लघुसिद्धान्तकौमुदी/अजन्तपुंलिङ्गप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search
← विसर्गसन्धिप्रकरणम् लघुसिद्धान्तकौमुदी
अजन्तपुंलिङ्गप्रकरणम्
वरदराजः
अजन्तस्त्रीलिङ्गप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ लसक_११६ = पा_१,२.४५॥
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥

कृत्तद्धितसमासाश्च॥ लसक_११७ = पा_१,२.४६॥
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् लसक_११८ = पा_४,१.२॥
सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥

ङ्याप्प्रातिपदिकात्॥ लसक_११९ = पा_४,१.१॥

प्रत्ययः॥ लसक_१२० = पा_३,१.१॥

परश्च॥ लसक_१२१ = पा_३,१.२॥
इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥

सुपः॥ लसक_१२२ = पा_१,४.१०३॥
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥

द्व्येकयोर्द्विवचनैकवचने॥ लसक_१२३ = पा_१,४.२२॥
द्वित्वैकत्वयोरेते स्तः॥

विरामो ऽवसानम्॥ लसक_१२४ = पा_१,४.११०॥
वर्णानामभावो ऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः

सरूपाणामेकशेष एकविभक्तौ॥ लसक_१२५ = पा_१,२.६४॥
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥

प्रथमयोः पूर्वसवर्णः॥ लसक_१२६ = पा_६,१.१०२॥
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥

नादिचि॥ लसक_१२७ = पा_६,१.१०४॥
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥

बहुषु बहुवचनम्॥ लसक_१२८ = पा_१,४.२१॥
बहुत्वविवक्षायां बहुवचनं स्यात्॥

चुटू॥ लसक_१२९ = पा_१,३.७॥
प्रत्ययाद्यौ चुटू इतौ स्तः॥

विभक्तिश्च॥ लसक_१३० = पा_१,४.१०४॥
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥

न विभक्तौ तुस्माः॥ लसक_१३१ = पा_१,३.४॥
विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥

एकवचनं सम्बुद्धिः॥ लसक_१३२ = पा_२,३.४९॥
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम्॥ लसक_१३३ = पा_१,४.१३॥
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥

एङ्ह्रस्वात्सम्बुद्धेः॥ लसक_१३४ = पा_६,१.६९॥
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

अमि पूर्वः॥ लसक_१३५ = पा_६,१.१०७॥
अको ऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥

लशक्वतद्धिते॥ लसक_१३६ = पा_१,३.८॥
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥

तस्माच्छसो नः पुंसि॥ लसक_१३७ = पा_६,१.१०३॥
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥

अट्कुप्वाङ्नुम्व्यवाये ऽपि॥ लसक_१३८ = पा_८,४.२॥
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥

पदान्तस्य॥ लसक_१३९ = पा_८,४.३७॥
नस्य णो न। रामान्॥

टाङसिङसामिनात्स्याः॥ लसक_१४० = पा_७,१.१२॥
अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

सुपि च॥ लसक_१४१ = पा_७,३.१०२॥
यञादौ सुपि अतो ऽङ्गस्य दीर्घः। रामाभ्याम्॥

अतो भिस ऐस्॥ लसक_१४२ = पा_७,१.९॥
अनेकाल्शित्सर्वस्य। रामैर्ः॥

ङेयः॥ लसक_१४३ = पा_७,१.१३॥
अतो ऽङ्गात्परस्य ङेयदिशः॥

स्थानिवदादेशो ऽनल्विधौ॥ लसक_१४४ = पा_१,१.५६॥
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥

बहुवचने झल्येत्॥ लसक_१४५ = पा_७,३.१०३॥
झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम्॥

वावसाने॥ लसक_१४६ = पा_८,४.५६॥
अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

ओसि च॥ लसक_१४७ = पा_७,३.१०४॥
अतो ऽङ्गस्यैकारः। रामयोः॥

ह्रस्वनद्यापो नुट्॥ लसक_१४८ = पा_७,१.५४॥
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥

नामि॥ लसक_१४९ = पा_६,४.३॥
अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

आदेशप्रत्यययोः॥ लसक_१५० = पा_८,३.५९॥
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयो ऽप्यदन्ताः॥

