लघुसिद्धान्तकौमुदी/तत्पुरुषसमासः
← अव्ययीभावसमासः | लघुसिद्धान्तकौमुदी तत्पुरुषसमासः वरदराजः |
बहुव्रीहिसमासः → |
अथ तत्पुरुषः
तत्पुरुषः॥ लसक_९२५ = पा_२,१.२२॥
अधिकारो ऽयं प्राग्बहुव्रीहेः॥
द्विगुश्च॥ लसक_९२६ = पा_२,१.२३॥
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ लसक_९२७ = पा_२,१.२४॥
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥
तृतीया तत्कृतार्थेन गुणवचनेन॥ लसक_९२८ = पा_२,१.३०॥
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः। धान्येनार्थो धान्यार्थः। तत्कृतेति किम् ? अक्ष्णा काणः॥
कर्तृकरणे कृता बहुलम्॥ लसक_९२९ = पा_२,१.३२॥
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। नखनिर्भिन्नः॥
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ लसक_९३० = पा_२,१.३६॥
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः)। तेनेह न - रन्धनाय स्थाली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥
पञ्चमी भयेन॥ लसक_९३१ = पा_२,१.३७॥
चोराद्भयं चोरभयम्॥
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ लसक_९३२ = पा_२,१.३९॥
पञ्चम्याः स्तोकादिभ्यः॥ लसक_९३३ = पा_६,३.२॥
अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥
षष्ठी॥ लसक_९३४ = पा_२,२.८॥
सुबन्तेन प्राग्वत्। राजपुरुषः॥
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ लसक_९३५ = पा_२,२.१॥
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम् ? पूर्वश्छात्राणाम्॥
अर्धं नपुंसकम्॥ लसक_९३६ = पा_२,२.२॥
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली।
सप्तमी शौण्डैः॥ लसक_९३७ = पा_२,१.४०॥
सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशोण्ड इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः॥
दिक्संख्ये संज्ञायाम्॥ लसक_९३८ = पा_२,१.५०॥
संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥
तद्धितार्थोत्तरपदसमाहारे च॥ लसक_९३९ = पा_२,१.५१॥
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)॥
दिक्पूर्वपदादसंज्ञायां ञः॥ लसक_९४० = पा_४,२.१०७॥
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥
तद्धितेष्वचामादेः॥ लसक_९४१ = पा_७,२.११७॥
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येति च। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम्)॥
गोरतद्धितलुकि॥ लसक_९४२ = पा_५,४.९२॥
गो ऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥
तत्पुरुषः समानाधिकरणः कर्मधारयः॥ लसक_९४३ = पा_१,२.४२॥
संख्यापूर्वो द्विगुः॥ लसक_९४४ = पा_२,१.५२॥
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥
द्विगुरेकवचनम्॥ लसक_९४५ = पा_२,४.१॥
द्विग्वर्थः समाहार एकवत्स्यात्॥
स नपुंसकम्॥ लसक_९४६ = पा_२,४.१७॥
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्।
विशेषणं विशेष्येण बहुलम्॥ लसक_९४७ = पा_२,१.५७॥
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥
उपमानानि सामान्यवचनैः॥ लसक_९४८ = पा_२,१.५५॥
घन इव श्यामो घनश्यामः। (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥
नञ्॥ लसक_९४९ = पा_२,१.६॥
नञ् सुपा सह समस्यते॥
नलोपो नञः॥ लसक_९५० = पा_६,३.७३॥
नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥
तस्मान्नुडचि॥ लसक_९५१ = पा_६,३.७४॥
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥
कुगतिप्रादयः॥ लसक_९५२ = पा_२,२.१८॥
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥
ऊर्यादिच्विडाचश्च॥ लसक_९५३ = पा_१,४.६१॥
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ (प्रादयो गताद्यर्थे प्रथमया)। प्रगत आचार्यः प्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया)। अतिक्रान्तो मालामिति विग्रहे - .
एकविभक्ति चापूर्वनिपाते॥ लसक_९५४ = पा_१,२.४४॥
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥
गोस्त्रियोरुपसर्जनस्य॥ लसक_९५५ = पा_१,२.४८॥
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानो ऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥
तत्रोपपदं सप्तमीस्थम्॥ लसक_९५६ = पा_३,१.९२॥
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥
उपपदमदिङ्॥ लसक_९५७ = पा_२,२.१९॥
उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भम् करोति कुम्भकारः। अतिङ् किम् ? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः। व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥ लसक_९५८ = पा_५,४.८६॥
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥
अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ लसक_९५९ = पा_५,४.८७॥
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥
रात्राह्नाहाः पुंसि॥ लसक_९६० = पा_२,४.२९॥
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। (संख्यापूर्वं रात्रं क्लीबम्)। द्विरात्रम्। त्रिरात्रम्॥
राजाहः सखिभ्यष्टच्॥ लसक_९६१ = पा_५,४.९१॥
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥
आन्महतः समानाधिकरणजातीययोः॥ लसक_९६२ = पा_६,३.४६॥
महत आकारो ऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ लसक_९६३ = पा_६,३.४७॥
आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥
त्रेस्त्रयः॥ लसक_९६४ = पा_६,३.४८॥
त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ लसक_९६५ = पा_२,४.२६॥
एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥
प्राप्तापन्ने च द्वितीयया॥ लसक_९६६ = पा_२,२.४॥
समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥
अर्धर्चाः पुंसि च॥ लसक_९६७ = पा_२,४.३१॥
&न्ब्स्प्॑र्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। अर्धर्चः। अर्धर्चम्। एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः। सामान्ये नपुंसकम्। मृदु पचति। प्रातः कमनीयम्॥
इति तत्पुरुषः॥ ३॥