लघुसिद्धान्तकौमुदी/उत्तरकृदन्तप्रकरणम्

विकिस्रोतः तः
(उत्तरकृदन्तप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← उणादिप्रकरणम् लघुसिद्धान्तकौमुदी
उत्तरकृदन्तप्रकरणम्
वरदराजः
विभक्त्यर्थाः (कारकप्रकरणम्) →
  1. संज्ञाप्रकरणम्
  2. अच्सन्धिप्रकरणम्
  3. हल्सन्धिप्रकरणम्
  4. विसर्गसन्धिप्रकरणम्
  5. अजन्तपुंलिङ्गप्रकरणम्
  6. अजन्तस्त्रीलिङ्गप्रकरणम्
  7. अजन्तनपुंसकलिङ्गप्रकरणम्
  8. हलन्तपुंलिङ्गप्रकरणम्
  9. हलन्तस्त्रीलिङ्गप्रकरणम्
  10. हलन्तनपुंसकलिङ्गप्रकरणम्
  11. अव्ययप्रकरणम्
  12. भ्वादिप्रकरणम्
  13. अदादिप्रकरणम्
  14. जुहोत्यादिप्रकरणम्
  15. दिवादिप्रकरणम्
  16. स्वादिप्रकरणम्
  17. तुदादिप्रकरणम्
  18. रुधादिप्रकरणम्
  19. तनादिप्रकरणम्
  20. क्र्यादिप्रकरणम्
  21. चुरादिप्रकरणम्
  22. ण्यन्तप्रक्रिया
  23. सन्नन्तप्रक्रिया
  24. यङन्तप्रक्रिया
  25. यङ्लुगन्तप्रक्रिया
  26. नामधातवः
  27. कण्ड्वादिः
  28. आत्मनेपदप्रकिया
  29. परस्मैपदप्रकिया
  30. भावकर्मप्रकिया
  31. कर्मकर्तृप्रकिया
  32. लकारार्थप्रकिया
  33. कृत्यप्रक्रिया
  34. पूर्वकृदन्तप्रकरणम्
  35. उणादिप्रकरणम्
  36. उत्तरकृदन्तप्रकरणम्
  37. विभक्त्यर्थाः (कारकप्रकरणम्)
  38. केवलसमासः
  39. अव्ययीभावसमासः
  40. तत्पुरुषसमासः
  41. बहुव्रीहिसमासः
  42. द्वन्द्वसमासः
  43. समासान्तप्रकरणम्
  44. तद्धिते साधारणप्रत्ययप्रकरणम्
  45. अपत्याधिकारप्रकरणम्
  46. रक्ताद्यर्थकप्रकरणम्
  47. चातुरार्थिकप्रकरणम्
  48. शैषिकप्रकरणम्
  49. विकारार्थप्रकरणम्
  50. ठगधिकारप्रकरणम्
  51. प्राग्घितीयप्रकरणम्
  52. छयतोरधिकारप्रकरणम्
  53. ठञधिकारप्रकरणम्
  54. त्वतलाधिकारप्रकरणम्
  55. भवनाद्यर्थकप्रकरणम्
  56. मत्वर्थीयप्रकरणम्
  57. प्राग्दिशीयप्रकरणम्
  58. प्रागिवीयप्रकरणम्
  59. स्वार्थिकप्रकरणम्
  60. स्त्रीप्रत्ययप्रकरणम्


अथोत्तरकृदन्तम्

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥ लसक_८५२ = पा_३,३.१०॥
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥

कालसमयवेलासु तुमुन्॥ लसक_८५३ = पा_३,३.१६७॥
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥

भावे॥ लसक_८५४ = पा_३,३.१८॥
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

अकर्तरि च कारके संज्ञायाम्॥ लसक_८५५ = पा_३,३.१९॥
कर्तृभिन्ने कारके घञ् स्यात्॥

घञि च भावकरणयोः॥ लसक_८५६ = पा_६,४.२७॥
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः॥ लसक_८५७ = पा_३,३.४१॥
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः/ गोमयनिकायः॥

एरच्॥ लसक_८५८ = पा_३,३.४६॥
इवर्णान्तादच्। चयः। जयः॥

ॠदोरप्॥ लसक_८५९ = पा_३,३.५७॥
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥

ड्वितः क्त्रिः॥ लसक_८६० = पा_३,३.८८॥

क्त्रेर्मम्नित्यम्॥ लसक_८६१ = पा_४,४.२०॥
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

