विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४


मैत्रेय उवाच ।
हिरणयकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ।।
न लयं तत्र तेनैव निहतः स कथं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ।।
एतदिच्छाम्यहं श्रोतु सर्व्वधर्म्मभृतां वर !
कौतूहलपरेणौतत् पृष्टो मे वक्तमर्हसि ।। ४-१५-१ ।।

दैत्येश्वरस्य तु वधायाखिललोकोतूपत्तिस्थितिपर्व्वतनु गृह्णाता नृसिंहरूपमाविष्कृतम् । तत्र हिरणयकशिपोर्व्विष्णुरयमित्येवं न मनस्यभूत ।। ४-१५-२ ।।


निरतिशयपुणयजातसम्भूतमेतत् सत्त्वमिति रजो द्रे कप्रेरितंकाग्रमति
भद्राश्व-भद्रबाह-द्रर्दृम-भूताद्या वधहेतुकां निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे बोगसम्पदमवाप ।। ४-१५-३ ।।

नातस्तस्मिम्मनादिनिधने परब्रह्मभूते भगव त्यनालम्ब्रनीकृते मनसस्तत्रलयम ।। ४-१५-४ ।।
दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्त चेतसो दाखारथिरूपधा रिणस्तद्रू पदर्शनमेवासीत्, नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तः करणस्य मानुषबुद्धिरेव केवलमभूत् ।। ४-१५-५ ।।

पुनरच्युतविनिपातमांत्रफलमखिल-भूमणडलश्व्लाघ्य चेदिराजकुलजन्माव्याह तञ्चैश्वर्य्यं शिशुपालत्वे चावाप ।। ४-१५-६ ।। १०

तत्र त्वखिलान्येव भगवन्नामकारणान्यभवन् । ततश्व तत्कारणकृतानां तेषामशेषाणामेवाच्युत् नाम्रामनवरतमनेकजन्मसंवर्द्धितविदूषोनुबन्धिचित्तो विनिन्दन् सन्तर्ज्जनादिषु उज्वारणमकरोत् ।। ४-१५-७ ।।

तज्व रूपमुत् फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधारी अमल-किरीटकेयूर-कटकोपशोभितमुदारपीवरचतुर्बाहु शङ्ख-चक्र-गदासिधरमतिप्रौढ़वैरानुभावादटन-भोजन-स्त्रानासन-शयनादिष्ववस्थान्तरेषु नैवा पययावस्यात्मचेतसः ।। ४-१५-८ ।।

ततस्तमेवाक्रोशेषूज्वारयन् तमेव ह्टदये धारयन्नात्मवधाय भगवदस्त चक्रांशुमालोज्ज्वलमक्षयतेजः-स्वरूपं परमब्रह्मस्वरुपमपगतरागदूषादिदोष भगवन्तमद्राक्षीत् तावज्व भगवज्वक्रेणाशु व्यापादितः । तेन तत्स्मरणदग्धा खिलाघसञ्चयो भगवतैवान्तमुपनीतस्तस्मिन्नेव लयमुपययौ ।। ४-१५-९ ।।

एतत् तवाखिलं मयाभिहितम् । भगवानिह कीर्त्तितः संस्मृतश्व दूषोनुबन्धेनाप्यखिलसुरासुरादि दुर्लभं फलं प्रयच्छति किमुत सम्यगू भक्तिमताम् ।। ४-१५-१० ।।

वसुदेवस्यानकदुन्दुभेः पौरवी-रौहिणी-मदिरा-भद्रा-देवकी-प्रमुखा बह्वयः
पत्न्योऽभवन् बलभद्र-शारणा-शठ-दुर्म्मदादीन् पुत्रान् रोहिणयामानकदुन्दुबि रुत्पादयामास । बलभद्रोऽपि रेवत्यां निशठोल्मुकौ पुत्रावजनयत् । मार्ष्टिमार्षिम-च्छिशि शिशु-सत्यधृतिप्रमुखाः शारणास्यात्मजाः ।। ४-१५-११ ।। १८

