लघुसिद्धान्तकौमुदी/कृत्यप्रक्रिया

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← लकारार्थप्रकिया लघुसिद्धान्तकौमुदी
कृत्यप्रक्रिया
वरदराजः
पूर्वकृदन्तप्रकरणम् →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथ कृदन्ते कृत्प्रक्रिया

धातोः॥ लसक_७६९ = पा_३,१.९१॥
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः। कृदतिङिति कृत्संज्ञा॥

वासरूपो ऽस्त्रियाम्॥ लसक_७७० = पा_३,१.९४॥
अस्मिन्धात्वधिकारे ऽसरूपो ऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

कृत्याः॥ लसक_७७१ = पा_३,१.९५॥
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

कर्तरि कृत्॥ लसक_७७२ = पा_३,४.६७॥
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते --.

तयोरेव कृत्यक्तखलर्थाः॥ लसक_७७३ = पा_३,४.७०॥
एते भावकर्मणोरेव स्युः॥

तव्यत्तव्यानीयरः॥ लसक_७७४ = पा_३,१.९३॥
धातोरेते प्रत्ययाः स्युः। एधितव्यम्, एधनीयं त्वया। भावे औत्सर्गिकमेकवचनं क्लीबत्वं च। चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः। पक्तव्या इत्यर्थः। भिदेलिमाः सरलाः। भेत्तव्या इत्यर्थः। कर्मणि प्रत्ययः॥

कृत्यल्युटो बहुलम्॥ लसक_७७५ = पा_३,३.११३॥
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयते ऽस्मै दानीयो विप्रः॥

अचो यत्॥ लसक_७७६ = पा_३,१.९७॥
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥

ईद्यति॥ लसक_७७७ = पा_६,४.६५॥
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥

पोरदुपधात्॥ लसक_७७८ = पा_३,१.९८॥
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतो ऽपवादः। शप्यम्। लभ्यम्॥

एतिस्तुशास्वृदृजुषः क्यप्॥ लसक_७७९ = पा_३,१.१०९॥
एभ्यः क्यप् स्यात्॥

ह्रस्वस्य पिति कृति तुक्॥ लसक_७८० = पा_६,१.७१॥
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥

शास इदङ्हलोः॥ लसक_७८१ = पा_६,४.३४॥
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥

मृजेर्विभाषा॥ लसक_७८२ = पा_३,१.११३॥
मृजेः क्यब्वा। मृज्यः॥

ऋहलोर्ण्यत्॥ लसक_७८३ = पा_३,१.१२४॥
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥

चजोः कु घिण्ण्यतोः॥ लसक_७८४ = पा_७,३.५२॥
चजोः कुत्वं स्यात् घिति ण्यति च परे॥

मृजेर्वृद्धिः॥ लसक_७८५ = पा_७,२.११४॥
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥

भोज्यं भक्ष्ये॥ लसक_७८६ = पा_७,६.६९॥
भोग्यमन्यत्॥

इति कृत्यप्रक्रिया॥