरीषं मुचुकुंदं च तस्यां पुत्रत्रयमुत्पादयामास ६७
पंचाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ६८
एकस्मिन्नंतरे बह्वृचश्च सौभरिर्नाम महर्षिरंतर्जले द्वादशाब्दं कालमुवास ६९ तत्र चांतर्जले संमदो नामातिबहु- प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ७०
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमंतस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ७१
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुतरां रेमे ७२
अथांतर्जलावस्थितस्सौभरिरेकाग्रतस्समाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रादिभिस्सहातिरमणीयतामवेक्ष्याचिंतयत् ७३
अहो धन्योयमीदृशमनभिमतं योन्यंतरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिस्सह रममाणोतीवास्माकं स्पृहामुत्पादयति ७४
वयमप्येवं पुत्रादिभिस्सह ललितं रमिष्याम इत्येवमभिकांक्षन् स तस्मादंतर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मांधातारं राजानमगच्छत् ७५
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ७६
सौभरिरुवाच
निवेष्टुक्
आमोऽस्मिनरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशो! विमुखाः प्रयांति ७७
अन्येपि संत्येव नृपाः पृथिव्यां मांधातरेषां तनयाः प्रसूताः
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते ७८
शतार्धसंख्यास्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ
यत्प्रार्थनाभंगभयाद्बिभेमि तस्मादहं राजवरातिदुःखात् ७९
श्रीपराशर उवाच
इति ऋषिवचनमाकर्ण्य स राजा जराजर्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किंचिदधोमुखश्चिरं दध्यौ च ८०
सौभरिरुवाच
नरेंद्र कस्मात्समुपैषि चिंतामसह्यमुक्तं न मयात्र किंचित्
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ८१
श्रीपराशर उवाच
अथ तस्य भगवतश्शापभीतस्सप्रश्रयस्तमुवाचासौ राजा ८२
राजोवाच
भगवन् अस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजनवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचरवर्त्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाऽचिंत्यत इत्यभिहिते च तेन भूभुजा मुनिरचिंतयत् ८३
अयमन्योऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमत कन्याकानामित्यमुना संचिंत्यैतदभिहितमेवमस्तु तथा करिष्यामीति संचिंत्य मांधातारमुवाच ८४
यद्येवं तदादिश्यतामस्माकं प्रवेशाय
कंन्यांतःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ८५
ततश्च मांधात्रा मुनिशापशं कितेन कन्यांतःपुरवर्षधरस्समाज्ञप्तः ८६
तेन सह कन्यांतःपुरं प्रविशन्नेव भगवानखिलसिद्धगंधर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ८७
प्रवेश्य च तमृषिमंतःपुरे वर्षधरस्ताः कन्याः प्राह ८८
भवतीनां जनयिता महाराजस्समाज्ञापयति ८९
अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ९०
मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवंतं वरयति तत्कन्याच्छंदे नाहं परिपंथानं करिष्यामीत्याकर्ण्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः करेणव इव मृगयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश्च ९१
अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः
ममैष भर्त्ता विधिनैव सृष्टस्सृष्टाहमस्योपशमं प्रयाहि ९२
वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम्
मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ९३
यदा मुनिस्ताभिरतीवहार्दाद्वृतस्स कन्याभिरनिंद्यकीर्तिः
तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्त्तिः ९४
श्रीपराशर उवाच
तदवगमात्किंकिमेतत्कथमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने ९५
कृतानुरूपविवाहश्च महर्षिस्सकला एव ताः कन्यास्स्वमाश्रममनयत् ९६
तत्र चाऽशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपंकजाः कूजत्कलहंसकारंडवादिविहंगमाभिरामजलाशयास्सोपधानाः
सावकाशास्साधुशय्यापरिच्छदाः प्रासादाः क्रियंतामित्यादिदेश ९७
तच्च तथैवानुष्ठितमश्षोशिल्पविशेषाचार्यस्त्वष्टा दर्शितवान् ९८
ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानंदकुंदमहानिधिरासांचक्रे ९९
ततोऽनवरतेन भक्ष्यभोज्यलेह्याद्युपभोगैरागतानुगतभृत्यादीनहर्निशमश्षोगृहेषु ताः क्षितीशदुहितरो भोजयामासुः १००
एकदा तु दुहितृस्नेहाकृष्टहृदयस्स महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिंत्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श १०१
प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत् १०२
अप्यत्र वत्से भवत्यास्सुखमुत किंचिदसुखमपि ते महर्षिस्स्नेहवानुत न स्मर्यतेस्मद्गृहवास इत्युक्ता तं तनया पितरमाह १०३
तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहंगमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुकूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् १०४
तथापि केन वा जन्मभूमिर्न स्मर्यते १०५
त्वत्प्रसादादिदमश्षोमतिशोभनम् १०६
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयम्मद्भर्त्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्त्तिनीनामन्यासामस्मद्भगिनीनाम् १०७
एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपविष्टस्तथैव पृष्टवान् १०८
तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्त्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत् १०९
सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भरविवशहृदयो भगवंतं सौभरिमेकांतावस्थितमुपेत्य कृतपूजोब्रवीत् ११०
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिभिर्विलसितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किंचित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम १११
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ११२
अनुदिनानुरूढस्नेहप्रसरश्च स तत्रातीवममताकृष्टहृदयोऽभवत् ११३
अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पश्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिंतयामास ११४
अहो मे मोहस्यातिविस्तारः ११५
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः
पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयस्संति पुनर्नवानाम् ११६
पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः
दृष्टाः सुतास्तत्तनयप्रसूतिं द्र ष्टुं पुनर्वांच्छति मेंऽतरात्मा ११७
द्र क्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः
पुर्णेपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ११८
आमृत्युतो नैव मनोरथानामंतोस्ति विज्ञातमिदं मयाद्य
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ११९
स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्सहसैव नष्टः
परिग्रहस्संगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा १२०
दुःखं यदैवैकशरीरजन्म शतार्द्धसंख्याकमिदं प्रसूतम्
परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत १२१
सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां परिग्रहेण
विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः १२२
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्द्धिरेषा तपसॐतरायः
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेन १२३
निस्संगता मुक्तिपदं यतीनां संगादश्षोआः! प्रभवंति दोषाः
आरूढयोगो विनिपात्यतेधस्संगेन योगी किमुताल्पबुद्धिः १२४
अहं चरिष्यामि तदात्मनोर्थे परिग्रहग्राहगृहीतबुद्धिः
यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी १२५
सर्वस्य धातारमचिंत्यरूपमणोरणीयांसमतिप्रमाणम्
सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् १२६
तस्मिन्नश्षोऔ!जसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनंते
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः १२७
समस्तभूतादमलादनंतात्सर्वेश्वरादन्यदनादिमध्यात्
यस्मान्न किंचित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा १२८
श्रीपराशर उवाच
इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमश्षोमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश १२९
तत्राप्यनुदिनं वैखानसनिष्पाद्यमश्षोक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् १०३
भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतं पदम् १३१
इत्येतन्मांधातृदुहितृसंबंधादाख्यातम् १३२
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट् जन्मानि दुस्संततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणमश्षोहेतुषु वा ममत्वं न भवति १३३
इति श्रीविष्णुमहापुराणे चतुर्थांशो! द्वितीयोऽध्यायः २