सामग्री पर जाएँ

विष्णुपुराणम्/चतुर्थांशः/अध्यायः २

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४


॥ अथ द्वितीयोऽध्यायः ॥
(इक्ष्वाकुवंशवर्णना सौभरिचरित्रञ्च)

श्रीपराशर उवाच
यावच्च ब्रह्मलोकात् सः ककुद्मी रैवतो नाभ्येति तावत् पुण्यजनसंज्ञा राक्षसाः ताम् अस्य पुरीं कुशस्थलीं निजघ्नुः ॥१॥
तच्चास्य भ्रातृशतं पुण्यजनत्रासात् दिशो भेजे ॥२॥
तदन्वयाश्च क्षत्रियाः सर्वदिक्षु अभवन् ॥३॥
धृष्टस्यापि धार्ष्टकं क्षत्रमभवत् ॥४॥
नाभागस्यात्मजो नाभागसंज्ञोऽभवत् ॥५॥
तस्याप्यम्बरीषः ॥६॥
अम्बरीषस्यापि विरूपोऽभवत् ॥७॥
विरूपात् पृषदश्वो जज्ञे ॥८॥
ततश्च रथीतरः ॥९॥

अत्रायं श्लोकः –
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृताः ।
रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥१०॥

क्षुवतश्च मनोः इक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥११॥
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्याः त्रयः पुत्रा बभूवुः ॥१२॥
शकुनिप्रमुखाः पञ्चाशत् पुत्राः उत्तरापथरक्षितारो बभूवुः ॥१३॥
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥१४॥
स चेक्ष्वाकुः अष्टकायाः श्राद्धम् उत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिम् आज्ञापयामास ॥१५॥
स तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्य, अनेकशो मृगान् हत्वा, श्रान्तः अतिक्षुत्परीतो विकुक्षिः एकं शशम् अभक्षयत् । शेषं च मांसमानीय पित्रे निवेदयामास ॥१६॥
इक्ष्वाकुकुलाचार्यो वसिष्ठस्तत्प्रोक्षणाय चोदितः प्राह - “अलमनेन अमेध्येन आमिषेण । दुरात्मना तव पुत्रेण एतन्मांसम् उपहतं यतोऽनेन शशो भक्षितः” ॥१७॥
ततश्चासौ विकुक्षिः गुरुणा एवम् उक्तः शशादसंज्ञाम् अवाप, पित्रा च परित्यक्तः ॥१८॥
पितर्युपरते च असौ अखिलामेतां पृथ्वीं धर्मतः शशास ॥१९॥
शशादस्य तस्य पुरञ्जयो नाम पुत्रोऽभवत् ॥२०॥

तस्येदं चान्यत् ॥२१॥
पुरा हि त्रेतायां देवासुरयुद्धम् अतिभीषणम् अभवत् ॥२२॥ तत्र चातिबलिभिः असुरैः अमराः पराजिताः, ते भगवन्तं विष्णुम् आराधयाञ्चक्रुः ॥२३॥
प्रसन्नश्च देवानाम् अनादिनिधनः अखिलजगत्परायणो नारायणः प्राह ॥२४॥
“ज्ञातमेतन्मया युष्माभिः यदभिलषितं तदर्थमिदं श्रूयताम् ॥२५॥
पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यः, तस्य शरीरेऽहमंशेन स्वयमेव अवतीर्य, तान् अशेषान् असुरान् निहनिष्यामि, तद्भवद्भिः पुरञ्जयः असुरवधार्थम् उद्योगं कार्यताम्” इति॥२६॥
एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशम् आजमुः ऊचुश्चैनम् ॥२७॥
“भो भो क्षत्रियवर्य अस्माभिः अभ्यर्थितेन भवता अस्माकम् अरातिवधोद्यतानां कर्तव्यं साहाय्यम् इच्छामः तद्भवता अस्माकम् अभ्यागतानां प्रणयभङ्गो न कार्य” इत्युक्तः पुरञ्जयः प्राह ॥२८॥
“त्रैलोक्यनाथो योऽयं युष्माकमिन्द्रः शतक्रतुः अस्य यदि अहं स्कन्धाधिरूढो युष्माकम् अरातिभिः सह योत्स्ये तदहं भवतां सहायः स्याम” ॥२९॥
इत्याकर्ण्य समस्तदेवैः इन्द्रेण च बाढमित्येवं समन्वीप्सितम् ॥३०॥
ततश्च शतक्रतोः वृषरूपधारिणः ककुदि स्थितः अतिरोषसमन्वितो भगवतः चराचरगुरोः अच्युतस्य तेजसा आप्यायितो देवासुरसङ्ग्रामे समस्तानेव असुरान् निजघान ॥३१॥
यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितम् अतश्चासौ ककुत्स्थसंज्ञाम् अवाप ॥३२॥

ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ॥३३॥
पृथुरनेनसः ॥३४॥
पृथोर्विष्टराश्वः ॥३५॥
तस्यापि चान्द्रो युवनाश्वः ॥३६॥
चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥३७॥
शावस्तस्य बृहदश्वः ॥३८॥
तस्यापि कुवलयाश्वः ॥३९॥
योऽसौ उदकस्य महर्षेः अपकारिणं धुन्धुनामानम् असुरं वैष्णवेन तेजसा आप्यायितः पुत्रसहस्रैः एकविंशद्भिः परिवृतो जघान धुन्धुमारसंज्ञाम् अवाप ॥४०॥
तस्य च तनयास्समस्ता एव धुन्धुमुखनिःश्वासाग्निना विप्लुष्टा विनेशुः ॥४१॥
दृढाश्वचन्द्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ॥४२॥
दृढाश्वात् हर्यश्वः ॥४३॥
तस्माच्च निकुम्भः ॥४४॥
निकुम्भस्यामिताश्वः ॥४५॥
ततश्च कृशाश्वः ॥४६॥
तस्माच्च प्रसेनजित् ॥४७॥
प्रसेनजितो युवनाश्वोऽभवत् ॥४८॥
तस्य च अपुत्रस्य अतिनिर्वेदात् मुनीनाम् आश्रममण्डले निवसतो दयालुभिः मुनिभिः अपत्योत्पादनाय इष्टिः कृता ॥४९॥
तस्यां च मध्यरात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेश्य ते मुनयः सुषुपुः ॥५०॥
सुप्तेषु तेषु अतीव तृट्परीतः स भूपालः तमाश्रमं विवेश ॥५१॥
सुप्तांश्च तान् ऋषीन् नैव उत्थापयामास ॥५२॥
तच्च कलशम् अपरिमेयमाहात्म्यमन्त्रपूतं पपौ ॥५३॥
प्रबुद्धाश्च ऋषयः पप्रच्छुः “केनैतन्मन्त्रपूतं वारि पीतम् ॥५४॥
अत्र हि राज्ञो युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति” । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥५५॥
गर्भश्च युवनाश्वस्योदरे अभवत् क्रमेण च ववृधे ॥५६॥
प्राप्तसमयश्च दक्षिणं कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥५७॥
स चासौ राजा ममार ॥५८॥
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥५९॥
अथागत्य देवराजोऽब्रवीत् मामयं धास्यतीति ॥६०॥
ततो मान्धातृनामा सोऽभवत् ।
वक्त्रे चास्य प्रदेशिनी देवेन्द्रेण न्यस्ता तां पपौ ॥६१॥
तां चामृतस्राविणीम् आस्वाद्य अह्नैव स व्यवर्धत ॥६२॥
ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं बुभुजे ॥६३॥

तत्रायं श्लोकः ॥६४॥
यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥६५॥

मान्धाता शतबिन्दोर्दुहितरं बिन्दुमतीम् उपयेमे ॥६६॥
पुरुकुत्सम् अम्बरीषं मुचुकुन्दं च तस्यां पुत्रत्रयम् उत्पादयामास ॥६७॥
पञ्चाशद्दुहितरः तस्यामेव तस्य नृपतेः बभूवुः ॥६८॥