भद्राश्व-भद्रबाहु-दुर्द्दम-भूताद्या रोहिणयाः कुलजाः ।। ४-१५-१२ ।।

नन्दोपनन्दकृतकाद्या मदिरायास्तनयाः । भद्रायाश्वोपनिधि-गदाद्याः ।
वैशाल्यां च कौशिकमेकमजनयदानकदुन्दुभिः । देवक्यामपि कीत्तिंमत्--
सुषणोदापि-भद्रसेन-ऋजुदास-भद्रदेहाख्याः षट् पुत्रा जाज्ञरे । तांश्व सर्व्वानेव संसो घातितवान् ।। ४-१५-१३ ।।

अनन्तरञ्च सप्तमं गर्भमर्द्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमपकृष्य नीतवती ।। ४-१५-१४ ।।

कर्षणाच्चासावपि सङ्कर्षणाख्यमवाप ।। ४-१५-१५ ।।

ततः सकलजगन्महातरुमूलभूतो भूतातीतभविष्यदादिसकल-सुरासुर-मुनिमनुज-मनसा-मप्यगोचरोऽब्जभवप्रमुखैरनलप्रमुखैश्व प्रणम्यावनिभारावता रणाय प्रसादितो भगवाननादिमध्यो देवकीगर्भे समवततार वासुदेवः ।। ४-१५-१६ ।। ३०

तत्प्रसादविवर्द्धितमानाभिमाना च योगनिद्रा नन्दगोपपत्नया यशोदाया गर्भमधिष्ठितवती ।। ४-१५-१७ ।।

सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं सुस्थमानसभखिलमवैतज्जगदपास्त धर्म्मभवत् तस्मिंश्व पुण्डरीकनयने जायमाने ।। ४-१५-१८ ।।

जातेन च तेनाखिलमेवैतत् सन्मार्गवर्त्ति जगदक्रियत ।
भगवतोऽप्यत्र मर्त्त्यलोकेऽवतीर्णस्य षोड़शसहस्राण्येकोत्तरशताधिकानि स्त्रीणा मभवन् । तासाञ्च रुक्मिणी-सत्यभामा-जाम्बवती-जालहासिनी-प्रमुखा अष्टौ पत्नयः प्रधानाः । तासु चाष्टायुतानि लक्षञ्च पुत्राणां भगवानखिलमुर्त्तिरनादिमानजनयत् ।। ४-१५-१९ ।।

तेषाञ्च प्रद्यु म्र-चारुदेष्ण-साम्बादयस्त्रयोदश प्रधानाः । प्रद्यु म्रो हि रुकिमणस्तनयां ककुदूतीं नामोपयेमे । तस्यामस्यानिरुद्धो जज्ञ । अनिरुद्धोऽपि रुक्मिण एव पौत्रीं सुभद्रां नामोपयेमे । तस्यामस्य वज्रोऽभवत् । वज्रस्य प्रतिबाहुः, तस्यापि सुचारुः ।
एवमनेकशतसाहस्त्रपुरुषसङ्घस्य यदुकुलस्य पुरुषसंख्या वर्षशतैरपि ज्ञातु न
शक्यते । यतो हि श्व्लोकावत्र चरितार्थो ।। ४-१५-२० ।।

तिस्त्रः कोटयः सहस्त्राणामष्टाशीतिशतानि च ।
कुमाराणां गुहाचार्य्यश्वापयोग्यासु ये रताः ।। ४-१५-२१ ।। ४५

सङ्खयानं यादवानां कः करिष्यति महात्मनाम ।
यत्रायुतानामयूतं लक्षेणास्ते शताधिकम् ।। ४-१५-२२ ।।

देवासुरहता ये तु दैतेयाः सुमहाबलाः ।
ते चोत्पन्ना मनुष्येषु जनोपद्रवकारिणः ।। ४-१५-२३ ।।

तेषामुतूसादनार्थाय भुवि देवो यदोः कुले ।
अवतीर्णः कुलशतं यत्रैकाभ्यधिकं द्रिज ।। ४-१५-२४ ।।

विष्णुस्तैषां प्रमाणो च प्रभुत्वे च व्यवस्तितः ।
निदेशस्थामयिनस्तस्य बभूवुः सर्व्वयादवाः ।। ४-१५-२५ ।।

प्रसूति वृष्णिवीराणां यः श्वृणोति नरःसदा ।
स सर्व्वपातकैर्मुक्तो विष्णुलोकं प्रपद्यते ।। ४-१५-२६ ।। ५०