लघुसिद्धान्तकौमुदी/अव्ययीभावसमासः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← केवलसमासः लघुसिद्धान्तकौमुदी
अव्ययीभावसमासः
वरदराजः
तत्पुरुषसमासः →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथाव्ययीभावः

अव्ययीभावः॥ लसक_९१० = पा_२,१.५॥
अधिकारोऽयं प्राक् तत्पुरुषात्॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु॥ लसक_९११ = पा_२,१.६॥
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावः। प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते॥

प्रथमानिर्दिष्टं समास उपसर्जनम्॥ लसक_९१२ = पा_१,२.४३॥
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥

उपसर्जनं पूर्वम्॥ लसक_९१३ = पा_२,२.३०॥
समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक्। अधिहरि॥

अव्ययीभावश्च॥ लसक_९१४ = पा_२,४.१८॥
अयं नपुंसकं स्यात्॥

नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ लसक_९१५ = पा_२,४.८३॥
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम्॥ लसक_९१६ = पा_२,४.५४॥
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययोऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रत्यर्थम्। शक्तिमनतिक्रम्य यथाशक्ति॥

अव्ययीभावे चाकाले॥ लसक_९१७ = पा_६,३.८१॥
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥

नदीभिश्च॥ लसक_९१८ = पा_२,१.२०॥
नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥

तद्धिताः॥ लसक_९१९ = पा_४,१.७६॥
आपञ्चमसमाप्तेरधिकारोऽयम्॥

अव्ययीभावे शरत्प्रभृतिभ्यः॥ लसक_९२० = पा_५,४.१०७॥
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च)। उपजरसमित्यादि॥

अनश्च॥ लसक_९२१ = पा_५,४.१०८॥
अन्नन्तादव्ययीभावाट्टच् स्यात्॥

नस्तद्धिते॥ लसक_९२२ = पा_६,४.१४४॥
नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥

नपुंसकादन्यतरस्याम्॥ लसक_९२३ = पा_५,४.१०९॥
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥

झयः॥ लसक_९२४ = पा_५,४.१११॥
झयन्तादव्ययीभावाट्टज्वा स्यात्। उपसमिधम्। उपसमित्॥

इत्यव्ययीभावः॥ २॥