तस्मिन्नन्तरे बह्वृचश्च सौभरिर्नाम महर्षिः अन्तर्जले द्वादशाब्दं कालमुवास ॥६९॥
तत्र चान्तर्जले सम्मदो नाम अतिबहुप्रजः अतिमात्रप्रमाणः मीनाधिपतिः आसीत् ॥७०॥
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तः तेनैव सदा अहर्निशम् अतिनिर्वृत्ता रेमिरे ॥७१॥
स च अपत्य-स्पर्श-उपचीयमान-प्रहर्ष-प्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतः तैः आत्मजपुत्रपौत्रदौहित्रादिभिः सह अनुदिनं सुतरां रेमे ॥७२॥अथ अन्तर्जल-अवतः सौभरिः एकाग्रतः समाधिम् अपहाय अनुदिनं तस्य मत्स्यस्य आत्मजपुत्रपौत्रदौहित्रादिभिः सह अतिरमणीयम् ललितम् अवेक्ष्य अचिन्तयत् ॥७३॥
“अहो धन्योऽयमीदृशम् अनभिमतं योन्यन्तरम् अवाप्य एभिः आत्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोऽतीव अस्माकं स्पृहाम् उत्पादयति ॥७४॥
वयमप्येवं पुत्रादिभिस्सह ललितं रंस्यामहे” इत्येवमभिकाङ्क्षन् स तस्मादन्तर्जलान्निष्क्रम्य सन्तानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत् ॥७५॥
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना सम्पूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥७६॥

सौभरिरुवाच
निवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभाङ्क्षीः ।
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति ॥७७॥
अन्येऽपि सन्त्येव नृपाः पृथिव्यां मान्धातरेषां तनयाः प्रसूताः ।
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतं श्लाघ्यमिदं कुलं ते ॥७८॥
शतार्धसंख्यास्तव सन्ति कन्यास्तासां ममैकां नृपते प्रयच्छ ।
यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरातिदुःखात् ॥७९॥

श्रीपराशर उवाच ।
इति ऋषिवचनमाकर्ण्य स राजा जराजर्जरितदेहम् ऋषिमालोक्य प्रत्याख्यानकातरः तस्माच्च शापभीतो बिभ्यत्किञ्चिदधोमुखः चिरं दध्यौ च ॥८०॥

सौभरिरुवाच
नरेन्द्र कस्मात्समुपैषि चिन्तामसह्यमुक्तं न मयात्र किञ्चित् ।
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥८१॥


श्रीपराशर उवाच
अथ तस्य भगवतः शापभीतः सप्रश्रयः तमुवाच असौ राजा ॥८२॥

राजोवाच
“भगवन् अस्मत्कुलस्थितिरियं, य एव कन्याया अभिरुचितोऽभिजनवान् वरः, तस्मै कन्यां प्रदीयते । भगवद्याच्ञा चास्मन्मनोरथानाम् अपि अतिगोचरवर्त्तिनी कथमप्येषा सञ्जाता । तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मया चिन्त्यत” इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥८३॥
“अयम् अन्यः अस्मत्प्रत्याख्यानोपायो – वृद्धोऽयम् अनभिमतः स्त्रीणां किमुत कन्याकानाम् इत्यमुना सञ्चिन्त्य एतदभिहितम् । एवमस्तु तथा करिष्यामि” इति सञ्चिन्त्य मान्धातारमुवाच ॥८४॥
“यद्येवं तदादिश्यताम् अस्माकं प्रवेशाय कन्यान्तःपुरवर्षवरः । यदि कन्यैव काचिन्मामभिलषति तदाहं दारसङ्ग्रहं करिष्यामि । अन्यथा चेत् तदलम् अस्माकम् एतेन अतीतकालारम्भणेन” इत्युक्त्वा विरराम ॥८५॥
ततश्च मान्धात्रा मुनिशापशङ्कितेन कन्यान्तःपुरवर्षधरः समाज्ञप्तः ॥८६॥
तेन सह कन्यान्तःपुरं प्रविशन्नेव भगवान् अखिलसिद्धगन्धर्वेभ्यः अतिशयेन कमनीयं रूपमकरोत् ॥८७॥
प्रवेश्य च तमृषिम् अन्तःपुरे वर्षवरः ताः कन्याः प्राह ॥८८॥
भवतीनां जनयिता महाराजः समाज्ञापयति ॥८९॥
“अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥९०॥
मया चास्य प्रतिज्ञातं – यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति, तत्कन्याच्छन्दे नाहं परिपन्थानं करिष्यामि” । इत्याकर्ण्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः करेणव इव इभयूथपतिं तमृषिम् अहमहमिकया वरयाम्बभूवुः ऊचुश्च ॥९१॥
अलं भगिन्योऽहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः ।
ममैष भर्त्ता विधिनैव सृष्टस्सृष्टाहमस्योपशमं प्रयाहि ॥९२॥
वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् ।
मया मयेति क्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥९३॥
यदा मुनिस्ताभिरतीव हार्दाद्वृतस्स कन्याभिरनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्त्तिः ॥९४॥