ट्वितो ऽथुच्॥ लसक_८६२ = पा_३,३.८९॥
टुवेपृ कम्पने, वेपथुः॥

यजयाचयतविच्छप्रच्छरक्षो नङ्॥ लसक_८६३ = पा_३,३.९०॥
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

स्वपो नन्॥ लसक_८६४ = पा_३,३.९१॥
स्वप्नः॥

उपसर्गे घोः किः॥ लसक_८६५ = पा_३,३.९२॥
प्रधिः। उपधिः॥

स्त्रियां क्तिन्॥ लसक_८६६ = पा_३,३.९४॥
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञो ऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। (संपदादिभ्यः क्विप्)। संपत्। विपत्। आपत्। (क्तिन्नपीष्यते)। संपत्तिः। विपत्तिः। आपत्तिः॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥ लसक_८६७ = पा_३,३.९७॥
एते निपात्यन्ते॥/

ज्वरत्वरस्रिव्यविमवामुपधायाश्च॥ लसक_८६८ = पा_६,४.२०॥
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

इच्छा॥ लसक_८६९ = पा_३,३.१०१॥
इषेर्निपातो ऽयम्॥

अ प्रत्ययात्॥ लसक_८७० = पा_३,३.१०२॥
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥

गुरोश्च हलः॥ लसक_८७१ = पा_३,३.१०३॥
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

ण्यासश्रन्थो युच्॥ लसक_८७२ = पा_३,३.१०७॥
अकारस्यापवादः। कारणा। हारणा॥

नपुंसके भावे क्तः॥ लसक_८७३ = पा_३,३.११॥

ल्युट् च॥ लसक_८७४ = पा_३,३.११५॥
हसितम्, हसनम्॥

पुंसि संज्ञायां घः प्रायेण॥ लसक_८७५ = पा_३,३.१८८॥

छादेर्घे ऽद्व्युपसर्गस्य॥ लसक_८७६ = पा_६,४.९६॥
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्ते ऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥

अवे तॄस्त्रोर्घञ्॥ लसक_८७७ = पा_३,३.१२०॥
अवतारः कूपादेः। अवस्तारो जवनिका॥

हलश्च॥ लसक_८७८ = पा_३,३.१२१॥
हलन्ताद्घञ्। घापवादः। रमन्ते योगिनो ऽस्मिन्निति रामः। अपमृज्यते ऽनेन व्याध्यादिरित्यपामार्गः॥

ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥ लसक_८७९ = पा_३,३.१२६॥
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

आतो युच्॥ लसक_८८० = पा_३,३.१२८॥
खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॥ लसक_८८१ = पा_३,४.१८॥
प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्। प्राचां ग्रहणं पूजार्थम्। अमैवाव्ययेनेति नियमान्नोपपदसमासः। दो दद्घोः। अलं दत्त्वा। घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम्? मा कार्षीत्। प्रतिषेधयोः किम्? अलंकारः॥

समानकर्तृकयोः पूर्वकाले॥ लसक_८८२ = पा_३,४.२१॥
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

न क्त्वा सेट्॥ लसक_८८३ = पा_१,२.१८॥
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम् ? कृत्वा॥

रलो व्युपधाद्धलादेः संश्च॥ लसक_८८४ = पा_२,२.२६॥
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम् ? वर्तित्वा। रलः किम् ? एषित्वा। सेट् किम् ? भुक्त्वा॥

उदितो वा॥ लसक_८८५ = पा_७,२.५६॥
उदितः परस्य क्तव इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥

जहातेश्च क्त्वि॥ लसक_८८६ = पा_७,४.४३॥
हित्वा। हाङस्तु - हात्वा॥

समासे ऽनञ्पूर्वे क्त्वो ल्यप्॥ लसक_८८७ = पा_७,१.३७॥
अव्ययपूर्वपदे ऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम् ? अकृत्वा॥

आभीक्ष्ण्ये णमुल् च॥ लसक_८८८ = पा_३,४.२२॥
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

नित्यवीप्सयोः॥ लसक_८८९ = पा_८,१.४॥
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावंश्रावम्॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ लसक_८९० = पा_३,४.२७॥
एषु कृञो णमुल् स्यात्। सिद्धो ऽप्रयोगो ऽस्य एवम्भूतश्चेत् कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवङ्कारम्। कथङ्कारम्। इत्थङ्कारं भुङ्क्ते। सिद्धेति किम् ? शिरो ऽन्यथा कृत्वा भुङ्क्ते॥

इत्युत्तरकृदन्तम्॥
इति कृदन्तम्॥