लघुसिद्धान्तकौमुदी/चातुरर्थिकप्रकरणम्
← रक्ताद्यर्थकप्रकरणम् | लघुसिद्धान्तकौमुदी चातुरर्थिकप्रकरणम् वरदराजः |
शैषिकप्रकरणम् → |
अथ चातुरर्थिकाः
तदस्मिन्नस्तीति देशे तन्नाम्नि॥ लसक_१०५९ = पा_४,२.६७॥
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः॥
तेन निर्वृत्तम्॥ लसक_१०६० = पा_४,२.६८॥
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥
तस्य निवासः॥ लसक_१०६१ = पा_४,२.६९॥
शिबीनां निवासो देशः शैबः॥
अदूरभवश्च॥ लसक_१०६२ = पा_४,२.७०॥
विदिशाया अदूरभवं नगरं वैदिशम्॥
जनपदे लुप्॥ लसक_१०६३ = पा_१,२.५१॥
जनपदे वाच्ये चातुरर्थिकस्य लुप्॥
लुपि युक्तवद्व्यक्तिवचने॥ लसक_१०६४ = पा_१,२.५१॥
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः/ कुरवः। अङ्गाः/ वङ्गाः। कलिङ्गाः॥
वरणादिभ्यश्च॥ लसक_१०६५ = पा_४,२.८२॥
अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥
कुमुदनडवेतसेभ्यो ड्मतुप्॥ लसक_१०६६ = पा_४,२.८७॥
झयः॥ लसक_१०६७ = पा_८,२.१०॥
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥
मादुपधायाश्च मतोर्वो ऽयवादिभ्यः॥ लसक_१०६८ = पा_८,२.९॥
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥
नडशादाड्ड्वलच्॥ लसक_१०६९ = पा_४,२.८८॥
नड्वलः। शाद्वलः॥
शिखाया वलच्॥ लसक_१०७० = पा_४,२.८९॥
शिखावलः॥
इति चातुरर्थिकाः॥ ४॥