सर्वादीनि सर्वनामानि॥ लसक_१५१ = पा_१,१.२७॥
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥

जसः शी॥ लसक_१५२ = पा_७,१.१७॥
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥

सर्वनाम्नः स्मै॥ लसक_१५३ = पा_७,१.१४॥
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥

ङसिङ्योः स्मात्स्मिनौ॥ लसक_१५४ = पा_७,१.१५॥
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥

आमि सर्वनाम्नः सुट्॥ लसक_१५५ = पा_७,१.५२॥
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयो ऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ २। उभाभ्याम् ३। उभयोः २। तस्येह पाठो ऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्॥ लसक_१५६ = पा_१,१.३४॥
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम् ? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः॥

स्वमज्ञातिधनाख्यायाम्॥ लसक_१५७ = पा_१,१.३५॥
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा॥

अन्तरं बहिर्योगोपसंव्यानयोः॥ लसक_१५८ = पा_१,४.३६॥
बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः॥

पूर्वादिभ्यो नवभ्यो वा॥ लसक_१५९ = पा_७,१.१६॥
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च॥ लसक_१६० = पा_१,१.३३॥
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः

जराया जरसन्यतरस्याम्॥ लसक_१६१ = पा_७,२.१०१॥
अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः

दीर्घाज्जसि च॥ लसक_१६२ = पा_६,१.१०५॥
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥

सुडनपुंसकस्य॥ लसक_१६३ = पा_१,१.४३॥
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

स्वादिष्वसर्वनामस्थाने॥ लसक_१६४ = पा_१,४.१७॥
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥

यचि भम्॥ लसक_१६५ = पा_१,४.१८॥
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥

आकडारादेका संज्ञा॥ लसक_१६६ = पा_१,४.१॥
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥

आतो धातोः॥ लसक_१६७ = पा_६,४.१४०॥
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलो ऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्॥ हरिः। हरी॥

जसि च॥ लसक_१६८ = पा_७,३.१०९॥
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥

ह्रस्वस्य गुणः॥ लसक_१६९ = पा_७,३.१०८॥
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥

शेषो घ्यसखि॥ लसक_१७० = पा_१,४.७॥
शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥

आङो नास्त्रियाम्॥ लसक_१७१ = पा_७,३.१२०॥
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥

घेर्ङिति॥ लसक_१७२ = पा_७,३.१११॥
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

ङसिङसोश्च॥ लसक_१७३ = पा_६,१.११०॥
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥

अच्च घेः॥ लसक_१७४ = पा_७,३.११९॥
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥

अनङ् सौ॥ लसक_१७५ = पा_७,१.९३॥
सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ॥

अलो ऽन्त्यात्पूर्व उपधा॥ लसक_१७६ = पा_१,१.६५॥
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

सर्वनामस्थाने चासम्बुद्धौ॥ लसक_१७७ = पा_६,४.८॥
नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने॥

अपृक्त एकाल् प्रत्ययः॥ लसक_१७८ = पा_१,२.४१॥
एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात्॥

हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्॥ लसक_१७९ = पा_६,१.६८॥
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

नलोपः प्रातिपदिकान्तस्य॥ लसक_१८० = पा_८,२.७॥
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥

सख्युरसंबुद्धौ॥ लसक_१८१ = पा_७,१.९२॥
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

अचो ञ्णिति॥ लसक_१८२ = पा_७,२.११५॥
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥

ख्यत्यात्परस्य॥ लसक_१८३ = पा_६,१.११२॥
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

औत्॥ लसक_१८४ = पा_७,३.११८॥
इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

पतिः समास एव॥ लसक_१८५ = पा_१,४.८॥
घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥

बहुगणवतुडति संख्या॥ लसक_१८६ = पा_१,१.२३॥

डति च॥ लसक_१८७ = पा_१,१.२५॥
डत्यन्ता संख्या षट्संज्ञा स्यात्॥

षड्भ्यो लुक्॥ लसक_१८८ = पा_७,१.२२॥
जश्शसोः॥

प्रत्ययस्य लुक्श्लुलुपः॥ लसक_१८९ = पा_१,१.६१॥
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥

प्रत्ययलोपे प्रत्ययलक्षणम्॥ लसक_१९० = पा_१,१.६२॥
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥

न लुमताङ्गस्य॥ लसक_१९१ = पा_१,१.६३॥
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥

त्रेस्त्रयः॥ लसक_१९२ = पा_७,१.५३॥
त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वे ऽपि प्रियत्रयाणाम्॥

त्यदादीनामः॥ लसक_१९३ = पा_७,२.१०२॥
एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवेष्टिः)। द्वौ २। द्वाभ्याम् ३। द्वयोः २॥ पाति लोकमिति पपीः सूर्यः॥

दीर्घाज्जसि च॥ लसक_१९४ = पा_६,१.१०५॥
पप्यौ २। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् ३। पपीभिः। पप्ये। पपीभ्यः २। पप्यः २। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी

यू स्त्र्याख्यौ नदी॥ लसक_१९५ = पा_१,४.३॥
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। (प्रथमलिङ्गग्रहणं च)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वे ऽपि नदीत्वं वक्तव्यमित्यर्थः॥

अम्बार्थनद्योर्ह्रस्वः॥ लसक_१९६ = पा_७,३.१०७॥
सम्बुद्धौ। हे बहुश्रेयसि॥

आण्नद्याः॥ लसक_१९७ = पा_७,३.११२॥
नद्यन्तात्परेषां ङितामाडागमः॥

आटश्च॥ लसक_१९८ = पा_६,१.९०॥
आटो ऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥

ङेराम्नद्याम्नीभ्यः॥ लसक_१९९ = पा_७,३.११७॥
नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं बहुश्रेयसीवत्॥ प्रधीः

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ॥ लसक_२०० = पा_६,४.७७॥
श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे। इति प्राप्ते॥

एरनेकाचो ऽसंयोगपूर्वस्य॥ लसक_२०१ = पा_६,४.८२॥
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम् ? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्॑ नियाम्॥ असंयोगपूर्वस्य किम् ? सुश्रियौ। यवक्रियौ॥

गतिश्च॥ लसक_२०२ = पा_१,४.६०॥
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (गतिकारकेतरपूर्वपदस्य यण् नेष्यते)। शुद्धधियौ॥

न भूसुधियोः॥ लसक_२०३ = पा_६,४.८५॥
एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीःसुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥

तृज्वत्क्रोष्टुः॥ लसक_२०४ = पा_६,१.९५॥
असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥

ऋतो ङिसर्वनामस्थानयोः॥ लसक_२०५ = पा_७,१.११०॥
ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च। इति प्राप्ते -- .

ऋदुशनस्पुरुदंसो ऽनेहसां च॥ लसक_२०६ = पा_७,१.९४॥
ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ॥

अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्॥ लसक_२०७ = पा_६,४.११॥
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥

विभाषा तृतीयादिष्वचि॥ लसक_२०८ = पा_७,१.९७॥
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥

ऋत उत्॥ लसक_२०९ = पा_६,१.१११॥
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥

रात्सस्य॥ लसक_२१० = पा_८,२.२४॥
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः २। क्रोष्ट्रोः २। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः

ओः सुपि॥ लसक_२११ = पा_६,४.८३॥
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः

वर्षाभ्वश्च॥ लसक_२१२ = पा_६,४.८४॥
अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम्)। धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥

नृ च॥ लसक_२१३ = पा_६,४.६॥
अस्य नामि वा धीर्घः। नृणाम्। नॄणाम्॥

गोतो णित्॥ लसक_२१४ = पा_७,१.९०॥
ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥

औतो ऽम्शसोः॥ लसक_२१५ = पा_६,१.९३॥
ओतो ऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥

रायो हलि॥ लसक_२१६ = पा_७,२.८५॥
अस्याकारादेशो हलि विभक्तौ। राः। रायौ। रायः। राम्यामित्यादि॥ ग्लौः। ग्लावौ। ग्लावः। ग्लौभ्यामित्यादि॥

इत्यजन्तपुंल्लिङ्गाः।