श्रीपराशर उवाच
तदवगमात् “किमेतत्, कथमेतत्, किं किं करोमि, किं मयाभिहितम्” इत्याकुलमतिः अनिच्छन्नपि कथमपि राजा अनुमेने ॥९५॥
कृतानुरूपविवाहश्च महर्षिः सकला एव ताः कन्याः स्वमाश्रमम् अनयत् ॥९६॥
तत्र च अशेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणम् आहूय सकलकन्यानाम् एकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्-कलहंस-कारण्डवादि-विहङ्गम-अभिराम-जलाशयाः सोपधानाः सावकाशाः साधुशय्यापरिच्छदाः प्रासादाः क्रियन्ताम् इत्यादिदेश ॥९७॥
ततः परमर्षिणा सौभरिणाज्ञप्तः तेषु गृहेषु अनिवार्यानन्दनामा महानिधिः आसाञ्चक्रे ॥९९॥
ततः अनवरतेन भक्ष्य-भोज्य-लेह्यादि-उपभोगैः आगतानुगतभृत्यादीन् अहर्निशम् अशेषगृहेषु ताः क्षितीशदुहितरो भोजयामासुः ॥१००॥
एकदा तु दुहितृस्नेहाकृष्टहृदयः स महीपतिः अतिदुःखिताः ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेः आश्रमसमीपम् उपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालाम् अतिरम्योपवनजलाशयां ददर्श ॥१०१॥
प्रविश्य चैकं प्रासादम् आत्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनाम्बुगर्भनयनः अब्रवीत् ॥१०२॥
“अप्यत्र वत्से भवत्याः सुखम् उत किञ्चिदसुखम् । अपि ते महर्षिः स्नेहवान् उत न स्मर्यते अस्मद्गृहवास” इत्युक्ता तं तनया पितरमाह ॥१०३॥
“तात अतिरमणीयः प्रासादः अत्र, अतिमनोज्ञम् उपवनम्, एते कल-वाक्य-विहङ्गम-अभिरुताः प्रोत्फुल्ल-पद्माकर-जलाशयाः, मनो-अनुकूल-भक्ष्य-भोज्यानुलेपन-वस्त्र-भूषणादि-भोगः, मृदूनि शयनासनानि सर्वसम्पत्समेतं मे गार्हस्थ्यम् ॥१०४॥
तथापि केन वा जन्मभूमिर्न स्मर्यते ॥१०५॥
त्वत्प्रसादात् इदमशेषम् अतिशोभनम् ॥१०६॥
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिः अयं मद्भर्त्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्ती नान्यासाम् अस्मद्भगिनीनाम् ॥१०७॥
एवं च मम सोदर्योऽतिदुःखिता इत्येवम् अतिदुःखकारणम्” इत्युक्तः तया, द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्यो उपविष्टः तथैव पृष्टवान् ॥१०८॥
तयापि च “सर्वमेतत् प्रासादादि-उपभोग-सुखं भृशम् आख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्त्ती नान्यासाम् अस्मद्भगिनीनाम्” इत्येवमादि श्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवापृच्छत् ॥१०९॥
सर्वाभिश्च ताभिः तथैवाभिहितः परितोष-विस्मय-निर्भर-विवश-हृदयो भगवन्तं सौभरिम् एकान्तावस्थितम् उपेत्य कृतपूजः अब्रवीत् ॥११०॥
“दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावः, नैवंविधम् अन्यस्य कस्यचित् अस्माभिः विभूतिभिः विलसितम् उपलक्षितं यदेतद्भगवतः तपसः फलम्” इत्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण सह किञ्चित्कालम् अभिमतोपभोगान् बुभुजे स्वपुरं च जगाम ॥१११॥
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥११२॥
अनुदिनानुरूढस्नेहप्रसरश्च स तत्र अतीव ममताकृष्टहृदयोऽभवत् ॥११३॥
“अप्येतेऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः, अप्येते यौवनिनो भवेयुः, अपि कृतदारानेतान् पश्येयम्, अप्येषां पुत्रा भवेयुः, अप्येतत्पुत्रान् पुत्रसमन्वितान् पश्यामि” इत्यादिमनोरथान् अनुदिनं कालसम्पत्तिप्रवृद्धान् उपेक्ष्य एतच्चिन्तयामास ॥११४॥
“अहो मे मोहस्यातिविस्तारः ॥११५॥

मनोरथानां न समाप्तिरस्ति वर्षायुतेनापि तथाब्दलक्षैः ।
पूर्णेषु पूर्णेषु मनोरथानामुत्पत्तयस्सन्ति पुनर्नवानाम् ॥११६॥
पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥११७॥
द्रक्ष्यामि तेषामिति चेत् प्रसूतिं मनोरथो मे भविता ततोऽन्यः ।
पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ॥११८॥
आमृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य ।
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥११९॥
स मे समाधिर्जलवासमित्रमत्स्यस्य सङ्गात् सहसैव नष्टः ।
परिग्रहः सङ्गकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥१२०॥
दुःखं यदैवैकशरीरजन्म शतार्धसङ्ख्याकमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत् ॥१२१॥
सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां च परिग्रहेण ।
विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥१२२॥
चीर्णं तपो यत्तु जलाश्रयेण तस्यर्द्धिरेषा तपसोऽन्तरायः ।
मत्स्यस्य सङ्गादभवच्च यो मे सुतादिरागो मुषितोऽस्मि तेन ॥१२३॥
निस्सङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः प्रभवन्ति दोषाः ।
आरूढयोगो विनिपात्यतेऽधः सङ्गेन योगी किमुताल्पबुद्धिः ॥१२४॥
अहं चरिष्यामि तदात्मनोऽर्थे परिग्रहग्राहगृहीतबुद्धिः ।
यदा हि भूयः परिहीनदोषो जनस्य दुःखैर्भविता न दुःखी ॥१२५॥
सर्वस्य धातारमचिन्त्यरूपमणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् ॥१२६॥
तस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनन्ते ।
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः ॥१२७॥
समस्तभूतादमलादनन्तात् सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किञ्चित् तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुम् ॥१२८॥

श्रीपराशर उवाच
इत्यात्मानम् आत्मनैव अभिधाय असौ सौभरिः अपहाय पुत्रगृहासनपरिच्छदादिकम् अशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश ॥१२९॥
तत्राप्यनुदिनं वैखानसनिष्पाद्यम् अशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिः आत्मनि अग्नीन् समारोप्य भिक्षुः अभवत् ॥१३०॥
भगवति आसज्य अखिलं कर्मकलापं हित्व अनन्तम् अजम् अनादिनिधनम् अविकारमरणादिधर्मम् अवाप परमनन्तं परवताम् अच्युतं पदम् ॥१३१॥
इत्येतन्मान्धातृदुहितृसम्बन्धादाख्यातम् ॥१३२॥
यश्चैतत् सौभरिचरितम् अनुस्मरति पठति पाठयति शृणोति श्रावयति धरति अवधारयति लिखति लेखयति शिक्षयति अध्यापयति उपदिशति वा तस्य षड् जन्मानि दुस्सन्ततिः असद्धर्मो वाङ्मनसयोः असन्मार्गाचरणम् अशेषहेतुषु वा ममत्वं न भवति ॥१३३॥

॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे द्वितीयोऽध्यायः ॥